Book Title: Tattvartha Trisutri Prakashika
Author(s): Vijaylavanyasuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
भाष्यटीकाविवृतियुता] स्याद् अवक्तव्य इति तृतीयभङ्गस्य परमार्थोपदर्शनम् । [८९] [भाष्यम्-] अर्पितेऽनुपनीते न वाच्यं-सदित्यसदिति वा। ..
युगपदात्मन्यस्तित्वनास्तित्वधर्माभ्यामर्पिते विवक्षिते क्रमेण चानुपनीते क्रमेणाभिधातुमविवक्षिते वाच्यं न जातुचित् सदात्मतत्त्वमसदात्मतत्त्वमिति वा। वाशब्दो विकल्पार्थः,
अर्पितं विशेष्यते, कीदृशेऽर्पिते ? अनुपनीते, कथमनुपनीते ? सामर्थ्यात् क्रमेणाविशेषिते, क्रमेण स्वर्पणे प्राच्यविकल्पावेव स्याताम् , अतोऽवश्यंतया युगपदभिन्ने काले द्वाभ्यां गुणाभ्यामेकस्यैवार्थस्याभिन्नस्य प्रतियोगिभ्यामभेदरूपेणैकेन शब्देनावधारणात्मकाभ्यां वक्तुमिष्टत्वादवाच्यम् , तद्विधस्थार्थस्य शब्दस्य चाभावात् , अयं च विकल्पस्तत्त्वान्यत्वसत्त्वासम्भवात् किलावक्तव्यमेवेत्येवंविधैकास्तव्यावर्तनार्थ:-स्यादवक्तव्य एवात्मा, अवक्तव्यशब्देनान्यैश्च षड्भिर्वचनैर्द्रव्यपर्यायविशेषैश्च वक्तव्य एव, अन्यथा सर्वप्रकारावक्तव्यतायामवक्तव्यादिशब्दैरप्यवाच्यत्वादनुपाख्यः स्यात्, अतीतविकल्पतूयं त्वेकान्तास्तित्वैकान्तनास्तित्वप्रतिपक्षनिराकरणद्वारेण स्यादस्ति स्यान्नास्तीति स्वपरपर्यायान्यतरैकधर्मसम्बन्धार्पणात् कालभेदेनोक्तम् , अधुना युगपद् विरुद्धधर्मद्वयसम्बन्धार्पितस्य च वस्तुरूपस्याभिधानात् कीदृशः शब्दप्रयोगो भवतीति ?, उच्यते-न खलु तादृशः शब्दोऽस्ति यस्तादृशीं विवक्षां प्रतिपूरयेत्, यतोऽर्थान्तरवृत्तैः पर्यायैरवर्तमानमननुभवंस्तान् पर्यायान् द्रव्यं ब्रवीतीयेका विवक्षा, अपरा तु विवक्षा निजैः पर्यायैः स्वात्मनि वृत्तैर्वर्तमानमनुभवन् स्वान् पर्यायान् द्रव्यमभिदधातीति, एवमेकस्यात्पदप्रयोगाभावे तजनितज्ञानमवस्तुविषयत्वाद् भ्रम एव स्यादिति । स्यादवक्तव्य इति तृतीयभङ्गप्ररूपणां क्रमप्राप्तामधिकरोति-तृतीयेति । अर्पित इत्यादि भाष्यं विवृणोति-युगपदित्यादिना। अनुपनीत इत्यस्य प्रयोजनमाह-क्रमेण स्वर्पण इति । प्राच्यविकल्पो, स्यादस्ति स्यान्नास्तीति भङ्गौ। कथमवाच्यमित्यपेक्षायामाह-तद्विधस्येति।