Book Title: Tattvartha Trisutri Prakashika
Author(s): Vijaylavanyasuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
[१००] प्रतिभङ्गं वर्तमानानां गुणानां क्रमयोगपद्यविवेकः। [तत्त्वार्थत्रिसूत्री षपाण्याद्यात्मकत्ववद् वा, अतस्ते तस्यारम्भकत्वाद् भागाः पुरुषस्येव पाण्यादयो वस्त्वंशमनुभवन्ति क्रमेण क्रमयोगपद्याभ्यां वृत्ता बा, चतुर्थे तावत् समुच्चयात्मकेन क्रमेण वृत्ताः, पञ्चमषष्ठयोरपचितक्रमयुगपद्वृत्ताः, सप्तमे प्रचितक्रमयोगपद्याभ्यां वृत्ताः-संश्चासंश्चावक्तव्यश्चेत्यनेकबुद्धिबुद्धित्वाद्, अनेकबुद्धिर्हि बुद्धिर्भवति द्रव्यपर्यायेषु सत्सु व्यात्मिका, यतोऽनेकां सदूपामसद्रूपामवक्तव्यरूपां च बुद्धिं भिन्नामिव क्रमवतीमिवाश्रित्याभिन्नैकाक्रमा वस्तुरूपा वाक्यार्थबुद्धिर्भवति, तस्माद् भेदक्रमप्रतिभासविज्ञानहेतुत्वाद् भागास्ते भवन्त्यत्राविभक्तस्यैकस्यापि वस्तुनः । एवं चानेकखभावेऽर्थे सति वक्तुरिच्छावशात् कदाचित् केनचिद् रूपेण वक्तुमिष्यते, विवक्षायत्ता च वचसः सकलादेशता विकलादेशता च द्रष्टव्या, द्रव्यार्थजात्यभेदात् तु सर्वद्रव्यार्थभेदानेवैकं द्रव्यार्थ मन्यते, यदा पर्यायजात्यभेदाच्चैक
पिबोध्यम् । एतद्दााय दृष्टान्तमुपदर्शयति-घटेति । अतः परिणामस्य परिणाम्यात्मकत्वात् । ते परिणामभूता गुणाः । तस्यैकगुणिन आत्मनः। यद्यपि आत्मा परिणामी आरम्भकः कारणत्वात् , न तु परिणामा आरम्भकाः कार्यत्वात् , तथापि परिणामपरिणामिनोरभेदात्परिणामभवने परिणामिन आत्मनोऽपि भवनम् , तच्च भवनं परिणामभवननिबन्धनं परिणामनिबन्धनतयोपचर्यत इत्याशयः । वस्त्वंशमनुभवन्ति वस्त्वंशत्वं प्राप्नुवन्ति। कुत्र भङ्गे क्रमेण वृत्ताः कुत्र च क्रमयोगपद्याभ्यां वृत्ता इत्याकाङ्खायामाह-चतुर्थ इति, स्यादस्ति च स्यान्नास्ति चेति चतुर्थभङ्ग इत्यर्थः। ननु चतुर्थभङ्गे अस्तित्वस्य नास्तित्वस्य च समुच्चय एव न तु क्रम इति कथं तत्र क्रमवृत्तत्वमित्यत आह-समुच्चयात्मकेनेति, योऽसौ तयोः समुच्चयः स एव क्रमः, नहि एकाभिधानान्तरमेकाभिधानलक्षणं क्रममन्तरेण समुच्चयः सम्भवतीति । स्यादस्ति स्यादवक्तव्य इति पञ्चमे भङ्गे एकस्यास्तित्वस्य गुणस्यापेक्षया क्रमस्य सद्भावेऽपि अन्यस्य नास्तित्वगुणस्यापेक्षया न क्रमः, एवं स्यानास्ति स्यादवक्तव्य इति षष्ठे भङ्गे एकस्य नास्तित्वगुणस्यापेक्षया क्रमभावेऽपि अन्यस्यास्तित्वगुणस्यापेक्षया न क्रम इत्युभयत्रापचितोऽपुष्टः क्रमः, योगपद्यन्तूभयत्रास्तित्वनास्तित्वयोर्युगपद्विवक्षया समस्तीत्याशयेनाह-पञ्चमषष्ठयोरिति । स्यादस्ति स्यान्नास्ति स्यादवक्तव्य इति सप्तमभङ्गे तु अस्तित्वनास्तित्वयोरुभयोरपि क्रमो विद्यत इति प्रचितः-पुष्टः