Book Title: Tattvartha Trisutri Prakashika
Author(s): Vijaylavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 125
________________ [८४] स्यात्काराभावेऽपि एवशब्दार्थंत्रिकाश्रयणेनोक्तदोषोद्धरणमेकेषाम् । [तस्वार्थत्रिसूत्री चेत्, तन्न, तत्रापि स्वगतेनेति विशेषणसामर्थ्यात् परगतविशेषानित्यत्वाभावः, पुनरथ्यफलमेवावधारणम् । न चानवधारणो वाक्यप्रयोगः पण्डितजनमनः प्रीतिहेतुः सर्ववाक्यानां सावधारणत्वादिष्ट - तश्चावधारणप्रकल्पनादवश्यंतयाऽवधारणमभ्युपेयम्, अन्यथा त्वनित्यं कृतक मनित्यत्वस्यानवधृतत्वानित्यत्वप्रसक्तिरपि ॥ अपरे त्वेवंविधप्रसङ्गभीत्या त्रिधाऽवधारणफलं वर्णयन्ति अयोगान्ययोगात्यन्तायोगव्यवच्छेदद्वारेण, क्वचिदेवकार प्रयोगादयोगव्यवच्छेदः, कचिदन्ययोगनिरासः, कचिदत्यन्तायोगव्युदासः, तत्रायोगोऽसम्बन्धस्तदवच्छेदफलं विशेषणमस्त्येव घट इत्यादावस्तिना सह घटस्यायोगोनास्त्ययोगमात्रं व्यवच्छिद्यते, यथा चैत्रो धनुर्धरः, चैत्रे हि धनुर्धरतायामाशयमानायां चैत्रो धनुर्धर एवेत्यवधार्यमाणे नान्येभ्यो धनुर्धरता व्यावर्तते, तद्वदिहापि प्रकृतवस्तुनीति । स्यात् त्वेष दोषो यद्यन्ययोगव्यवच्छेदेन विशेषणं क्रियेत, यथा पार्थो धनुर्धरः पार्थे धनुर्धरतायां प्रतीतायां तादृशी किमन्यत्राप्यस्तीति चिन्तायां पार्थ एव धनुर्धरो नान्य इति प्रतिविशिष्टधनुर्धरतायाः सहान्यैर्योगो व्यवच्छिद्यत इति । कचिदत्यन्तायोगव्यवच्छेदो नीलमेव सरोजमित्यत्र न सरोजं सकलद्रव्यभाविनीलगुणमात्मसात्करोति, तथा नीलत्वमपि न समस्तसरोजाक्षेपि, अत एवोभयव्यभिचारादुभयविशेषणत्वम्, अत्र च नीलतायाः किलात्यन्तमयोगो व्यवच्छिद्यते, नात्यन्तमयोगः - असम्बन्धः सरोजेन सह नीलतायाः । सर्वत्र चैवकारस्य विवक्षावशात् साक्षादप्रयोगेऽपि व्यवच्छेदार्थप्रतीतिरतो निरन्वयदोषाभावस्तदयोगव्यवच्छेदेन विशेषणादिति । अत्रोच्यते - सर्वमेतद् व्यामोहभाषितं दुर्बुद्धेरुद्धरतः परप्रयुक्तदूषणानि, यस्मादयोगे व्यवच्छिन्नेऽपि प्रागेतनदोषसम्पातो न निवर्तते, अयोगनित्यत्वविशेषविशेषणादेव परगतानित्यत्वविशेषव्यावर्त्तनादिति समाधत्ते - तन्नेति । ननु माऽस्त्ववधारणमनित्यं कृतकमित्येव प्रयोक्तव्यम्, प्रकृतेऽप्यस्त्यात्मेत्येव प्रयोक्तव्यं किन्नश्छिन्नमित्यत आह-न चानवधारण इति । अन्यथा अवघा - रणप्रयोगाभावे । अनवधृतत्वात्, अनित्यत्वमेव न नित्यत्वमित्येवं निर्णयाभावात्, तथा च स्यात्प्रयोगाभावेऽवधारणस्य