अर्थस्य शब्दजन्योपस्थितिविषयस्य, तस्य तेनैव रूपेणाभावो न तु सर्वथा, तथा शशशृङ्गकल्पस्य तस्य तथाविवक्षाविषयत्वमपि न स्यात्सर्वधर्मानाकान्ते. रिति बोध्यम् । तृतीयविकल्पप्रयोजनमाह-अयश्च विकल्प इति, अनिर्वचनीयवादिनां यथा बाध्यत्वात् घटादीनां सत्त्वं न सम्भवति तथा व्यवहारपथावतीर्णत्वादसत्त्वमपि न सम्भवति, अतस्सत्त्वासत्त्वोभयविकलत्वादेकान्तेनावक्तव्यत्वं घटादीनाम् , तव्यवच्छेदार्थकस्तृतीयभङ्गः। तत्त्वान्यत्वेत्यत्र सत्त्वान्यत्वेति पाठो युक्तः, सत्त्वेन रूपेण तदन्यत्वात्मकासत्त्वेन रूपेण सत्त्वासम्भवादवक्तव्यं जगदित्येवंविधो य एकान्त एकान्तानिर्वचनीयवादस्तव्यावर्त्तनार्थ इत्यर्थः, तृतीयभङ्गस्य स्यात्कारलाञ्छितस्य कथञ्चिदवक्तव्यत्वमर्थः, तथा च तेन सर्वथाऽवक्तव्यत्वेऽपाकृते युगपत्सत्त्वासत्त्वविवक्षाविषयोऽप्यर्थः केनचिच्छब्देन वक्तव्यो भवति, अन्यथाऽवक्तव्यशब्देनाप्यभिधानं न स्यादित्यर्थः । केन शब्देन वक्तव्य इत्यपेक्षायामाहअवतव्यशब्देनेति । य एवार्थः तृतीयभङ्गविषयता विवक्षितः स एवार्थः प्रथमादिभङ्गविषय इति कृत्वा तत्तद्भङ्गैः षशिर्वक्तव्य एवेत्साह-अन्यैश्चेति, अयं च षनिर्वचनैरित्यत्र द्रव्यपर्यायविशेषैश्चेत्यत्रान्वेति । तृतीयभङ्गविषयतया विवक्षितस्य सर्वथाऽवक्तव्यत्वमेव कुतो नाभ्युपगम्यत इत्यत आह-अन्यथेति, अस्यैव व्याख्यानम्-सर्वप्रकारावक्तव्यतायामिति । अतीतविकल्पद्वयं स्यादस्ति स्यान्नास्तीति भङ्गद्वयम् । एकान्तास्तित्वैकान्तनास्तित्वप्रतिपक्षेति, एकान्तास्तित्वं यत्कथञ्चिदस्तित्वस्य प्रतिपक्षः, यच्चैकान्तनास्तित्वं कथञ्चिन्नास्तित्वस्य प्रतिपक्षस्तन्निराकरणद्वारेणेत्यर्थः । स्वपरेति, खपर्यायसम्बन्धार्पणात्स्यादस्तीत्युक्तं परपर्यायसम्बन्धार्पणात्स्यान्नास्तीत्युक्तं कालभेदेनेत्यर्थः । युगपदस्तित्वनास्तित्वोभयविवक्षायां तृतीयभङ्ग उपतिष्ठते, तत्प्रसाधनायाह-अधुनेति । कीदृश इति, नास्ति कोऽपि तादृशः शब्दो यमुपादाय तृतीयो भङ्गः ख्याप्येत इति प्रश्नाभिप्रायः । विशेषतस्तादृशविवक्षापूरकशब्दाभावे सति तथाविवक्षायामवक्तव्य एवार्थो भवतीत्यवक्तव्यशब्दमुपादाय तृतीयभङ्ग आत्मानं लभत एवेत्याह-उच्यत इति । परद्रव्यादिना नास्तित्वविवक्षा खद्रव्यादिनाऽस्तित्वविवक्षेति युगपदुभयविवक्षा, तत्र पूर्वविवक्षया परद्रव्यादिगतपर्यायैरवर्त्तमानं परद्रव्यादिगतपर्यायानननुभवन्द्रव्यं विवक्ष्यते, द्वितीयविवक्षया खगतपर्यायैर्वर्त्तमानं स्वगतपर्यायाननुभवन्द्रव्यं विवक्ष्यते, तत्र येन पदेन परपर्यायेणासन्नर्थः कथ्यते तेन पदेन सामर्थ्याभावात्स्वपर्यायेण सन्नर्थः कथं कथ्येत, येन च पदेन खपर्यायेण सन्नर्थः कथ्यते तेन पदेन सामर्थ्याभावात्परपर्यायेणा
त• त्रि. १२

Page Navigation
1 ... 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150