Book Title: Tattvartha Trisutri Prakashika
Author(s): Vijaylavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 144
________________ भाष्यटीकाविवृतियुता] षष्ठभङ्गखरूपोपवर्णनम् । [१.०३] त्वामनुष्यत्वादिना युगपदभेदविवक्षायामवाच्यः, यतः सर्वेऽपि तस्यैकस्यात्मनस्तदैव विकल्पाः सम्भवन्तीति ॥ ___षष्ठविकल्पोऽपि त्रिभिरात्मभियंशः-स्यान्नास्ति चावक्तव्यश्चात्मेति, नान्तरेणात्मभेदं वस्तुगतं नास्तित्वमवक्तव्यरूपानुविद्धं शक्यं कल्पयितुं वस्तुनः, तथापि सद्भावात् तत्र नास्तित्वं पर्यायाश्रयम् , स च पर्यायो युगपद्वृत्तः क्रमप्रवृत्तो वा, सहावस्थाय्यविरोधादात्मनो धर्म एककाल एव, यथा-चेतनोपयोगवेदनाहर्षसम्यक्तवहास्यरतिपुरुषवेदायुर्गतिजात्यादिसत्त्वद्रव्यत्वामूर्तत्वकर्तृत्वभोक्तृत्वान्यत्वानादित्वासङ्ख्यातप्रदेशत्वनित्यत्वादिः, क्रमवर्ती तु क्रोधादिदेवत्वादिबालत्वादिज्ञानितादिः स्वस्थानेऽनेकभेदवृत्तः, तत्रैकोऽवस्थितो द्रव्यार्थों जीवनामा नैवास्ति कश्चिच्चेतनाव्यतिरिक्तः क्रोधादिक्रमवृत्तधर्मरूपनैरन्तर्यमात्रव्यतिरिक्तो वा, अत एव तु धर्मास्तथासन्निविष्टाः सत्त्वव्यपदेशव्यवहारभाजो भवन्तीति, अतो नास्ति-पर्यायार्थादेवंविधो द्रव्यार्थस्य कश्चिदंशो नास्तीति, तेन रूपेणाभावात् , न पुनः सर्वथैव नास्तित्वम् , विशिष्टस्याभावस्य विवक्षितत्वात् , पर्यायांशः । सर्वार्थज्ञातृत्वात्सर्वव्यापारविनियोगात् सर्ववस्तुत्वेन सन्निति द्रव्यार्थांशः, आभ्यां सह विवक्षायामवाच्य इति द्वितीयोंऽशः ॥ क्षायामित्यनेनान्वयः । विशेषेण वेति, द्रव्यपर्यायविशेषेण वेत्यर्थः, तत्र द्रव्यविशेषो मनुष्यत्वादिः पर्यायविशेषोऽमनुष्यस्वादिः । एतदभिसन्धानेनाह-मनुष्यत्वामनुष्यत्वादिनेति। युगपदमेदविवक्षायामिति, सदसतोयुगपदभेदविवक्षायामित्यर्थः, अत्रैकस्य क्रमिकविवक्षा तदन्यस्य च युगपद्विवक्षा सम्भवत्येव । ते अंशा वस्तुनः सन्त्येवेति नासम्भवकदर्थितोऽयं विकल्प इत्याह-यत इति ॥ षष्ठभङ्गं भावयति-षष्ठविकल्पोऽपीति । त्रिभिरात्मभिरिति, कश्चित्पर्यायविशेषमाश्रित्य नास्तित्वं तदन्यस्य नास्तित्वसामान्यस्य तद्विशेषस्य वाश्रयणेन च नास्तित्वमिति नास्तित्वद्वयम् , एकञ्चास्तित्वं द्वितीयेन नास्तित्वेन . सह युगपद्विवक्षितमित्येवं त्रिभिः स्वरूपैरित्यर्थः। द्यशः स्यान्नास्तीत्येकोंशः स्यादवक्तव्य इति द्वितीय आभ्यां ग्रंशः। तत्स्व. रूपमुद्घाटयति-स्यान्नास्ति चावक्तव्यश्चात्मेतीति । एतच्च वस्तुनः स्वरूपभेदमुररीकृत्यैव सम्भवति न त्वेकत्वैकान्ते