Book Title: Tattvartha Trisutri Prakashika
Author(s): Vijaylavanyasuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
[९२] - एकान्तवादै युगपदस्तित्वनास्तित्ववाचको न कोऽपि शब्दः । [ तत्वार्यत्रिसूत्री सति न सामानाधिकरण्यमद्रव्यशब्दत्वात्, सामान्यविशेषरूपेणास्थितत्वान्नास्ति विशेषणविशेष्यसमानाधिकरणसमासः, कर्मधारयश्चार्थयोरिष्यते, न चान्यत् प्रतिपदविहितं समासलक्षणमस्ति, तस्मात् समासाभावाद् युगपत् प्रयोगाभावः, तद्वाक्येऽपि सामर्थ्याभावाद् वृत्त्यनुरोधिवाक्यत्वाच्चातो न कर्मधारयः । नाप्याख्यातादिपदसमुदायो वाक्यं-संश्वासंश्चात्मेति, भवत्यादिक्रियाऽसम्बन्धात्, तत्र सामान्यशब्दो युगपदनेकमर्थमभिदध्याद् न चाभिदधीत, "अभिहितानां सामान्यशब्देन विशेषाणां नियमार्था पुनः श्रुतिः" इति न्यायात् , नवा ब्रूयादनेकमर्थमभिधानोपायासम्भवात् , "तन्मात्राकाङ्क्षणाद् भेदः स्वसामान्येन चोज्झितः” इति न्यायात् , सामान्यशब्देष्वेवं न विशेषशब्देषु धवखदिरादिषु, विशेषशब्दास्तु वाक्ये प्रयुज्यमानाः केवलाः स्वार्थमेव ब्रुवते-संश्वासंश्चेति, न त्वनेकमथं स्वार्थमात्राभिधानान्न सहगुणद्वयाभिधायिता। ननु च वाक्ये द्वयोरपि शब्दयोरेकतया युगपद्भावः, तन्न, पदेभ्यो सम्बन्धाविच्छिन्नप्रकारताप्रयोजकत्वस्वप्रयोज्यतादात्म्यसम्बन्धावच्छिन्नप्रकारतानिरूपितविशेष्यताप्रयोजकत्वान्यतरत्वमिति यावत् । अत्र च आत्माऽस्त्येव आत्मा नास्त्येवेत्येवंविचारणायां पुनः ।न सामानाधिकरण्यम् उक्तलक्षणसामामाधिकरण्याभावः । सामान्यविशेषभाषाभावाद्र्व्यशब्दत्वमप्यस्तिनास्तिशब्दयोर्नास्ति येन विशेषणविशेष्यभावावलम्बिकर्मधारयसमासोऽनयोः स्यादित्याह-अद्रव्यशब्दत्वादिति । सामान्यविशेषरूपेणास्थितत्वादित्यनेन विशेषणविशेष्यभावोऽप्यनयोर्नास्तीत्यावेदितम् । एतेन न कोऽपि कर्मधारयप्रकारस्समस्त्यत्रेत्याह-न चान्यदिति । उपसंहरति-तस्मादिति । कर्मधारयसमाससमशीलव्यासवाक्यस्यापि न युगपदस्तित्वनास्तित्वोभयप्रतिपादकत्वं येन तत्तुल्याभिप्रायककर्मधारयसमासस्य तथापरिकल्पनं युज्येतापीत्याह-तद्वाक्येऽपीति । समासरूपतया सदसच्छब्दस्य युगपद्गुणद्वयाभिधायकत्वं व्युदस्य व्यासवाक्यरूपतयाऽपि न तत्त्वमित्यावेदयति-नाप्याख्यातादीति । एतच्चाख्यातपदसमभिव्याहृतस्यैव वाक्यत्वं “यत्रापि क्रियापदं न श्रूयते तत्राप्यस्तिर्भवन्तीपरस्समस्ति" इति मतमाश्रित्य, संश्चासंश्चात्मेति पदकदम्बकम् आख्यातादिपदसमुदायलक्षणवाक्यं न भवतीत्यर्थः। निषेधे