Book Title: Tattvartha Trisutri Prakashika
Author(s): Vijaylavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 137
________________ [९६] द्वितीयभङ्गभावनोपदर्शकं भाष्यम् । [ तत्त्वार्थत्रिसूत्री स्त्येकत्वेनार्पितमेकसङ्ख्याविशेषरूपतयैवास्ति न द्वित्वबहुत्वाकारेण, अनेकधर्मिणो हि वस्तुनः कदाचित् किञ्चिद् विवक्ष्यते, युगपद्भरिवक्तृविवक्षायामप्येकत्वादयो यौगपद्येनार्पणावशादुपलभ्यन्ते, सकलपर्यायशक्तिसङ्गतेः परिणामिनः, एकपुरुषाधारमातुलभ्रातृभागिनेयादिशक्तिवत् , एकेन वक्त्रा विवक्षिते प्रयोजनवशादेकत्वद्वित्वादि च सम्भवदप्युपेक्षितं प्रयोजनाभावात् , अतस्तस्य तेनैव विवक्षिताकारेण कार्यसिद्धेः स्यादस्त्यात्मेत्युच्यते, न सर्वपर्यायार्पणया, तदा तदस्ति तस्य वक्तुरिति प्रथमविकल्पभावना॥ [भाष्यम्-] असद्भावपर्याये वा, असद्भावपर्याययोर्वा, असद्भावपर्यायेषु वा, आदिष्टं द्रव्यं वा, द्रव्ये वा, द्रव्याणि वाऽसत् । असद्भावपर्याये वेत्यादिना द्वितीयविकल्पं भावयति । आत्मनो ज्ञानदर्शनादिव्यतिरिक्ता गतिस्थित्यवगाहोपकारस्पर्शादयोऽसद्भावपर्यायाः, वर्तमानजन्मनो वाऽतीतानागताः, तज्जन्मनि वाऽतिक्रान्तागामिनः सर्वेऽप्यसद्भावपर्यायाः, तदर्पणया स्यान्नास्त्येवात्मेति, न सर्वथा नास्तित्वप्रतिपत्तिः, यदाऽऽत्मा गत्युपकारकपर्यायेणार्पितस्तदाऽऽत्मद्रव्यमसत्, तत्स्वभावकत्वेन तस्याद्रवणात् , सद्भावपर्यायप्रभावितं वा द्रव्यं स्वपरिणामिप्रभाविता वा पर्यायास्तन चैकमपि नास्तीत्यतोऽसदित्युच्यते, परपर्यायार्पणया नास्ति तदित्यर्थः । शेषं पूर्ववद् विभाव्यम् ॥ त्वादिसङ्ख्यारूपेणार्ण्यमाणं द्रव्यम् । तथा सति यथा भङ्गजनितावबोधस्तथा भावयति-स्यादस्त्येकत्वेनार्पितमिति । एकत्वसङ्ख्यात्मकपर्यायरूपेण द्रव्यार्पणस्य प्रयोजनमुपदर्शयति-एकसङ्ख्याविशेषरूपतयैवेति । एकस्मिन् वस्तुनि एकत्वमपि केनचिद्रूपेणास्ति द्वित्वबहुत्वे अपि स्त इति यस्यार्पणं तद्रूपेण वस्त्ववबोधनाय भङ्गप्रवृत्तिस्सम्भवतीत्यावेदयितुमाह-अनेकधर्मिण इति, अनेकधर्मविशिष्टस्येत्यर्थः। एकदापि एकस्य वस्तुनो वक्तृविवक्षाभेदेनैकत्वद्वित्वबहुत्वानि सम्भवन्ति, तथापणमपि युगपदुपलभ्यते परिणामिनो द्रव्यस्य सकलपर्यायरूपशक्तिसङ्गतेः सर्वदाभावाद्, अतस्तथाविवक्षा नासम्भवद्वस्तुविषयेत्याशयेनाह-युगपद्भरीति । एकस्यानेकशक्तिसमन्वितत्वे दृष्टान्तमाह-एकपुरुषाधारेति । बहुभिर्वतृभिर्युगपदपि