इत्याह-नान्तरेणेति, वस्तुगतमात्मभेदमन्तरेण वस्तुनोऽवक्तव्यरूपानुविद्धं नास्तित्वं कल्पयितुं न शक्यमित्यन्वयः। आत्ममेदं खरूपभेदम् । अवक्तव्यशरीरे सहभावविवक्षातोऽस्तित्वमप्याकृष्टमेव, अस्तित्वमन्तरेण केन सह नास्तित्वस्य युगपद्विवक्षा स्यात् ? ययाऽवक्तव्यमित्युच्येत, तथा च नास्ति चावक्तव्यश्चेत्युक्तौ वस्तुनः सद्भावोऽपि गम्यत एवेत्साह-तथापीति, नास्तित्वे सत्यवक्तव्यत्वेऽपीत्यर्थः । सद्भावात् सत्त्वात् । तत्र षष्ठभङ्गे । पर्यायाश्रयम् आत्मनः परगताचैतन्यादिपर्यायनिबन्धनम् । सच अचैतन्यादिरूपपर्यायश्च। युगपद्वत्तः, अवक्तव्यखरूपे सत्त्वेन सह युगपद्विवक्षया वृत्तः। क्रमप्रवृत्तः स्यान्नास्तीत्यंशे क्रमप्रवृत्तः। वाकारो यस्य नास्तित्वपर्यायस्य युगपत्तत्वं तदन्यस्यैव नास्तित्वपर्यायस्य क्रमप्रवृत्तत्वमित्यर्थस्यावगतये एकस्यैवैकदा क्रमयुगपद्विवक्षयोरघटनादिति बोध्यम् । यत्क्रमवृत्तं नास्तित्वं तद्युगपद्वृत्तनास्तित्वेन सह वर्तते तयोर्विरोधे मानाभावात् इत्येककाले नास्ति चावक्तव्यश्चेति सम्भवतीत्याह-सहावस्थायीति। अत्र पर्यायार्थिकनयापेक्षयाऽऽत्मनो नास्तित्वं न तु सर्वथा । द्रव्यास्तिकापेक्षयाऽस्तित्वमपीत्येतत्प्रकटनाय आत्मनः सहवर्तिनः पर्यायान् क्रमवर्तिनः पर्यायांश्चोपदर्शयति-यथेत्यादिना। तदुपदर्शनेन पर्याया एव विभाव्यन्ते न तु द्रव्यमेकमनुभूयत इत्येवं परपर्यायानाश्रयणेऽपि खपर्यायाश्रयणत एवात्मनो नास्तित्वं घटते द्रव्यरूपस्यात्मन इत्याविष्कृतम्भवति । चेतनोपयोगादीनां युगपदवस्थानं सम्भवतीति युगपदवस्थितास्ते पर्यायाः क्रोधादयश्च क्रमवर्तिनः पर्यायाः नोक्तपर्यायेभ्योऽन्यदात्मद्रव्यमेकमनुभूयत इति नास्तीत्याह-तत्रेति, तेषु पर्यायेष्वित्यर्थः । चेतनाव्यतिरिक्त इत्यनेन युगपदवस्थायिपर्यायमात्र व्यतिरिक्तो गृह्यते। क्रमवृत्तपर्यायव्यतिरिक्तोऽप्यात्मा नास्तीत्याह-क्रोधादीति । यद्यात्मद्रव्यं नास्त्येव पर्यायनये तदाऽऽत्मा जीवः प्राणी सत्त्वमित्यादिव्यपदेशो निर्निबन्धनस्तत्र प्रसज्यत इत्यत आह-अत एव विति, पर्यायव्यतिरिक्तस्यात्मानोऽभावादेव पुनः पर्यायादेशेनात्मनो नास्तित्वमुपसंहरति-अत इति। नास्तीति व्याख्येयस्वरूपं तव्याख्यानमाह-पर्यायार्थादेवंविधो द्रव्यार्थस्य कश्चिदंशो नास्तीति। तेन रूपेण द्रव्यार्थरूपेण । विशिष्टस्य द्रव्यार्थरूपावच्छिन्नस्य । अभावस्य सत्त्वाभावरूपनास्तिस्वस्य । पर्यायांश इत्यत्र छेदः, उक्तदिशा

Loading...

Page Navigation
1 ... 142 143 144 145 146 147 148 149 150