Book Title: Tattvartha Trisutri Prakashika
Author(s): Vijaylavanyasuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
चतुर्थभङ्गस्य विकलादेशता, तत्सङ्गमनञ्च ।
[९]
भाटी का विवृतियुता ] स्यापि ग्रहणम् । तत्र चतुर्थ उभयप्रधानो विकल्पः क्रमेणोभयस्यापि शब्देनाभिधेयत्वात्, देशादेशो हि विकलादेशस्तश्च वस्तुनो वैकल्यम्, स्वेन तत्त्वेनाप्रविभक्तस्यापि विविक्तं गुणरूपं स्वरूपेणोपरञ्जकमपेक्ष्य प्रतिकल्पितमंशभेदं कृत्वाऽनेकान्तात्मकैकत्व व्यवस्थायां नरसिंहनरसिंहत्ववत् समुदायात्मकमात्मरूपमभ्युपगम्याभिधानं विकलादेशः, न तु केवलसिंह सिंहत्वव देकात्म कैकत्व परिग्रहात्, यथा च प्रतिपादनोपायार्थपरिकल्पिताने कनीलपीतादिभागानिर्वि भागमगनेकात्मकमेकं चित्रं सामान्यरूपमुच्यते, तथा वस्त्वष्यनेकधर्मस्वभावमेकम् दृष्टश्चाभिन्नात्मनोऽर्थस्य भिन्नो गुणो भेदक:- परुद्भवान् पटुरासीत् पटुतर ऐषोsन्य एवाभिसंवृत्तः, पटुत्वातिशयो गुणः सामान्यपाटवाद् गुणादन्यः, स वस्तुनो भेदं कल्पयति, भिन्नप्रयोजनार्थिना तथाश्रितत्वात्, अनेकात्मकं चैकत्वमात्मादेः, यतोऽनेकं शुद्धाशुद्धं द्रव्यार्थमाश्रित्य पर्यायनयं चैकात्मनो वृत्तिः, तथात्मकोऽसौ तद्भावभावित्वात्, घटमृदात्मकत्ववत् पुरु
1
स्यादस्ति च नास्ति चेत्येवंरूपः । उभयप्रधानः, अस्तित्वनास्तित्वोभयप्रधानः । तत्र हेतुः क्रमेणेत्यादि, क्रमेण समुच्चयात्मकक्रमेण, यत्र समुच्चयो भवति तत्र क्रमोऽस्त्येवैकस्याभिधानानन्तरमेकस्याभिधानमिति । उभयस्यापि सत्त्वासत्त्वो - भयस्यापि । शब्देन खखप्रतिपादकशब्देन । विविक्तः - परस्परं प्रविभक्तो गुण एव वस्तुनो वैकल्यं तत्प्रतिपादकत्वेन अस्य भङ्गस्य विकलादेशत्वमित्युपपादनायाह - देशादेशो हीति, हि यतः, देशादेशः - देशे आदेशः स एव विकलादेशः, स एव च वस्तुनः खण्डेऽवस्थापनाद्वैकल्यमित्याह तच्च वस्तुनो वैकल्यमिति, तच्चेतिस्थाने तस्येति पाठे तु तस्य अनन्तधर्मात्मकतथा प्रसिद्धस्य । देशादेशस्य विकलादेशतामुपपादयति-स्वेन तत्त्वेनेति, अनन्त धर्मात्मकैकखरूपत्वलक्षणतत्त्वेनेत्यर्थः । अप्रविभक्तस्यापि, अखण्डस्यापि वस्तुन इति दृश्यम् । विविक्तं परस्परविभिन्नम् । गुणरूपं सत्त्वादिलक्षणम् । तस्य गुणत्वोपपत्तये आह-स्वरूपेणोपरञ्जकमिति, स्वस्वरूपेण परोपरञ्जकस्य गुणत्वप्रसिद्धेः । यदा च गुणवरूपोपरञ्जितं वस्तु भवति तदा गुणभेदेन वस्तुभेदोऽप्ययत्नोपनत एवेत्याह-प्रतिकल्पितमंशभेदमिति, अन्यकृतभेदस्य वास्तविकत्वाभावात्प्रतिकल्पितमिति, प्रकल्पितमिति पाठो युक्तः, गुणरूपं