Book Title: Tattvartha Trisutri Prakashika
Author(s): Vijaylavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 126
________________ भायटी काविवृतियुता ] स्यात्काराभावे एवार्थेन निर्वाहकरणे दोषोपदर्शनम् । [24] arroछेदेन ह्यस्तिना योग इष्यते, स च योगः किं ? सामान्यरूपेणास्तिना प्रत्याय्यतेऽथ विशेषरूपेण उतोभयरूपेणेति, सर्वथा प्राक्तनदोषप्रसङ्गः, ध्यवच्छेदोऽप्यस्तित्व सामान्यायोगस्य वाऽस्तित्वविशेषायोगस्य वा उभयायोगस्य वा ?, यद्यस्तित्वसामान्या योगव्यवच्छेदः, ततोऽस्तित्व विशेषायोगव्यवच्छेदाभावप्रसङ्गः, तस्मिँश्वाव्यवच्छिन्ने सर्वास्तित्वविशेषस्वभाव आत्मादिः प्रसक्तः; अथास्तित्वविशेषायोगव्यवच्छेद इष्टः, एवं तर्ह्यस्तित्वसामान्ययोगव्यवच्छेदाभावप्रसङ्गः ततः प्रागेतनदोषत्रातस्तदवस्थः, अथोभयायोगव्यवच्छेदः, तथापि सामान्यविशेषास्तित्वोभयस्वभावः आत्मादिरभ्युपेतः स्यात्, ततश्च निष्फलमवधारणम्, सामान्यास्तित्वेन चास्त्यात्मादिर्विशेषास्तित्वेन च; ततश्च स्वगतविशेषास्तित्वेनास्ति परगतविशेषास्तित्वेन नास्ति वस्तु, स्यादस्ति स्यान्नास्तीति सिद्धम्, अनेकान्तरूपमेव समस्तवस्तु व्यव - हारास्पदतामानयन्तस्तत्कारिणः, तद्वेषिणश्च केचिज्जायन्ते जगत्यकारणाविष्कृतमत्सरप्रसराः खलु दुर्जनाः । यत्राप्यन्ययोगव्यवच्छेदोऽभिप्रेतस्तत्रापि योगविशेषो व्यवच्छिद्यते न योगसामान्यम्, यादृक् पार्थे धनुर्धरता तादृगन्यत्र नास्तीति । अत्यन्तायोगव्यवच्छेदेऽपि अत्यन्तमयोगः - नास्ति योग एव सर्वथा, अथवा कदाचिदस्ति कदाचिन्नास्तीत्येवं च विकल्पद्वयेऽपि प्राच्य एव प्रसङ्गो योज्यः ॥ प्रकृतमनुस्त्रियते - सर्वथा सामान्यविशेषरूपत्वात् प्रकारवदस्तित्वमतः सामान्यास्तित्वेनास्ति विशेषास्तित्वेन शयेनाह - सर्वास्तित्वेति । ननु योऽस्तित्वविशेषः स्वगतस्तस्यायोगो व्यवच्छिद्यतेऽन्यविशेषायोगो न व्यवच्छिद्यत इति सर्वास्तित्वविशेषायोगेऽव्यवच्छिन्ने सति सर्वास्तित्वविशेषप्राप्तिः कथं स्यादित्याह - अथेति । एवं सति अस्तित्वसामान्यस्या - योगोऽपि न व्यवच्छिन्न इति अस्तित्वसामान्यायोगे सति अस्तित्वसामान्ययोग एव न स्यात्, तथा च व्यापकस्य सामान्यस्याभावे व्याप्यस्य विशेषस्य सद्भावोऽपि दुर्घट इति समाधत्ते एवं तर्हीति । अस्तित्वसामान्ययोगेतिस्थानेऽस्तित्वसामान्यायोगेति पाठो युक्तः, यदि च अस्तित्वस्याप्ययोगो व्यवच्छिद्यते विशेषस्याप्ययो गोव्यवच्छिद्यते तदा सामान्यविशेषोभयात्मकत्वं स्याद्वाद्यभिमतं वस्तुनः