Book Title: Tattvartha Trisutri Prakashika
Author(s): Vijaylavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 139
________________ [९८] सलादेशाभिधाने विकलादेशचतुष्कं सुज्ञानमिति न तदर्थं विशेषायासः । [ तत्त्वार्थत्रिसूत्री एवमेते त्रयः सकलादेशा भाष्येणैव विभाविताः सङ्ग्रहव्यवहारानुसारिण आत्मद्रव्ये, सम्प्रति विकलादेशाश्चत्वारः पर्यायनयाश्रया वक्तव्याः तत्प्रतिपादनार्थमाह भाष्यकारः[ भाष्यम् - ] देशादेशेन विकल्पयितव्यमिति । इतिकरणो विकल्पेयत्ताप्रतिपादनार्थः । पर्यायास्तिकमिति नपुंसकलिङ्गप्रक्रान्तेर्विकल्पयितव्यमित्याह । किं पुनः कारणं भाष्यकृता सकला देशत्रय वदितरेऽपि चत्वारो विकलादेशा भाष्येण नोक्ता इति ? | अयमभिप्रायो भाष्यकारस्य लक्ष्यते - सकला देशसंयोगाच्चतुर्णां निष्पत्तिरिति सुज्ञानाः, तत्राद्यद्वितीय विकल्प संयोगे तुर्यविकल्पनिष्पत्तिः - स्यादस्ति च नास्ति चेति । प्रथमतृतीयविकल्पसंयोगे पञ्चविकल्प निष्पत्तिः स्यादस्ति चावक्तव्यश्चेति । द्वितीयतृतीयविकल्प संयोगे षष्ठविकल्प निष्पत्तिः - स्यानास्ति चाक्तव्यश्चेति । प्रथमद्वितीयतृतीयविकल्प संयोगे सप्तम विकल्प निष्पत्तिः - स्यादस्ति च नास्ति 'चावक्तव्यश्चेति । तत्राद्येषु त्रिषु विकल्पेषु सकलमेव द्रव्यमादिश्यते, चतुर्थादिषु पुनर्विकल्पीकृतं खण्डश आदिश्यते । तदाह — - देशादेशेनेत्यादि । सकलस्य वस्तुनो बुद्धिच्छेदविभक्तोऽवयवो देशस्तस्मिन् 'देशे आदेशो देशादेशस्तेन देशादेशेन विकल्पनीयं - व्याख्येयम्, आत्मादितत्त्वमित्येवं विकल्पचतुष्टय निर्देश इत्यर्थः। इदानीम् अस्तित्वस्यैकस्यैव अस्तित्वनास्तित्वोभयरूपतादशायाम् इतरत्र तु तदुभयपर्याययोर्वेत्यादिविकल्पे तु । तदुभयपर्याये वेत्यत्रैकवचनोपपत्तये कल्पान्तरमाश्रयति-जातिविवक्षायां वेति, उभयपर्यायगतपर्यायत्वजातेरेकत्वाद्वा तद्गतैकत्वविवक्षयैकवचनोपपत्तिरित्यर्थः । सकला देशस्वभावस्याद्यभङ्गत्रयस्य प्रपञ्चतो निरूपणं भाष्यकारेणाकारीत्युपसंहरन्नेव विकल|देशस्वभावमन्तिमभङ्गचतुष्टयमपि भाष्यकारेण सूचितमेवेत्येवमुत्तरभाष्यमवतारयति - एवमेत इति । - विभाविताः, विशेषेण भाविता भावनापथं प्रापिता निरूपिता इति यावत् । सकलादेशाः कन्नयमाश्रिता इत्यपेक्षायामाह - संग्रह व्यवहारानुसारिण इति । कुत्र विभाविता इत्याकाङ्क्षायामाह - आत्मद्रव्य इति । इदानीमवसरप्राप्ताश्चत्वारो विकलादेशा निरूपयितव्या इत्याह-सम्प्रतीति । तत्प्रतिपादनार्थ विकलादेशप्रतिपादनार्थम् । अन्त्योपबद्धस्येतिशब्दस्य प्रयोजनमाह - इतिकरण