एकत्वद्वित्वबहुत्वान्येकस्मिन्विवक्षितुं शक्यान्येव, परमेकेन वक्त्रैकदैकस्यैवैकत्वादेर्विवक्षाऽन्यस्य सम्भवतोऽपि प्रयोजनाभावादविवक्षव, ततो यस्य विवक्षा तद्रूपेणास्तित्वं प्रथमभङ्गविषय इत्याह-एकेन वक्त्रेति। विवक्षित इत्यनन्तरमेकस्मिन्निति दृश्यम् । एकस्य विवक्षायां हेतुः-प्रयोजनवशादिति । अन्यस्योपेक्षणे हेतुः-प्रयोजनाभावादिति। अतः, एकस्य प्रयोजनवशाद्विवक्षणमन्यस्य प्रयोजनाभावादुपेक्षणमित्यस्माद्धेतोः। तस्य पुरुषविशेषस्य । तदा एकस्य पर्यायस्य प्रयोजनवशाद्विव. क्षाकाले ॥ स्यान्नास्त्येवात्मेति द्वितीयभङ्गोपपादकं भाष्यमधिकरोति-असद्भावपर्याये वेत्यादिनेति, असद्भावपर्यायार्पणात्स्यान्नास्त्येवात्मेति भङ्गप्रवृत्तिः। तत्र के आत्मनोऽसद्भावपर्याया इत्यपेक्षायां तान्दर्शयति-आत्मन इत्यादिना। ये च कदाचिदप्यात्मनि न सन्ति तान् गतीत्यादिनोपदर्य ये कदाचिद्वर्त्तन्ते कदाचिच्च न वर्तन्ते तेषामपि यदा न वर्त्तनं तदाऽसद्भावपर्यायत्वमित्युपदर्शयति-वर्तमानजन्मनो वेति। तज्जन्मनि वर्तमानजन्मनि । तदर्पणया असद्भावपर्यायार्पणया। असद्भावपर्यायार्पणप्रयोजनमाह-न सर्वथेति । कथं गत्युपकारकपर्यायेणार्पितस्यासत्त्वमित्यपेक्षायामाह-तत्स्वभावकत्वेनेति, गत्युपकारकत्वखभावेनेत्यर्थः । तस्य आत्मनः। अद्रवणात, अननुगमनात्, तद्रूपेणापरिणमनादिति यावत् । एवं सति तस्य द्रव्यत्वमपि सद्भावपर्यायानुगमननिबन्धनं न सम्भवति पर्याया अपि न सम्भवन्ति द्रव्यपर्यायोभयविकलं च न सत्स्वरूपमतोऽसन्नेव तथा भवतीत्याह-सद्भावपर्यायप्रभावितं वेत्यादि । तत्र आत्मनि। निर्गलितं द्वितीयभङ्गार्थमुपदर्शयति-परपर्यायार्पणयेति । शेषं पूर्ववद्विभाव्यमिति, प्रथमभङ्गदर्शितदिशा द्वितीयभङ्गभाष्यं व्याख्येयमित्यर्थः, तद्यथा आत्मनोऽचेतनद्रव्यत्वमेवासद्भावपर्यायः, तस्मिन्नादिष्टमात्मद्रव्यमसदिति असद्भावपर्याये आदिष्टं द्रव्यमसदित्येको विकल्पः, अचेतनत्वपुद्गलत्वे अचेतनत्वगत्युपकारकत्वे इत्येवमादी आत्मनोऽसद्भावपर्यायौ तयोरादिष्टमात्मद्रव्यमसदिति द्वितीयो विकल्पः, अचेतनत्वपुद्गलत्वगत्युपकारकत्वानि अचेतनत्वपुलत्वस्थित्युपकारकत्वानि इत्येवमादय आत्मनोऽसद्भावपर्यायास्तेष्वादिष्टमात्मद्रव्यमसदिति तृतीयो विकल्पः, एवं ज्ञानदर्शनोपयोगलक्षणे आत्मद्रव्ये ते असद्भावपर्याये आदि

Loading...

Page Navigation
1 ... 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150