निष्प्रयोजनत्वप्रसक्तिः, अवधारणविनिर्मुक्तं च वाक्यं नाद्रियन्ते सूरिभिरिति स्यात्कारैवकारोपबृंहितास्तिपदप्रयोग एव पेशल इत्येकान्तवादिनामस्त्यैवात्मा नास्त्येवात्मेत्यादिवादा अबोधविजृम्भिता एवेत्याशयः । परप्रयुक्तदूषणोद्धरणे स्यात्प्रयोगमन्तरे - गैवैवकार प्रयोगसाफल्यं त्रिधैवकारार्थसमाश्रयणेन सामर्थ्यमात्मनः पूत्कुर्वतां केषाञ्चिदेकान्तवादिनां मतं पूर्वपक्षतयोदृङ्कयति - अपरे त्विति । प्रकृतेऽयोगव्यवच्छेदार्थक एवकारः स्यात्पदमन्तरेणापि निर्वहतीति दृष्टान्तद्वारा समर्थयति - तत्रेति, फलत्रयेषु मध्ये । तदवच्छेदफलमित्यत्र तद्व्यवच्छेदफलमिति पाठो युक्तः । एवकारस्यायोगमात्र व्यवच्छेद फलकत्वे दृष्टान्तमुद्भावयति-यथेति । अवधार्यमाणेनान्येभ्य इत्यत्रावधार्यमाणे इति छेदः । तद्वदिति, यथा धनुर्धरत्वस्यान्येभ्यो न व्यावृत्तिः चैत्रान्यस्यापि धनुर्धरस्य लोके प्रतीतत्वात्, तथाऽस्त्येव घट इत्यत्रापि घटान्येभ्योऽस्तित्वं न व्यावर्त्तते घटान्यस्यापि पटादेरस्तितया प्रतीतेरिति । यद्यन्ययोगव्यवच्छेदो विशेषणस्यैवकार फलं प्रकृते स्यात्तदा तदनुपपत्तिदोषः प्रकृते स्यान्न च तथाऽभ्युपगम्यत इत्याह- स्यात्त्वेव दोष इति । अन्ययोगव्यवच्छेदफलकत्वे दृष्टान्तमाह-यथेति । प्रतीतायामि'त्यनेन तावन्मात्रप्रतिपादकत्वे वाक्यत्वस्यानुवादकत्वमेव स्यादिति व्यञ्जितम् । धनुर्धरतामात्रमन्यत्राप्यस्तीत्यतस्तस्यान्ययोगव्यवच्छेदोऽसम्भवग्रस्त इत्यत उक्तम् - प्रतिविशिष्टधनुर्धरताया इति । अत्यन्तायोगव्यवच्छेद फलकत्वमुदाहरणोपदर्शनतो निष्टङ्कयति - क्वचिदत्यन्तायोगव्यवच्छेद इति । नीलं सरोजमित्यत्र सरोजत्वं नीलस्य विशेषणं नीलत्वञ्च 'सरोजस्य विशेषणमुभयस्यापि व्यभिचरितत्वादित्युपपाद्य दर्शयति न सरोज मित्यादिना । सर्वत्रैवकारोऽप्रयुज्यमानोऽस्ति उक्तार्थान्यतमयोगस्य सर्वत्र सम्भवादित्याह सर्वत्रेति । अवधारफलासम्भवादेकान्तवादे एवकारानन्वयदोषो यः प्रागभि'हितः सोऽयोगव्यवच्छेद फलसम्भवतो नास्तीत्याह - अत इति । सिद्धान्ते उत्तमतं प्रतिक्षेप्तुमाह-अत्रोच्यत इति । सर्वमेतदित्यादि स्पष्टम् । तस्मिन् अस्तित्वविशेषायोगे । एक विशेषस्यायोगे सत्यप्यन्यविशेषयोगो न निवर्त्तत इति पटत्वादिनाऽस्तित्व विशेषायोगचत्सर्वात्मनास्तित्वविशेषस्य योगोऽपि स्याद् एवमपि च घटस्य पटाद्यात्मकत्वप्रसङ्गोऽपरिहार्य इत्या

Loading...

Page Navigation
1 ... 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150