Book Title: Tattvartha Trisutri Prakashika
Author(s): Vijaylavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 131
________________ [९०] एकान्तवादे कालाधष्टप्रकारेणाभेदतो गुणानां वृत्तित्वाभावः। [तत्त्वार्थविसूची तयोर्विवक्षयोः परस्परविलक्षणत्वाद् विरुद्धत्वाच्च द्वाभ्यामपि युगपदादेशे पुरुषस्यैकस्यैकत्र द्रव्ये नास्ति सम्भवी वचनविशेषातीतत्वाचावक्तव्यं वाचकशब्दाभावात् । एतदुक्तं भवति-अस्तित्वनास्तित्वयोविरुद्धयोरेकत्राधिकरणे काले च सम्भव एव नास्तीत्यतस्तद्विधस्यार्थस्याभावात् तस्य वाचकः शब्दोऽपि मास्त्येवेति ॥ तथा कालाद्यभेदेन वर्तनं गुणानां युगपद्भावः, तच्च यौगपद्यमेकान्तवादे नास्ति, यतः कालात्मरूपार्थसम्बन्धोपकारगुणिदेशसंसर्गशब्दद्वारेण गुणानां वस्तुनि वृत्तिः स्यात्, तत्रैकान्तवादेविरुद्धानां गुणानामेकस्मिन् काले न कचिदेकत्रात्मनि वृत्तिदृष्टा १ ॥ न जातुचित् प्रविभक्ते सदसत्त्वे स्त एकत्रात्मन्यसंसर्गरूपे येनात्मा तथोच्येत, ताभ्यां विविक्तश्च परस्परगुणानामात्मस्वभावो नान्योन्यास्मनि वर्तते, ततश्च नास्ति युगपदभेदेनाभिधानम् २ ।। न चैकत्रार्थे विरुद्धाः सदसत्त्वादयो वर्तन्ते, यतोऽह्यभिन्नैकात्माधारत्वेनाभेदे सति सदसत्त्वे युगपदुच्येयाताम् ३॥ न च सम्बन्धाद् गुणानामभेदः, सम्बन्धस्य भिन्नत्वात् , छत्रदेवदत्तसम्बन्धाद्धि दण्डदेवदत्तसम्बन्धोऽन्यः, सम्बन्धिनोः कारणयोर्भिन्नस्वात्, न तावेकेन सम्बन्धेनाभिन्नावेव, सदसतोरात्मना सह सम्बन्धस्य भिन्नत्वात्, न सम्बन्धकृतं योगपद्यमस्ति, तदभावाच्च नैकशब्दवाच्यत्वम् ४ ॥ न चोपकारकृतो गुणानामभेदः, यस्मानीलरक्ताद्युपकर्तृगुणाधीन उपकारः, ते च स्वरूपेण भिन्नाः सन्तो नीलनीलतररक्तरक्ततरादिना द्रव्यं रञ्जयन्ति विविक्तोपकारभाजः। एवं सदसत्त्वयोर्भेदात् सत्त्वेनोपरोक्तं सत् , असत्त्वोपरक्तमसदिति दूरापेतमुपकारसारूप्यम् , यतस्तदभेदेन शब्दो वाचकः स्यादिति ५॥ नाप्येकदेशे गुणिन आत्मन उपकारः समस्ति, येनैकदेशोपकारेण सहभावो भवेत् , गुणगुणिनोरुपकारकोपकार्यत्वे नीलादिगुणः सकल उपकारकः समस्तश्च घटादिरूपकार्यः, न चैकदेशे गुणो गुणी वा, यतो देशसहभावात् कश्चित् शब्दो वाचकः कल्प्येत ६॥ न चैकान्तवादिनां सदसत्त्वयोः संसृष्टमनेकान्तात्मक रूपमस्ति, अवधृतैकान्तरूपत्वात् , यथैव हि शबलरूपव्यतिरिक्तौ शुक्लकृष्णावसंसृष्टौ नैकस्मिन्नर्थे वर्तितुं समर्थों, एवं समर्थः कथं कथ्येत, तथा च तथाविवक्षायामवक्तव्यमेव द्रव्यमित्याह-एवमेतयोरिति । वचनविशेषातीतत्वादित्यत्र वचनविशेषस्य तदतीतत्वादिति पाठो युक्तः। एतदेव ऋजुमतिप्रबोधनाय स्पष्टार्थकेन वचनेन विवृणोति-एतदुक्तम्भवतीति, एतत्सर्वमेकान्तवादमधिकृत्य, सिद्धान्ते चापेक्षाभेदेनैकदाप्येकत्राधिकरणेऽस्तित्वनास्तित्वयोः सम्भवोऽस्त्येवेति नैतादृशार्थाभावः, किन्त्वेतादृशार्थाभिधानेऽवक्तव्यशब्दातिरिक्तः कोऽपि शब्दो न प्रगल्भतेऽवक्तव्यशब्दस्तु तादृशमर्थमभिधातुं प्रगल्भत एव, अत एव स्यादवक्तव्य इति स्याच्छब्दप्रयोग इति बोध्यम् । एकान्तवादे गुणानां योगपद्यादिकमपि न सम्भवतीति प्रपञ्चत-उपदर्शयति-तथेत्यादिना । तच्च कालाद्यभेदेन वर्तनं च । कालेत्यादि, कालः १ आत्मरूपम् २ अर्थः ३ सम्बन्धः ४ उपकारः ५ गुणिदेशः ६ संसर्गः ७ शब्दः ८ इत्येवं कालाद्यष्टप्रकारेणाभेदतो गुणानां वर्त्तनं युगपदेकत्र द्रव्ये सम्भवत्यनेकान्तवादे, तत एव च सकलादेशोप्युपतिष्ठते । एकान्तवादे तु न तथासम्भव इत्याह-तत्रैकान्तवाद इति, कालेनाभेदवृत्तिरेकान्तवादे गुणानां न सम्भवतीति प्रथममुपदर्शयति-विरुद्धानामित्यादिना । आत्मा खभावस्तद्रूपेणाप्यभेदवृत्तिर्न गुणानां सम्भवतीत्याह-न जातचिदित्यादिना । अर्थोऽधिकरणं तद्रूपेणाप्यभेदवृत्तिर्न सम्भवतीत्यावेदयति-न चैकत्रार्थ इति । सम्बन्धो भेदसहिष्णुरभेदस्तेनापि गुणानामभेदवृत्तिर्न सम्भवतीत्याह-न च सम्बन्धादिति । उपकारः खस्वरूपेणोपरक्तीकरणं तेनाप्यभेदो गुणानां नास्तीत्याह-न चोपकारकृत इति । ते च नीलरक्तादयश्च । सत्त्वासत्त्वयोनैकोपकारसम्भव इति स्पष्टयति-एवं सदसत्त्वयोरिति । तदभेदेन उपकाराभेदेन । गुणिदेशेनाप्यभेदवृत्तिर्गुणानां न सम्भवतीत्याह-नाप्येकदेश इति । संसर्गोऽभेदसहिष्णु दस्तेनापि गुणानामभेदो न घटत इत्याह-न चैकान्तवादिनामिति । शब्दरूपेणापि गुणानामभेदवृत्तिर्न घटत इत्याह-नाप्येकशब्द

Loading...

Page Navigation
1 ... 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150