Book Title: Tattvartha Trisutri Prakashika
Author(s): Vijaylavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 138
________________ भाष्यटीकाविवृतियुता] तृतीयभङ्गोपपादकं भाष्यं तत्प्रकारभावना च । [९७] इदानीमवक्तव्यताविभावनायाह[भाष्यम्-] तदुभयपर्याये वा, तदुभयपर्याययोर्वा, तदुभयपर्यायेषु वा, आदिष्टं द्रव्यं वा, द्रव्ये वा, द्रव्याणि वा, न वाच्यं-सदसदिति वा। तदुभयपर्याये वेत्यादि । तदित्यतिक्रान्तद्वयपरामर्शः, सद्भावासद्भावपर्यायद्वयसम्परिग्रहार्थः, उभयश्चासौ पर्यायश्च उभयपर्यायोऽस्तित्वनास्तित्वलक्षणः, स चासावुभयपर्यायश्च तदुभयपर्यायस्तदुभयपर्यायनिमित्तस्तद्विषयो वाऽप्यादेशस्तेनार्पितमात्मतत्त्वमस्तिनास्तिरूपेण युगपद्विवक्षायामुक्तप्रकारभावनया न शक्यं वक्तुमित्यवाच्यम् , ताभ्यामुभयपर्यायाभ्यामादिष्टं युगपदात्मरूपं द्रव्यं वेत्यादि विकल्प्यते । न वाच्यं सदित्यसदिति वा, सद् द्रव्यमसद् वा द्रव्यं न वक्तव्यम् , क्रमेण त्वादेशे भवत्येतदेवम् , सहभावार्पणायां तु न सच्छब्दवाच्यं नासच्छब्दाभिधेयम् , एकस्मिन् काले तादृग्विधवाचकशब्दाभावात् ॥ ननु च तदुभयपर्याये वेत्येकवचनमनुपपन्नम् , एकपर्यायविवक्षायामवक्तव्याभावात् । अत्रोच्यते-उभयग्रहणाद् द्वयमत्र गृह्यते । तर्हि तदुभयपर्याययोर्वेत्यस्मादविशेषः, नैतदेवम् , यतस्तदुभयपर्याये विशेषविवक्षयाऽस्तित्वं हि स्वपर्यायविषयं परपर्यायविषयं चेत्युभयपर्यायः, तत् तु वपर्यायेणावच्छिद्यमानमिहास्तीति गृह्यते, तदेव च परपर्यायेणावच्छिद्यमानमात्मनि नास्तीति ग्राह्यम् , इदानीमुभयपर्यायो युगपदर्पणायां भवत्यवक्तव्यः, इतरत्र तु प्रधानभेदव्याख्यायां द्विवचनादिनिर्देशः समीचीनः, जातिविवक्षायां वा जातेरेकत्वादेकवचनसिद्धिरिति ॥ ष्टमसद्भावपर्याययोरादिष्टमसद्भावपर्यायेष्वादिष्टमसदिति विकल्पत्रयम्, तथा चेतनशानदर्शनलक्षणान्यात्मद्रव्याणि, तानि अस. द्भावपर्याये आदिष्टमसद्भावपर्याययोरादिष्टमसद्भावपर्यायेष्वादिष्टमसदिति विकल्पत्रयम्, तथा अचेतनगतैकत्वद्वित्वबहुवानि असद्भावपर्यायास्तेषामन्यतमे आदिष्टमात्मद्रव्यमसदित्येवं व्याख्येयं द्वितीयभङ्गभाष्यमित्यर्थः । स्यादात्माऽवक्तव्यमेवेति तृती. यभजोपपादकं भाष्यमवतारयति-इदानीमवक्तव्यताविभावनायाहेति । तदितीति, तदुभयपर्याये वेत्यादिघटकतच्छब्देनेत्यर्थः। अतिक्रान्तेति, अतिक्रान्तद्वयं सद्भावासद्भावपर्यायद्वयं तस्य परामर्शो ग्रहणम् । अस्यैव फलितम्सद्भावासद्भावपर्यायद्वयसम्परिग्रहार्थ इति । तदुभयपर्याय इति समासवाक्यम् , तदर्थप्रतिपत्तिर्विग्रहद्वारा समासखरूपोपदर्शने सत्येव स्यादिति तदुपदर्शयति-उभयश्चासावित्यादिना। तदुभयपर्याये इत्यत्र सप्तमी निमित्तार्थे विषयार्थे वेत्यभिसन्धानेनाह-तदुभयपर्यायनिमित्तस्तद्विषयो वेति, अस्य आदिष्टशब्दार्थादेशविषयैकदेशे आदेशेऽन्वय इत्यभिसन्धाय आदेश इति विशेष्यतयोपन्यासः। तथा च "तदुभयपर्याये आदिष्टम्" इत्यस्य तदुभयपर्यायरूपेणार्पितमित्यर्थ इत्याह-तेनार्पितमिति । आत्मतत्त्वमित्यादि स्पष्टम् । क्रमेणेति, सद्भावपर्यायेणादेशे सदात्मद्रव्यमित्येवं वक्तव्यं भवति, असद्भावपर्यायेणादेशे असदात्मद्रव्यमिति वक्तव्यं भवति । सद्भावासद्भावपर्यायद्वययुगपद्भावविवक्षायां तथाविधस्य तद्वाचकशब्दस्याभावादवक्तव्यमेवेत्याह-सहभावार्पणायामिति । पर्यायद्वयस्यैकत्वाभावादुभयपर्यायविवक्षाया. मेकवचनमनुपपन्नम् , तयोरेकस्य विवक्षायामेकवचनसम्भवेऽपि तथादिष्टं वक्तव्यमेव नावक्तव्यमिति शङ्कते-ननु चेति । पर्यायविशेषणतयोभयोपादानात्पर्यायद्वयस्यैव ग्रहणं न त्वेकस्य पर्यायस्य, तत्तु पर्यायद्वयमात्मन एकपर्यायत्वेन विवक्षितमिति एकवचनं नानुपपन्नमिति समाधत्ते-अत्रोच्यत इति । एवं तर्हि पर्यायद्वयग्रहणे सति । एकस्यैवास्तित्वस्य स्वपर्यायत्वं परपर्यायस्त्वं च, तत्र वपर्यायेणावच्छिद्यमानस्य तस्य प्रथमभङ्गविषयत्वं परपर्यायेणावच्छिद्यमानस्य द्वितीयभङ्गविषयत्वम् , तदुभयपर्यायो यदाऽस्तित्वात्मनैकतया गृह्यते तदैकवचनमित्यभिसन्धानेन तदुभयपर्याये वेत्यत्रैकवचनम् , यदा तु भिन्नतया गृह्यते तदा द्विवचनादीत्याह-नैतदेवमिति । तदुभयपर्याये अस्तित्वनास्तित्वोभयपर्याये । विशेषविवक्षयेति, एकस्यैवास्तित्वस्य खपर्यायेणावच्छिन्नस्य प्रथमभङ्गविषयत्वं परपर्यायेणावच्छिन्नस्य द्वितीयभङ्गविषयत्वमित्येवं पर्यायद्वयस्य तदात्मनैकत्वविवक्षयैकवचननिर्देशः, अस्तित्वनास्तित्वयोस्खपरपर्यायावच्छिन्नयोर्भेद एवेति विवक्षया तु द्विवचनबहुवचन त.त्रि. १३

Loading...

Page Navigation
1 ... 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150