Book Title: Tattvartha Trisutri Prakashika
Author(s): Vijaylavanyasuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
भाष्यटीकाविवृतियुता] आधभङ्गद्वयस्यार्थविशेषस्य विशेष्यविशेषणभावस्य चोपदर्शनम् । [८७] मासादयति, एवं चात्मनि नाप्रसक्ता घटादिसत्ता निषिध्यते अर्थात् प्रकरणाद् वा, घटादिसत्तानिषेधश्वात्मनो धर्मस्तदधीनत्वादात्मस्वभावस्य, स एव च परेण विशेष्यमाणत्वात् परपर्याय उच्यते, गव्यनश्वत्ववत् , आत्मना विशेष्यमाणत्वादात्मपर्यायः, स्वपरविशेषणायत्तं हि वस्तुस्वरूपप्रकाशनम् , अनेकान्तवादे च स्यादस्त्यात्मेत्यादिभिः सप्तभिर्वाक्यैरभिधीयते वस्तु प्रत्येकक्रियापदप्रयोगेणार्थपरिसमाप्तेः, आत्मेति द्रव्यवाची विशेष्यत्वात् , अस्तीति गुणाभिधायी विशेषणत्वात् , शब्दशक्तिखाभाव्याच्च तथा प्रतीतेः, बुद्ध्यारूढस्योपचरितसत्ताकस्य मुख्यसत्त्वविशेषणत्वेनोपात्तस्य धर्मिण उपादानादसत्त्वे इव । च। अस्तीत्यनेन सर्वप्रकारास्तित्वप्राप्तौ घटत्वरूपेणास्तित्वस्याप्यात्मनि प्रसक्तौ तदपोहाय नास्त्यात्मेत्युक्ति प्रसक्तनिषेधबोधिकेति एकान्तवादिनो मतमयुक्तम् , यतः सर्वप्रकारास्तित्वस्यात्मन्यसम्भवेन तदाश्रयणेन प्रथमभङ्गानुपपत्त्या स्यात्कारलाञ्छितस्यैव तस्य सम्भवेन तत्र खद्रव्यादिनैवास्तित्वस्य सम्प्रतिपत्तिर्न परद्रव्यादिनाऽस्तित्वस्येति घटत्वादिनाऽस्तित्वमप्रसक्तमेव, अप्रसक्तस्य च निषेधो न सम्भवतीति न तत्प्रतिपादको नास्त्यात्मेति, किन्तु यथा खद्रव्यादिनाऽस्तित्वमात्मनस्तथा परद्रव्यादिना नास्तित्वमपि तमन्तरेण खद्रव्यादिनाऽस्तित्वस्यैवाघटमानकत्वादिति तत्प्रतिपादनाय स्यानास्त्यात्मेति द्वितीयभङ्गो युक्त इत्याह-आत्मनीति । अर्थात्प्रकरणाद्वाऽप्रसक्ता घटादिसत्ता द्वितीयभङ्गेन न निषिध्यते, कुतः स्यादस्त्यात्मेत्यनेन प्रथमभङ्गेनाप्रसक्तस्य घटादिना सत्त्वस्य निषेधासम्भवात् , किं तर्हि द्वितीयभङ्गेन प्रतिपाद्यते इत्यपेक्षायामाह-घटादिसत्तानिषेधश्चति । यदि च घटादिसत्ताऽप्राप्तव तर्हि यथा तन्निषेधे न द्वितीयभङ्गतात्पर्य तथा विधिरूपे आत्मनि निषेधरूपताया असम्भवादेव न तत्प्रतिपादनेऽपि तात्पर्य तस्य घटत इत्यत आह-तदधीनत्वादिति। न विधिरूप एवात्मा, किन्तु अनन्तधर्मात्मकस्य तस्य विधिरूपस्ववन्निषेधरूपत्वमपि, तयोस्समकक्षत्वेनोभयोः प्रतिपादने सत्येवात्मस्वरूपं प्रतिपादितम्भवतीति प्रथमभङ्गेन विधिप्रतिपादनवत् द्वितीयभङ्गेन निषेधप्रतिपादनमपि युक्तमेवेति । खद्रव्यादिनाऽस्तित्ववत्परद्रव्यादिना नास्तित्वस्याप्यात्मधर्मत्वे तस्येवास्यापि खपर्यायत्वमेव युक्तमिति कथमस्य परपर्यायत्वोपवर्णनं क्वचित्सङ्गमित्यत आह-स एव चेति, नास्तित्वमेव च परेण घटत्वादिनाऽवच्छेद्यतया विशेष्यमाणत्वात्-परिच्छिद्यमानत्वात् परपर्याय