इति । विकल्पयितव्य इति पुंलिङ्गनिर्देशमकृत्वा विकल्पयितव्यमिति नपुंसकलिङ्गनिर्देशे निमित्तमाहपर्यायास्तिकमितीति, तत्र सच्चतुर्विधम्, तद्यथा - द्रव्यास्तिकं मातृकापदास्तिकं उत्पन्नास्तिकं पर्यायास्तिकमित्येवमुपक्रम्यैवात्रोपसंहृतं सद्रूपं पर्यायास्तिकमित्युपक्रमे नपुंसकलिङ्ग निदेशादुपसंहारेऽपि नपुंसकलिङ्गनिर्देश एव युक्त इत्यभिप्रायः । बिकलादेशा यदि भाष्यकार सम्मतास्स्युस्तदा सकला देशा यथा विशेषतः प्ररूपितास्तथा विकलादेशा अपि प्ररूपिता भवेयुः, तथाऽप्र- रूपणाच्च विज्ञायते - सकलादेशा एव भाष्यकार सम्मता न विकलादेशा इति त्रिभङ्गयेव स्याद्वादवाक्यं न सप्तभङ्गीत्येवमभिप्रायवान् प्रश्नयिता पृच्छति - किं पुनः कारणमिति, न खलु विकलादेशा न सन्तीत्यभिप्रायेण नोक्ता बिकलादेशाः किन्तु भङ्गन्त्रयनिरूपणे सति तद्विषयसंयोगजधर्मविषयाणां चतुर्णां भङ्गानां निष्पत्तेरपरिहार्यत्वात्तदुत्रासने कुण्ठितमतयो वादिनो न प्रयासान्तरापकारणीया इति संक्षेपरुचिर्भाष्यकारो न विशेषेण तेषां निरूपणमकार्षीदिति सप्तभङ्गी निराबाधैवेत्युत्तरयतिअयमभिप्रायो भाष्यकारस्य लक्ष्यत इति । त्रयाणां भङ्गानां मध्यात्कयोस्संयोगेन कस्य भङ्गस्य निष्पत्तिरित्यपेक्षायामाह-तत्रेति । आद्येत्यादि । आद्यविकल्पः स्यादस्तीति द्वितीयविकल्पः स्यान्नास्तीति तयोस्संयोगे तुर्यविकल्पस्य - चतुर्थभ ङ्गस्य निष्पत्तिः - सम्भवः, तस्याकारोपदर्शनम् - स्यादस्ति च नास्ति चेति । पञ्चमभङ्गनिष्पत्तिं प्रकटयति - प्रथमतृतीयविकल्प संयोग इति । आद्यभङ्गत्रयस्य सकलादेशत्वमन्तिमभङ्गचतुष्टयस्य विकलादेशत्वमिति विकलादेशाशेष प्रकटनपरम्देशादेशेन विकल्पयितव्यमिति भाष्यमित्यावेदनायाह - तत्राद्येष्विति । देशादेशेन विकल्पयितव्यमित्यनेनान्तिमभङ्गचतुष्टयस्य कथं प्राप्तिरित्यपेक्षायां तदर्थोपदर्शनेन तत्प्राप्तिमुपदर्शयति-सकलस्येति, अखण्डस्येत्यर्थः । अखण्डस्य खण्डरूपो देशो न सम्भवतीत्यत आह- बुद्धिच्छेदेति, बुद्ध्या यश्छेदो भागपरिकल्पनम्, यथाऽखण्डस्य नरसिंहस्य बुद्ध्या यथा ऊर्ध्वभागे सिंहोऽधस्तान्नर इति भागपरिकल्पनं तथाऽनन्तधर्मात्मके वस्तुन्यपीति, तेन विभक्तः पृथग्भूतोऽवयवोऽशः स एव देशः। विकल्पयितव्य विकल्पनीययोरुसमानार्थतामभिसंधाय विकल्पयितव्यमिति वक्तव्ये विकल्पनीयमित्याह । तस्य विवरणम् - व्याख्येयमिति । किं व्याख्येयमित्यपेक्षायामाह - आत्मादितत्त्वमिति । तत्र विकल्पचतुष्टये । चतुर्थः

Loading...

Page Navigation
1 ... 137 138 139 140 141 142 143 144 145 146 147 148 149 150