Book Title: Tattvartha Trisutri Prakashika
Author(s): Vijaylavanyasuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
टीकाविकृतियुता] प्रथमभङ्गोपपादकभाष्यगतैकवचनादीनां प्रयोजनादिप्रकाशनम् । [34]
रिधर्म प्रत्यनीक पर्याय धर्म सम्बन्धीति स्यात् सत् स्यादनित्यमित्यादिधर्मात्मकम्, इत्थं धर्म्यपीति वा स्याद्वादिभिः प्रतिज्ञायते सुलभ हेतुदृष्टान्तत्वात्, अतो द्रव्यास्तिकनयार्पणात् सोऽयं धर्म्यभेदेनैव व्यपदेशः प्रत्यभिज्ञाप्रधानत्वात्, पर्यायार्थिक निर्देशादस्येदमिति भेदभात्त्वम्, एकवचनादिप्रदर्शनं चैकस्यैव सस्वस्यासत्त्वस्य वा भजनाप्रभावितमनेकत्वमिति प्रतिपादनार्थम्, तत्र सद्भावपर्याय निमित्तेनादेशेनार्पितमात्मरूपद्रव्यमित्येव सद्द्रव्यत्वमेव हि सद्भावपर्यायः, तद्धि द्रवति पर्यायान् द्रूयते वा तैर्द्रव्यम्, अनेनाकारेणार्पितं स्यादस्तीत्युच्यते, तस्य द्रव्यत्वादेः पर्यायस्यात्मपरिणामिकारणप्रभावितत्वात् ताद्रूप्याच्च, तच्चास्तित्वं शेषषडूविकल्पापेक्षमेव सङ्गतिमनुभवति, सद्भावपर्यायद्वयनिमित्तादेव ज्ञानदर्शनोपयोगद्वयकारणक आदेशो द्रव्यम्, वक्ष्यत्युपरि - द्रव्याश्रया निर्गुणा गुणाः (अ० ५, सू० ४०) इति । तथा गणतिय सद्भावपर्यायकारणो वाऽयमादेशश्चैतन्यज्ञानदर्शनोपयोगाश्रयो द्रव्यमिति, एवं द्वे द्रव्ये बहूनि वाप्युक्तेन प्रकारेणार्पितानि सद्भावपर्यायापेक्षया सद्व्यपदेशभाञ्जि भवन्ति, अथबैकस्मिन् सद्भावपर्यायविषयेऽर्पितमादिष्टं द्रव्यं द्रव्ये वा वा द्रव्याणि वा सत्, तथा द्वयोर्बहुषु विभाव्यम्, अविशिष्टस्य वा द्रव्यपदार्थस्यैकत्वद्वित्वबहुत्वपर्यायाः, तथा च तदर्घ्यमाणं स्यादयोगव्यवच्छेदार्थ कैवकारसमन्वितम् । परं प्रति स्यादस्त्येव घट इति प्रतिज्ञायां हेतुर्दृष्टान्तश्च प्रयोक्तव्यः, स त्वसुलभ इति न प्रतिज्ञामात्रेण स्याद्वाद्यभिमताने कान्तवस्त्ववगमः सुलभ इत्यत आह- सुलभ हेतुदृष्टान्तत्वादिति । सत्त्वादिधर्मस्य घटादिधर्मिणश्च धर्मधर्मिभावानुरोधेन भेदे सति कथमस्ति घट इत्यभेदेन निर्देश इत्यत आह-अत इति । द्रव्यास्तिकनयार्पणादिति द्रव्यास्तिनयेन धर्मधर्मिणोरभेदव्यवस्थितेरित्यर्थः । सोऽयमिति, स्यात् सन् घटः स्यादसन् घटःस्यान्नित्यो घटः स्यादनित्यो घट इत्येवंप्रयोग इत्यर्थः । द्रव्यार्थिकनये प्रत्यभिज्ञाया अमेदगोचरायाः प्राधान्यं तस्यैव प्रमाणतयाऽऽश्रयणेन इत्थं प्रयोगः समर्थितो भवतीत्याह - प्रत्यभिज्ञाप्रधानत्वादिति । यदि च पर्यायार्थिकनयाश्रयेण सप्तभङ्गी समाद्रियते तदा तन्मते धर्मधर्मिणो भेदात्तथैव भङ्गा उपन्यसनीया इत्याह-पर्यायार्थिकनिर्देशादिति, तथा च स्याद्धटेSस्तित्वमेव स्याद्धटे नास्तित्वमेव स्याद्धटेऽवक्तव्यत्वमेवेत्येवं दिशा सप्तभङ्गी अवधार्येति । भाष्ये सद्भाव पर्याये वेत्यादावुपदिष्टानामेकवचनद्विवचनबहुवचनानां प्रयोजनमुपदर्शयति- एकवचनादिप्रदर्शनञ्चेति । असत्त्वस्य वेति, असद्भा