उच्यत इत्यर्थः । एवं तर्हि तस्यात्मपर्यायत्वं कथं खपर्यायस्य परपर्यायत्वाभाववत्, परपार्यायस्यापि वपर्यायत्वासम्भवादित्यत आह-आत्मनेति, विशेष्यमाणत्वाद् आधाराधेयभावेन आत्मन इदमित्येवं परिच्छिद्यमानत्वाद् आत्मपर्याय उच्यत इत्यर्थः । एकस्य खपरपर्यायोभयोपगमे निमित्तमाह-स्वपरविशेषणायत्तं हीति, आत्मनः खद्रव्यादिना यदस्तित्वं यच्च परद्रव्यादिना नास्तित्वं तदुभयमपि वस्तुस्थित्या स्वपर्यायस्वरूपमेव, कल्पनया त्वनयोस्वपरपर्यायरूपता, वस्तुत आत्मभिन्नपटादिगतास्तित्वनास्तित्वादिधर्मस्यैव खाश्रयभिन्नत्वादिपरम्परासम्बन्धेनात्मसम्बन्धिनः परपर्यायत्वं साक्षात्सम्बन्धेन च सर्वस्यापि धर्मस्य विधिरूपनिषेधरूपान्यतरात्मकस्य वपर्यायत्वमेवेति बोध्यम् । एवमेकान्तवादप्रतिक्षेपेणानेकान्तवादस्योपयोगं प्रथमद्वितीयभङ्गयोरुपदर्य तत्र सप्तभिरेव वाक्यैस्सम्पूर्णार्थबोध इत्युपदर्शयितुमाह-अनेकान्तवादे चेति । स्यादितिनिपातस्यानेकाम्तावबोधकस्यासिधातुप्रकृतिकप्रथमपुरुषाख्यातप्रत्ययनिष्पन्नस्यादित्याकारकक्रियापदप्रतिरूपकत्वेन क्रियापदत्वमुपचर्य तद्धटितत्वेन सप्तसु वाक्येषु प्रत्येक क्रियापदप्रयोगोऽस्तीत्यभिसन्धानेनाह-प्रत्येकक्रियापदप्रयोगेणेति । स्यादस्त्यात्मेत्यादिवाक्ये यस्य पदस्य यदर्थपरत्वं तदुपदर्शयति-आत्मेतीति, स्यादस्त्यात्मेति वाक्ये आत्मनः विशेष्यत्वेन द्रव्यत्वम् अस्तीति प्रतिपादितस्यास्तित्वस्य विशेषणत्वेन गुणत्वम् । विशेषणविशेष्यभावेनैव प्रतिपत्तिरिति कुत इत्यपेक्षायामाह-शब्दशकीति, शब्दस्य साकाङ्क्षस्य विशेषणविशेष्यभावेनैवावबोधकत्वसामर्थ्य शब्दशक्तिः तत्स्वाभाव्यादित्यर्थः । तथा प्रतीतेरिति, आत्मनो विशेष्यतया अस्तित्वस्य च विशेषणतया प्रतीतेरित्यर्थः। यद्यात्मेति विशेष्यं नोपात्तं स्यात् तदाऽस्तीत्यस्य गुणाभिधायकत्वाभावेन विशेषणपदत्वमपि न स्यात् , प्रकृते च नैवमित्याशयः। ननु सत्त्वविनिर्मुक्त आत्मैव नास्ति कस्य विशेष्यत्वम् ?, सत्त्वयुक्तस्यात्मनो विशेष्यत्वे चात्मपदादेव विशेष्यस्वरूपप्रविष्टतया सत्त्वस्यावबोधनादनर्थकमस्ति पदोपादनम् , अन्वयोऽपि च न सम्भवति नहि खविशिष्टे खस्यान्वय इत्यत-बुद्ध्यारूढस्येति यद्यपि अस्तित्वविशिष्ट एव आत्मा न त्वस्तित्वविनिर्मुक्तस्तथाऽपि बुद्ध्या अस्तित्वात्पृथगात्मतामारोपितस्येत्यर्थः । एवंखरूपस्य सत्तोपचरितैव प्रकल्प्या, : चारश्व सत्तायास्तदानीमपि कर्त्तव्य एव, अन्यथाऽसतस्तस्य शशशृङ्गस्येव विशेष्यत्वासम्भवादित्याह-उपचरितसत्ताकस्येति । उपचारादपि सत्ता विशेषणतया प्राप्तव, तथाप्यस्तीत्यनेन मुख्यसत्त्वप्रतिपादनमभिमतम् , तस्य न गतार्थतेत्साह

Page Navigation
1 ... 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150