प्रतीत्य कल्पितमित्यर्थाभिप्रायेण युज्येतापि प्रतिकल्पितमिति, परं तस्यार्थस्यापेक्ष्येत्यनेनैव प्राप्तत्वादिति बोध्यम्, एवंभूतमंशभेदं कृत्वा योऽयं देशादेशः सोऽनेकान्तात्मैकैकतत्त्वव्यवस्थायां विकलादेशस्सन् वस्तुनो वैकल्यं भवति, एकान्ततत्त्वव्यवस्था यदि स्यात्तदा स वस्तुप्रतिपादकत्वात्सकला देशः स्याद् अपि सा त्वनुपपन्नत्वात्प्रामाणिकैरनादरणीयैवेत्यभिसन्धिः । विकलादेशत्वे दृष्टान्तमाह - नरसिंहनरसिंहत्वव दिति, नरसिंहेऽखण्डव्यक्तिखरूपे भागकल्पनमपेक्ष्य नरत्वसिंहत्वविकल्पवदित्यर्थः । केनाभिसंधिना विकलादेशः प्रवर्त्तत इत्यपेक्षायामाह - समुदायात्मकेति सत्त्वासत्त्वादिगुणसमुदायात्मकमित्यर्थः । अखण्डैकरूपात्मकवस्त्वभ्युपगमनेनाभिधानन्तु सकलादेश एव न विकलादेश इत्याह-न त्विति । सिंहे सिंहत्ववचनं यथा न विकलादेशस्तथैवैकात्म स्वरूपवस्तु गतैकत्वाभ्युपगमेनैकत्ववचनं न विकलादेश इत्येतत्प्रतिपादयति- केवलेत्यादिना । नन्वनेकधर्मस्वभावस्य वस्तुन एकत्वमेवानुपपन्नमित्य सम्भवदर्थकैकवचनस्य सकलादेशत्वमपि न युज्यत इत्यत आह-यथा चेति, प्रतिपादनोपायार्थं परिकल्पितोऽनेकनीलपीतादिभागो यस्य तत्प्रतिपादनोपायार्थपरिकल्पितानेक नीलपीतादिभागम् एवंभूतं सद् अनिर्विभागमखण्डमत एव चानेकात्मकम् एकम् एतादृशं चित्रं सामान्यरूपं यथोच्यते इति दृष्टान्तप्रकटनम् । तथा चानेकात्मकैकस्वभावस्य चित्रस्य यथैकत्ववचनं नासम्भकदर्थकं तथा वस्तुन्यप्येकत्ववचनमित्याह - तथेति । ननु गुणानामनेकत्वेऽपि ततो गुणिन एकस्यानेकत्वं कुतः ? नहि अन्यस्य भेदेऽन्यस्य भेदो युक्त इत्यनेकात्मकत्वमेव वस्तुनोऽनुपपन्नमिति तदाश्रयणेन विकलादेशोऽपि कथं सङ्गतिमङ्गतीत्यत आह-दृष्टश्चेति । परुत् गतसंवत्सरे । एषमः, वर्त्तमानसंवत्सरे । तथाश्रितत्वात् वस्तुनो भेदकत्वेन गुणभेदस्याश्रितत्वात्। आत्मनोऽनेकात्मकत्वे सत्येकत्वं भावयति-यत इत्यादिना । शुद्धद्रव्यार्थाश्रयणे एकमेव नानेकमिति द्रव्यार्थस्य विशेषणं शुद्धाशुद्धमिति । पर्यायनयं च अयमनेकत्वमभ्युपगच्छत्येव न तत्र विशेषणकृत्यं समस्तीत्यविशेषितस्यैव तस्योपादानम्। एकात्मनः परिणामिनो वृत्तिः परिणामोऽनेकमिति । ननु परिणामस्य परिणामिनोऽन्यत्वमेव, तथा च परिणामस्यानेकत्वेऽपि कथं परिणामिन एकस्यात्मनोऽनेकत्वमित्यत आह- तथात्मकोऽसाविति, असौ वृत्तिः परिणामः । तथात्मकः परिणम्यमानात्मस्वरूपः । तद्भावभावित्वात् परिणम्यमानात्मभावे सति भावात् तदभावे चाभावादित्य

Page Navigation
1 ... 138 139 140 141 142 143 144 145 146 147 148 149 150