पर्याये वेत्यादिभाष्यमधिकृत्य । " सद्भावपर्याये वा सद्भावपर्याययोर्वा सद्भावपर्यायेषु वाऽऽदिष्टं द्रव्यम्” इति भाष्यस्याभिप्रायमाविष्करोति-तत्रेत्यादिना, आत्मरूपद्रव्यमेव सद्रव्यत्वं तदेवात्मनः सद्भाव पर्यायस्तदाश्रयणेन सद्भावपर्याये वाऽऽदिष्टं द्रव्यमित्युक्तम् । कथञ्च तथेत्यपेक्षायामाह - तद्धीति, आत्मद्रव्यं हीत्यर्थः । द्रवति अनुगच्छति । पर्यायान मनुष्यदेवादिपर्यायान् द्रव्यत्वादिधर्मात्मकपर्यायान् वा । मनुष्यादिपर्यायैर्द्रव्यत्वादिपर्यायैर्वा द्रूयते अनुगम्यते । अनेनाकारेण, आत्मद्रव्यरूपसद्द्रव्यत्वरूपाकारेण । अर्पितं विवक्षितम् । कथमात्मद्रव्यरूपेणैव द्रव्यत्वादिपर्यायस्यादेश इत्यपेक्षायामाह - तस्य द्रव्यत्वादेः पर्यायस्येति, आत्मद्रव्यगतद्रव्यत्वादिपर्यायस्येत्यर्थः । ताद्रूप्याच्च आत्मद्रव्याभिनत्वाच | इत्थमस्तित्वप्रतिपादनं नास्तित्वादिप्रतिपादनसापेक्षमिति सप्तभङ्गी प्रवृत्तिरावश्यकीत्याह - तच्चास्तित्वमिति, एतावता सद्भावपर्याये आदिष्टं द्रव्यमित्यंशो व्याख्यातः । सद्भावपर्याययोरादिष्टं द्रव्यमित्यंशव्याख्यानायाह- सद्भावपर्यायद्वयनिमित्तादेवेति । सद्भावपर्यायेष्वादिष्टं द्रव्यमित्यंशव्याख्यानायाह- तथेति । गणतिथेति, बहुविधेत्यर्थः । सद्भावपर्याये आदिष्टं द्रव्ये वा द्रव्याणि वा, सद्भावपर्याययोरादिष्टं द्रव्ये वा द्रव्याणि वा, सद्भावपर्यायेष्वादिष्टं द्रव्ये वा द्रव्याणि वेत्यप्युक्त दिशा व्याख्येयमित्याह एवं द्वे द्रव्ये बहूनि वेति, सद्भावपर्याये आदिष्टं द्रव्यं वा द्रव्ये वा द्रव्याणि वा, सद्भावपर्याययोर। दिष्टं द्रव्यं वा द्रव्ये वा द्रव्याणि वा, सद्भावपर्यायेष्वादिष्टं द्रव्यं वा द्रव्ये वा द्रव्याणि वेति योजनयाऽपि भाष्यं व्याख्येयमित्याशयेन कल्पा - न्तरमाह - अथवेति । द्वयोः सद्भावपर्याययोः । बहुषु सद्भावपर्यायेषु । तथेत्यनेन आदिष्टं द्रव्यं वा द्रव्ये वा द्रव्याणि वा सदित्यस्याक्षेपः । एकवचनेनैकत्वं द्विवचनेन द्वित्वं बहुवचनेन बहुत्वं वा द्रव्ये शुद्धे धर्मिणि विधीयते इति वैकवचनाद्युपन्यासेन विवक्षितमित्याह-अवशिष्टस्य वेति । तथा च एकत्वद्वित्वबहुत्वानां पर्यायत्वे च । तदयमाणम् एक

Page Navigation
1 ... 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150