Book Title: Tattvartha Trisutri Prakashika
Author(s): Vijaylavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 134
________________ httकाविवृतियुता ] सप्तमङ्गीप्रथमभङ्गभावनावभाषकं भाष्यम् । [१३] वाक्यशब्दस्य शब्दान्तरत्वात्, एक एव हि शब्द इष्यते वाक्यम्, तस्य चार्थान्तरेणैकेनैव प्रतिभारूपेण भाव्यम्, अतोऽत्रापि गुणद्वयवचनस्य युगपच्छन्दद्वयस्यासम्भव इति ८ ॥ एवमुक्तात् कालादियुगपद्भावासम्भवात् समासवाक्यलौकिकवाक्ये युगपच्छन्दयोर्द्वयोरर्थयोश्च वृत्त्यसम्भवाद् युगपद्विवक्षायामवाच्य इत्येवं सर्वैकान्तावक्तव्यप्रतिषेधद्वारेण भाष्यकृता तृतीयविकल्पप्रणयनमकारि प्रेक्षापूर्वकारिणा कथचिदवक्तव्यः, कथञ्चिद् वक्तव्योऽवक्तव्यादिशब्दैरात्मेति निरूपितम् । एतदेव च विकल्पत्रयमधुना भाष्यकारः स्फुटतरं भाष्येण दर्शयति । स्याद्वादो हि धर्मसमाश्रयः, स्वसिद्धसत्ताकस्य च धर्मिणः सत्त्वासत्त्वनित्यत्वानित्यत्वाद्यनेक विरुद्धाविरुद्धधर्मकदम्बकाभ्युपगमे सति सप्तभङ्गीसम्भवः, तत्र सङ्ग्रहव्यवहाराभिप्रायात् त्रयः सकलादेशाः, चत्वारस्तु विकलादेशाः समवसेया ऋजुसूत्रशब्दसमभिरूढैवंभूतनयाभिप्रायेण । तत्रातीत विकल्पत्रयस्वरूपभावनायेदमुच्यते [ भाष्यम् - ] पर्यायास्तिकस्य सद्भावपर्याये वा, सद्भावपर्याययोर्वा, सद्भावपर्यायेषु वा, आदिष्टं द्रव्यं वा, द्रव्ये वा, द्रव्याणि वा सत् । I पर्यायास्तिकस्येत्यादि । पर्यायास्तिकग्रहणं धर्मविषयस्याद्वादप्रतिपत्त्यर्थम्, धर्मास्त्वरूपित्वसस्वमूर्तत्वादिरूपा धर्मिणः परिणामिनो नात्यन्तव्यतिरिक्ता इत्यतस्तत्प्रणालिकया धर्मिविषयत्वमपि, द्रव्यपर्याययोः संसृष्टत्वादेवं (देवमेव ), अत्र च द्रव्यास्तिकपर्यायास्तिकनयद्वयमात्रवस्तुसमाश्रयः रूपोऽभ्य एष न तु सत्त्वासत्वे, ततश्चैतदभिप्रायतोऽपि न युगपत्सत्त्वासत्त्ववाचकत्वं सदसच्छब्दयोरिति समाधत्ते - तन्नेति । तस्य वाक्यस्य । अत्रापि पदद्वयस्य वाक्यभावविवक्षयैकत्वपक्षेऽपि । उक्तदिशा एकान्तवाद्यभिप्रेतं सर्वथाऽवक्तव्यत्वमुपसंहृत्य अनेकान्तवाद्यभिप्रेतं कथञ्चिदव कव्यत्वं तृतीयभङ्गाभिप्रेतमिति भाष्यकाराभिप्रायमायोजयति - एवमुक्तादिति । यदि तथा वक्तव्योऽपि भवेत्तदा कथञ्चिदित्युक्तिस्सफलेत्यत आह-कथञ्चिद्वक्तव्य इति । पर्यायास्तिकस्येत्यादिभाष्यमवतारयति - एतदेव चेति । विकल्पत्रयम्, स्यादस्त्येव १ स्यान्नास्त्येव २ स्यादवक्तव्यमेवेति भङ्गत्रयम् । स्याद्वादः, अमेकान्तवादः । हि यतः । धर्मसमाश्रयः, धर्मसमाश्रयणेन भवति, अनन्तधर्मात्मकैकवस्त्वभ्युपगमस्यैव स्याद्वाद - त्वेन नयभेवेनैकत्र वस्तुमि नित्यत्वानित्यत्वादिधर्माभ्युपगमतस्तस्योपपत्तिरिति यावत् । एवञ्च सति सप्तभङ्गी प्रवृत्तिस्सम्भवति, तस्याः प्रतिधर्मं विधिनिषेधसमाश्रयणेनोला सादित्याह - स्वसिद्धसत्ताकस्येति, धर्मिण एवासिद्धत्वे कमुद्दिश्य विधिनिषेधद्वारेण धर्माभ्युपगमः प्रवर्त्तेतेति सर्वैरपि वादिभिः तस्य स्वस्वमतानुसारेण सत्ताऽभ्युपेयैवेति न तत्र प्रमाणान्तरोपदर्शनायासो न्याय्य इत्याशयः । नयमेदेनैकत्र धर्मिणि सप्तविधधर्मसम्भवेन सप्तभङ्गी प्रवृत्तिस्तत्र केन नयेन कस्य भङ्गस्यो - लास इत्यपेक्षायामाह तत्रेति, सप्तभङ्गयामित्यर्थः, सङ्ग्रहाभिप्रायात् स्यादस्त्येवेति प्रथमो भङ्गः, अस्तित्वस्य सत्तारूपमहासामान्यस्यानुगामित्वेन द्रव्यस्य सङ्ग्रहनयविषयत्वात् व्यवहाराभिप्रायात् स्यान्नास्त्येवेति द्वितीयो भङ्गः, नास्तित्वस्याननुगामित्वेन विशेषरूपस्य पर्यायस्य व्यवहारनयविषयत्वात्, सम्मिश्रितसङ्ग्रहव्यवहाराभिप्रायात् स्यादवक्तव्य एवेति तृतीयो भङ्गः, युगपदुभयविवक्षासमासादितखरूपस्यावक्तव्यत्वस्य नयद्वयविषयत्वात् । त्रयः सकलादेशा इति, सकलादेशत्वञ्च त्रयाणामखण्डवस्तुविषय कबोधजनकत्वेन बोध्यम् । स्यादस्ति स्यान्नास्ति १ स्यादस्ति स्यादवक्तव्यः २ स्यान्नास्ति स्यादव - तव्यः ३ स्यादस्ति स्यान्नास्ति स्यादवक्तव्यः ४ इति चतुर्णा भङ्गानां क्रमेण ऋजुसूत्रादिनयाभिप्रायसमुत्थानमित्याहचरवारस्त्विति । चिकलादेशा इति, सखण्डधर्मद्वारा वस्तुप्रतिपादकत्वं विकलादेशत्वम् । अतीतेति, प्राक्प्ररूपितेत्यर्थः । पर्यायास्तिकस्य सद्भावपर्याये वेत्यादिना स्यादस्त्येवेति प्रथमभङ्गनिरूपणम् । द्रव्यास्तिकसङ्ग्रहनयविषयस्य सत्त्वस्य पर्यायास्तिकविषयत्वाभावात्पर्यायास्तिकस्येति कथं संगतमित्यत आह-पर्यायास्तिकग्रहणमिति, धर्मिणो वस्तुनो यस्य सत्वादयो धर्माः पर्यायतया विवक्षिता इति तद्ग्राहिनयस्य पर्यायास्तिकत्वमिति । एवं सति धर्मविषयत्वमेव स्याद्वादस्य न धर्मिविषयत्वमित्यत आह-धर्मास्त्विति । तत्प्रणालिकया धर्मावबोधनद्वारा । धर्मविषयत्वे धर्मिविषयस्वमावश्यकमित्याह- द्रव्यपर्याययोः संसृष्टत्वादिति । द्रव्यपर्यायोभयविषयकत्वे सति स्याद्वादस्य द्रव्यपर्यायो भयनय -

Loading...

Page Navigation
1 ... 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150