Book Title: Tattvartha Trisutri Prakashika
Author(s): Vijaylavanyasuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
[98]
सद्भावासद्भावपर्यायौ प्रथमभङ्गगतशब्दप्रयोजनञ्च । [ तत्त्वार्थत्रिसूत्री
सिद्ध्यति स्याद्वादः, अन्यथा पर्यायनयाश्रय एव विकल्पसप्तकेन सकलवस्तुव्यापी स्यात् स्याद्वादः । सतो भवनं भावस्तद्भावलक्षणः परिणामः, स चानेकरूपः क्रमयुगपद्भावित्वात्, सुरमनुष्यादेर्ज्ञानदर्शनादेश्यात्मनः सद्भाव पर्यायत्वम्, शेषधर्मादिद्रव्यवृत्ताः पुनरसद्भावपर्यायाः; वर्तमान कालावधिकाः पर्यायाः सद्भावलक्षणाः, ततोऽन्येऽतीतानागतवर्तमानकालविशिष्टास्त्वसद्भाव पर्यायाः, तावत्परिणामपर्यायकलापाञ्चात्मादयः पदार्थाः, स्वपरपर्यायानन्तस्वभावमेकं द्रव्यं सत्तारूपेण विवक्षितं चेतनाचेतनाह्वम्, महासामान्यमुत्सर्गः, पर्यायाः शक्तयोऽनन्ताः, तत्र स्वपर्यायान्वयवत् परपर्यायव्यतिरेकोऽपि वस्तुस्वभावावगतेरङ्गम्, तन्निवृत्त्यग्रहणे वस्तुसद्भावाग्रहणाद्, विनिवृत्तिद्वारेणैवासद्भाव पर्यायोपयोगः, न निवृतिभावः, स एव हि तथा स्वभावो विनिवृत्ताशेषान्यविशेषलक्षणो निवृत्तिशब्दवाच्यः, तदेवमन्वयव्यतिरेकयोर्विधिप्रतिषेधविषययोरनियमातिप्रसङ्गपरिहारार्थं चिदुत्तरकिंवृत्तावद्योत्यविषयं स्याच्छन्दासंरमपिशब्द सहितं तथाविधान्यतमशब्दविशिष्टं वा धर्मधर्मिनिर्देशवाक्यं प्रयुज्यतेऽन्तर्भूतैवकारं गुणप्रधानभावव्यक्तिप्रकृत्यर्थं प्रयुक्तान्यतरैवकारं वा परप्रतिपन्नैकान्तधर्मविशिष्टं वस्तु कथञ्चित् नियमका - विषयावलम्बनं घटत इत्याह- अत्र चेति । अन्यथा केवलधर्मविषयकत्वे । कश्वात्मादिद्रव्यस्य सद्भावपर्यायः कश्वासद्भावपर्याय इत्यपेक्षायां सद्भावपर्यायस्वरूपं विवृणोति -सतो भवनमित्यादिना, सुरमनुष्यादेः क्रमभावित्वेनात्मनः सद्भावपर्यायत्वम्, ज्ञानदर्शनादेश्च युगपद्भावित्वेनात्मनस्सद्भाव पर्यायत्वम्, आत्मव्यतिरिक्तधर्मास्तिकायादिगताश्च धर्मा आत्मनो - सद्भावपर्याया इत्याह-शेषेति । प्रकारान्तरेण सद्भावासद्भावपर्यायौ दर्शयति-वर्त्तमानेति । सद्भावासद्भावपर्याय समनुगताश्चात्मादयः पदार्थास्तत्त्वम्, अन्यथा त्वतत्त्वमेवेत्याह- तावत्परिणामेति । प्रथमभङ्गे सत्तारूपेण विवक्षितं तदकान्तात्मकमेव वस्तु, अन्यादृशस्य सत्त्वासम्भवादित्याह - स्वपर पर्यायेति । तत्र द्रव्यसामान्यस्यैकत्वं पर्यायाणाञ्चानन्तत्वं तयोरन्योन्यसम्मिश्रितत्वादेका नेकात्मक वस्तूपपत्तिरित्यावेदनायाह-चेतनाचेतनाह्वमिति चेतनमपि द्रव्यमेव अचेतनमपि द्रव्यमेवेति द्रव्यस्य चेतनाचेतनद्वित्वं घटते, सर्वानुगामित्वात्सन्मात्रलक्षणम्, तदेव