क्रमो योगपद्यमपीत्याह-सप्तम इति । क्रमयुगपद्वृत्तानां गुणानां बुद्धरनेकबुद्धित्वेनानेकत्वं वाक्यार्थबुद्धित्वेनैकत्वमिति ग्राहकस्यैकानेकत्वेन ग्राह्यस्य वस्तुनोऽप्येकानेकात्मकत्वमिति भावयितुं सप्तस्य तावदाकारमुल्लिखति-संश्चासंश्वावक्तव्यश्चेतीति, ग्राहकबुद्धेरप्ययमेवाकारः-संश्चासंश्चावक्तव्यश्चेति, तथा च भङ्गक्रमेणैवं प्रयोगः-सत्त्वासत्त्वे क्रमेण वृत्ते संश्चासंश्चेत्यनेकबुद्धिबुद्धित्वात् , सत्त्वावक्तव्यत्वे क्रमयुगपद्वृत्ते संश्चावक्तव्यश्चेत्यनेकबुद्धिबुद्धित्वात् , असत्त्वावक्तव्यत्वे क्रमयुगपद्वृत्ते असंश्चावक्तव्यश्चेत्यनेकबुद्धिबुद्धित्वात् , सत्त्वासत्त्वावक्तव्यत्वानि क्रमयुगपद्वृत्तानि सँश्चासंश्चावक्तव्यश्चेत्यनेकबुद्धिबुद्धित्वात् ; बुद्धरनेकत्वञ्चानेकाकारत्वात् , अनेकबुद्धिबुद्धिर्यस्येति व्युत्पत्तितोऽनेकबुद्धिबुद्धित्वस्य पक्षधर्मताऽवसेया, सप्तमभङ्गदर्शितप्रकारश्चतुर्थपञ्चमषष्ठभङ्गेष्वपि सुलभ इति लाघवैषिणाऽऽचार्येण सप्तमभङ्गमुल्लिख्यैवानेकबुद्धिबुद्धित्वं हेतुत्वेनोपन्यस्य तदनुगमनमेव विभावितमिति बोध्यम् । सप्तमभङ्गोल्लिख्यमानवाक्यार्थबुद्धरनेकत्वमेकत्वञ्च भावयति-अनेकबुद्धिहीति, हि यतः, सत्सु द्रव्यपर्यायेषु बुद्धिरनेकबुद्धिर्भवति यतः व्यात्मिका। व्यात्मकत्वे सत्यप्येकात्मकत्वं बुद्धेः प्रपञ्चयति-यत इत्यादिना । अनेकामिति, बुद्धिमित्यनेनान्वेति । कथमनेकामित्याकाङ्क्षायामाह-सद्रपामित्यादि। सा बुद्धिर्यद्यपि व्यक्तात्मनैकैव तथापि विषयोपाधिभेदाद्भिन्नेव प्रतिभातीत्यभिप्रेत्याह-भिन्नामिवेति । आकारक्रम आकारिण्यपचर्यत इत्याशयेनाह-क्रमवतीमिवेति, एवंविधां बुद्धिमाश्रित्य एतादृशबुद्धिखरूपमात्माभेदेनावलम्ब्य भवन्ती सप्तमभङ्गजनिता वाक्यार्थबुद्धिस्वतः कीदृशी भवति ? इत्याकाङ्क्षायामाह-अभिनेति । अनेकरूपत्वे अप्यनेकाभेदमवलम्ब्याभिन्ना नात्राभिप्रेतेत्यावेदनायाहएकेति । एकस्य क्रमो न सम्भवत्येवेत्यावेदनायाह-अमेति । अक्रमस्य सखण्डत्वरूपवैकल्याभावेन भागत्वासम्भवाद्वस्तुरूपतैवेत्यावेदनायाह-वस्तुरूपेति । तथा चैकापि वाक्यार्थबुद्धिर्यद्वशादनेकरूपतया सम्पद्यते ते बुद्धिगतानेकबुद्धित्वप्रयोजकत्वाद्भागा अवसेयाः, तेषाचावबोधकत्वाच्चतुर्थादिभङ्गा विकलादेशा इति निगमयति-तस्मादिति । नन्वस्तु गुणानां भागत्वम् , यथा चानेकगुणस्य भागत्वं तथैकस्यापि भागत्वमेव नहि तदेकपरिसमाप्तं वस्त्विति सकलादेशता विकलादेशता कथमवधार्येत्यपेक्षायामाह-एवं चेति, वस्तुन एकानेकखभावत्वे सिद्धे गुणानां भागत्वे सिद्धे चेत्यर्थः। आद्यभङ्गत्रिकस्य

Page Navigation
1 ... 139 140 141 142 143 144 145 146 147 148 149 150