प्राप्तमेवेति एकान्तावधारणं निष्फलमेवेत्याह प्रश्नोत्तराभ्यां - अथेत्यादिना । विशेषास्तित्वलाभायैव च स्याच्छब्दप्रयोगः एवचैकस्यास्तित्वविशेषस्यायोगे व्यवच्छिन्नेऽन्यस्यास्तित्वविशेषस्यायोगोऽस्त्येव तत्प्रतिपादकतया च स्यान्नास्तीति द्वितीयभङ्गोऽप्युपपद्यत इति प्रपञ्चयति ततश्चेति । तत्कारिणः स्यात्पदप्रयोगकारिणः । तद्वेषिणः स्याद्वादद्वेषिणः । स्याद्वादद्वेषस्तु दौर्जन्यादेवेत्याह- जगतीति । अन्ययोगव्यवच्छेदात्यन्तायोगव्यवच्छेदयोरपि स्याद्वादमुखनिरीक्षणेनैव सङ्गतत्व मित्या वेदयितुमाह-यत्रापीति । तत्रापि अन्ययोगव्यवच्छेदेऽपि । अन्यस्मिन् यो योगः स योगविशेष एवाभिमतः, स एव व्यवछियते । यादृग् यादृशविशेषधर्मविशिष्टा यादृशसम्बन्धोपरता च, तेन सामान्यधर्मेण कालिकादिसम्बन्धेन च विशिष्टधनुर्धरत्वस्य पार्थभिन्ने योगेऽपि न क्षतिः । अत्यन्तमयोग इत्यस्य नास्ति योग एव सर्वथा इति विवरणम् स व्यवच्छिद्यते इति पूरणीयम्, न त्वयोगसामान्यमेव व्यवच्छ - द्यते योगवदयोगस्यापि कथञ्चिद्भावात् । अत्यन्तायोगव्यवच्छेदस्य तात्पर्यावलम्बनेन प्रकारान्तरेण विवरणमाह-अथवेति । एवञ्च, स्याद्वादसमाश्रयत एव अयोगव्यवच्छेदात्यन्तायोगव्यवच्छेदयोरुपपत्तावन्यथानुपपत्तौ च । विकल्पद्वयेऽपि, अयोगसामान्यस्य व्यवच्छेदोऽयोगविशेषस्य व्यवच्छेदो वेति विकल्पद्वयेऽपि । प्राच्य एव प्रसङ्गः, अयोगसामान्यव्यवच्छेदेऽयोगविशेषोऽव्यवछिन्न एव सर्वयोगविशेषस्वभाव एव स्यात्, अयोगविशेषव्यवच्छेदेऽयोगसामान्यमव्यवच्छिन्नमेव स्यात्, एवं सत्ययोग सामान्यखरूपप्रविष्टतया सर्वस्याप्ययोगविशेषस्याव्यवच्छेदे अयोगविशेषोऽपि कथं व्यवच्छिद्यत इत्यादि - रूपः, अयोगसामान्यायोगविशेषोभयव्यवच्छेदे तु कथञ्चिदयोगविशेषो नास्ति कथञ्चिदस्तीत्यायातः स्याद्वाद इत्यत्राप्येकान्तवादिनोऽवधारणं विफलमेवेति । इदानीमाद्यभङ्गद्वयसङ्गमनां प्रस्तुतामधिकरोति प्रकृतमनुस्त्रियत इति । उक्तयुक्तयाऽस्तित्वस्य सामान्यरूपत्वं विशेषरूपत्वञ्च तत्र सामान्यस्य प्राधान्यविवक्षणे सति सामान्यास्तित्वेनास्त्यात्मा इति प्रथमभङ्गार्थः, विशेषास्तित्वेन नास्त्यात्मेति द्वितीयभङ्गार्थ इत्याह- सर्वथेति । प्रकारवत्, विभागवत् । खद्रव्यक्षेत्र कालभावैरस्तित्वमाश्रित्य प्रथमभङ्गः परद्रव्यक्षेत्र कालभावैर्नास्तित्वमुररीकृत्य द्वितीयभङ्ग इत्युपदर्शयति - तथेत्यादिना । खद्रच्या दिनाऽस्तित्त्वे

Loading...

Page Navigation
1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150