महासामान्यम्, तस्य कुत्रापि प्रतिक्षेपादुत्सर्गत्वमपि बोध्यम्, पर्यायास्त्वन्योन्यविलक्षणरूपास्तस्यैव शक्तयः सङ्ख्यातुमशक्यत्वादनन्ता इति । वस्तुस्वरूपावगमे खपर्यायवत्परपर्यायोऽप्युपयुज्यते, स्वनिषेधद्वारा तस्यापि वस्तुखरूपप्रविष्टत्वमित्याह - तत्रेति । परपर्यायव्यतिरेकस्य कथमङ्गत्वमित्यपेक्षायामाह—तन्निवृत्त्यग्रहण इति, परपर्यायनिवृत्त्यग्रहण इत्यर्थः । वस्तुसद्भावाग्रहणादिति, पररूपेणासन्त्वस्याग्रहणे स्वरूपेण सत्त्ववत्पररूपेण सत्त्वस्यैवाप्रतिषिद्धमनुमोदितं भवतीति न्यायेन प्राप्तौ स्वरूपसाङ्कर्यापत्या बिविक्तवस्तुसद्भावस्याग्रहणादित्यर्थः । विनिवृत्तिद्वारेणैव स्वाभाववत्त्वलक्षणसम्बन्धद्वारेणैव । ननु निवृत्तिस्तुच्छरूपा कथं शशशृङ्गादिवद्वस्तुस्वभावो भवेदित्यत आह-न निवृत्तिरभाव इति । यदि निवृत्तिर्नात्यन्ताभावः वाच्यस्तर्हि स किं - स्वरूप इत्यपेक्षायामाह - स एव हीति, वस्तुसद्भाव एव यत इत्यर्थः । सद्भावासद्भावपर्याययोर्वस्तुस्वभावत्वे निर्णीते सति यथा प्रकृतार्थगतिस्तथोपदर्शयति - तदेवमित्यादिना । अन्वयव्यतिरेकयोः सत्त्वासत्त्वाद्योः । विधिप्रतिषेधविषययोः, अस्त्यादिविधिनास्त्यादिप्रतिषेधविषययोः । अनियमप्रतिषेधार्थमन्तर्भूतैवकारम्, अप्रसङ्गपरिहारार्थं स्याच्छब्दाग्रेसरमिति । स्याच्छब्दः कीदृश इत्यपेक्षायामाह - चिदुत्तर किंवृत्तावद्योत्यविषयमिति, अत्र चिदुत्तरकिंवृत्तावयोत्यविषयेति पाठो युक्तः, तस्य स्याच्छब्देन समस्तस्यैव समनुगतिः, चिदुत्तरकिंवृत्तं कथञ्चिदिति तेनावद्योत्यो विषयो यस्य स तथा, एवंभूतो यः स्याच्छब्दस्तद्वप्रेसरमिति । अपिशब्द सहितम्, स्यादपि घटोऽस्त्येवेत्येवंवाक्यप्रयोगमङ्गीकृत्य, न चेत्थं प्रयोगः स्याद्वादिभिः क्रियमाणो दृश्यते, न च सम्भावनार्थ कापि शब्दप्रयोगकृत्यमपि पश्यामः, तस्माच्चिन्त्यमेतत् । अपिशब्दसहितमिति पाठे तथाविधेत्यस्याप्यपिशब्दसमानार्थकेत्यर्थः स्यात्, तत्पाठाभावे तु तथाविधेत्यस्य स्याच्छब्दसमानार्थकेत्यर्थः, तादृशशब्दश्व स्वद्रव्यादिना परद्रव्यादिना वेत्येवंरूपो ग्राह्यः । धर्मधर्मि निर्देशवाक्यम्, अ घट इत्यादिरूपम् । अन्तर्भूतैवकारम् अन्त्यनिविष्टैवकारसमन्वितम्, अनेन स्याद् घटोऽस्त्येवेति स्याद् घटो नास्त्येवेत्यादिखरूपं वाक्यं प्रतिपादितं भवतीति । गुणेत्यादि, एकस्य धर्मस्य गुणभावोऽन्यस्य च प्रधानभावः तस्य च या व्यक्तिः अभिव्यक्तिः तत्प्रकृत्यर्थं तत्स्वभावसम्पत्तये । प्रयुक्तान्यतरैवकारमिति, अन्ययोगव्यवच्छेदायोगव्यवच्छेदात्यन्ता

Page Navigation
1 ... 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150