हेतु:-भवत्यादिक्रियाऽसम्बन्धादिति, सर्वस्मिन्नेव काले आत्मनः सत्त्वासत्वयोरभिमतत्वेन प्रतिनियतकालसम्बन्धावबोधकस्य भवत्यादिपदस्य तत्राभीष्टबोधप्रतिपन्थितया निराकासस्वात् । अस्त्यादिशब्दस्य सामान्यशब्दत्वे युगपदनेकार्थप्रतिपादकत्वं सम्भाव्यताऽपि, न त्वेवं, वाक्यघटकतया प्रयुज्यमानस्य सर्वस्यापि विशेषणवाचकपदस्य विशेषशब्दत्वादित्याह-तत्रेति । युगपदनेकमर्थमभिदध्यादिति पक्षे सामान्यशब्देनैव विशेषार्थाभिधाने तदभिधानायोच्यमानो विशेषशब्दः पुनरुक्ततामेवाकलयेदित्यत आह-अभिहितानामिति, सामान्यशब्देनाभिहितानां विशेषाणामित्यन्वयः, एवं सत्यनाकासिता विशेषा मा नाम प्राप्नयुः किन्त्वभिलषिता एवेति नियमनाय पुनः तादृशविशेषावबोधकस्य विशेषशब्दस्य श्रुतिरुच्चारणमिति न तद्वैयर्थ्यमित्याशयः। न चाभिदधीतेति द्वितीयपक्षसमर्थनायाहनवा ब्रूयादनेकमर्थमिति । निषेधे हेतुमाह-अभिधानोपायासम्भवादिति । अत्रापि न्यायविशेष प्रमाणतयोपदर्शयति-तन्मात्राकाङ्क्षणादिति, सामान्यमात्रमाकाङ्क्तिमतः सामान्यस्यैव सामान्यशब्दादवबोधः, विशेषस्य स्वनाकाङ्कितत्वादेव नावगमः, नहि यद्यत् शब्दाभिधेयं तत्सर्वमेव तत्पदेन प्रतिपाद्यम्भवति, सैन्धवशब्दाभिधेयत्वेऽपि अश्वस्य भोजनप्रकरणे सैन्धवमानयेति वाक्यघटकसैन्धवपदेनानाकासितस्याप्रतिपादनात्, किन्त्वाकासितस्य लवणस्यैव बोधः । नवा भेदो विशेषः सामान्यात्मा येन सामान्येऽभिहिते सोऽप्यभिहित एव स्यात् सामान्यविशेषयोरन्योन्यं भेदादित्याहभेदः सामान्येन चोज्झित इति, चः-हीत्यस्यार्थे, यतो भेदो विशेषः, सामान्येन सामान्यात्मना, उज्झितः-त्यक्तः सामान्यानात्मकः, एकान्तनयाभिप्रायेणेदम् , इदानीं सर्वस्या अपि प्रक्रियाया एकान्तनयावलम्बित्वादिति बोध्यम् । सामान्यशब्द एकेन नयेनानेकमर्थमभिदध्याद एकेन च नाभिदध्यात्, तथा च येन नयेनाभिदध्यात्तं नयमाश्रित्यैकसामान्यशब्दस्य युगपदनेकार्थप्रतिपादकत्वसम्भवेऽपि प्रकृते नैवमित्याह-सामान्यशब्देष्वेवं न विशेषशब्देष्विति । स्वार्थमेव विशेषमेव । तथा सति किमित्यपेक्षायामाह-स्वार्थमात्राभिधानादिति । ननु वाक्यभावमापन्नयोस्सदसच्छन्दयोरेकत्वमेव ततश्च तयोर्युगपद्भावात्ततो गुणद्वयाभिधानमपि युगपद्धविष्यति ततश्च युगपद्धर्मद्वयविवक्षायामपि वस्तु वक्तव्यं स्यादित्याशते-नन्विति । वाक्यभावे सति सदसच्छब्दयोः न सदसच्छन्दत्वे किन्तु ताभ्यामन्यत्वमेव, अर्थोऽपि तस्य प्रतिभा

Page Navigation
1 ... 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150