Book Title: Tattvartha Trisutri Prakashika
Author(s): Vijaylavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 132
________________ भाष्यटीकाविवृतियुता] एकान्तवादे युगपदस्तित्वनास्तिवाचको न कोऽपि शब्दः। [११] सदसत्त्वाभ्यां संसर्गाभावान युगपदभिधानमस्ति ७ ॥ नाप्येकशब्दः शुद्धः समासजो वाक्यात्मको वाऽस्ति गुणद्वयस्य सहवाचकः, क्रमेण सदसच्छब्दयोः प्रयोगे यद्यसच्छब्दः सदसत्त्वे योगपद्येन ब्रवीति, एवं तर्हि स्वार्थवत् सत्त्वमप्यसत् कुर्यात् , तथैव सच्छब्दोऽपि स्वार्थवदसदपि सत् कुर्यात् , विशेषशब्दत्वाच्च सदित्युक्ते नासद्भिधीयते, न चासदित्युक्ते सदित्युक्तं भवति, अतो युगपदवाचक एकशब्दः । अथ युगपत् सदसच्छब्दौ गुणद्वयस्य वाचकाविष्येते, ततः समासवाक्यमाख्यातादिपदसमुदायवाक्यं वा भवेत् , तत्र च समासवाक्यं न वाचकम् , द्वन्द्वस्तावदुभयपदार्थप्रधानः प्लक्षन्यग्रोधवद् अस्त्यादिभिः क्रियाभिस्तुल्ययोगित्वात् , क्रियाश्रयत्वाच्च द्रव्यस्य प्राधान्यं न गुणत्वम् , यश्च गुणक्रियाशब्दानां द्वन्द्वो रूपरसादीनामुत्क्षेपणावक्षेपणादीनां च, तत्रापि गुणाः शब्दशक्तिस्वाभाव्याद् द्रव्यरूपा एवोच्यन्तेऽस्त्यादिक्रियायोगित्वात् , अन्यथा द्वन्द्वाभावात् । अत्र चात्मा विशेष्यद्रव्यं सदसतोर्गुणवचनत्वमतो गुणस्य गुण्यभेदोपचारेणाभिधानम् , सन्नात्माऽसन्नात्मेत्यतो न द्वन्द्वः । ननु च द्रव्येऽपि स्याद्वादोऽस्ति, न गुणविषय एव, यथा-स्याद् घटः स्यादघट इति, अत्रापि हि द्रव्यं गुणरूपोपपन्नमेवोच्यते, शब्दशक्तिस्वाभाव्याद् विशेषणविशेष्यभावापत्तेद्रव्यस्य विशेष्यत्वात् , स्याद् घट इदं वस्त्विति वाक्यं च वृत्तेरभिन्नार्थ केवलं विभक्तिश्रवणाद् रूपेण भिद्यते, अतो वाक्येनापि युगपत् प्रयोगासम्भवः । समानाधिकरणसमासवाक्यमपि न सम्भवति, तत्र हि द्रव्यगुणयोः सामान्यविशेषभावे सति द्रव्यशब्दतायां सामानाधिकरण्यं नीलोत्पलादिवत् , अत्र च सदसतोर्गुणत्वात् परस्परं भेदे इति । शुद्धः, अखण्डः पदान्तरासमभिव्याहृतपदरूप इति यावत् । समासजः समासनिष्पन्नः समस्त इति यावत् , इदं च व्यासरूपस्य समासरूपस्य वा वाक्यस्य शक्तिमभ्युपेत्य, अन्यथा वाक्ये शक्तेरभावादेव गुणद्वयवाचकत्वं तत्र शकितुमप्यशक्यमिति । समासस्य शक्तत्वपक्षे एकमेव समासपदमिति न तस्य वाक्यत्वमिति वाक्यात्मक इत्यस्य पदसमुदाय इत्यर्थः । एकशब्दस्य योगपद्येन गुणद्वयवाचकत्वासम्भवं प्रपञ्चत उपदर्शयति-क्रमेणेति । स्वार्थवत्, असच्छब्दस्य स्वार्थोऽसत्त्वं तद्वदित्यर्थः। स्वार्थवदिति, सच्छब्दस्य खार्थः सत्त्वं तद्वदित्यर्थः। यद्येकस्य सच्छब्दस्यासच्छब्दस्य वा गुणद्वयवाचकत्वं स्यात्सामान्यशब्दत्वं तस्य स्यान्न चैवं विशेषशब्दत्वेन तयोरुररीकारादिति विशेषशब्दत्वान्न तयोः प्रत्येकं गुणद्वयवाचकत्वं यौगपद्येनेत्याह-विशेषशब्दत्वाच्चेति । समासरूपस्य व्यासरूपस्य वा सदसच्छब्दद्वयस्य मिलितस्य योगपद्येन गुणद्वयवाचकत्वं प्रतिक्षेप्तुमाह-अथेति । समासे तावदुभयपदार्थप्रधानद्वन्द्वसमासतामापन्नस्य सदसच्छब्दस्य न यौगपद्येन गुणद्वयवाचकत्वमित्युपदर्शयति-दुन्दुस्तावदित्यादिना। द्वन्द्वसमासाभिधेयस्य क्रियायोगित्वेन द्रव्यत्वमेव न गुणत्वमिति नियम एव, तत्र द्रव्यवाचकप्लक्षन्यग्रोधरूपपदद्वन्द्वे तत्त्वमुपपादयति-अस्त्यादिभिरिति । गुणवाचकपदद्वन्द्वे क्रियावाचकपदद्वन्द्वे च समासाभिधेयस्य द्रव्यत्वमुपपादयति-यश्च गुणक्रियाशब्दानां द्वन्द्व इति । प्रकृते च द्रव्ये आत्मनि सदसत्त्वयोर्गुणतया प्राधान्येन युगपद्विवक्षितयोः प्रतिपादनपरस्य सदसच्छब्दस्य गुणवचनत्वमेव न द्रव्यवचनत्वमिति द्वन्द्वसमास एव न सम्भवतीत्याह-अत्र चात्मेति । ननु एकस्य प्रतिनियतद्रव्यात्मना स्वरूपविधौ स्याद्वादस्य द्रव्यद्वयाश्रयणेन सप्तभङ्गीरूपस्य प्रवृत्तौ द्रव्यवाचकपदद्वयस्य द्वन्द्वसमाससम्भवः स्यादिति शङ्कते-ननु चेति । यत्र चैकं वस्तु प्रतिनियतद्रव्यरूपेण विधीयते तत्र विधीयमानं द्रव्यमपि गुणरूपतयैवाश्रितमिति नैवं तत्रापि द्वन्द्वसमाससम्भव इति समाधत्ते-अत्रापि हीति । वाक्यरूपस्यापि शब्दस्य समाससमशीलत्वान्न यौगपद्येन गुणद्वयवाचकत्वमित्याह-वाक्यं चेति । वृत्तः समासाद् अभिन्नार्थत्वे समासवाक्ययोः को भेद इत्यपेक्षायामाह-केवलमिति । कर्मधारयसमासस्यापि प्राधान्येन गुणद्वयवाचकत्वं म सम्भवतीत्याह-समानाधिकरणेति । न सम्भवति, प्रकृते गुणवाचिनोः सदसच्छब्दयोः कर्मधारयसमासो न सम्भवति तयोर्भेदेन सामानाधिकरण्याभावादित्यर्थः। तत्र समानाधिकरणसमासवाक्ये। हि यतः। द्रव्येत्यादि, द्रव्यस्य सामान्यत्वं गुणस्य विशेषत्वमित्येवं द्रव्यगुणयोः सामान्यविशेषभावे सति, द्रव्यवाचकशब्दस्येव गुणवाचकशब्दस्यापि द्रव्यशब्दतायां सत्याम्, सामानाधिकरण्यं विभिन्नप्रवृत्तिनिमित्तकस्वे सति एकार्थबोधकत्वं खप्रयोज्यविशेष्यतानिरूपिततादात्म्य

Loading...

Page Navigation
1 ... 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150