Book Title: Tattvartha Trisutri Prakashika
Author(s): Vijaylavanyasuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
[८२] द्वितीयभङ्गे स्यात्कारप्रयोजनं स्यात्काररहितैकान्तवादे चावधारणमनिष्टकृत् । [ तत्त्वार्थत्रिसूत्री एवं न्यायव्यवस्थायामनन्तपर्याये पुरुषादी सप्तधा वाचकः शब्दः प्रवर्तते-स्यादस्त्येवेत्यादिः, यथायुवत्ववृत्तिः, पुरुषः पुरुषत्वेनास्ति न तु बालवृत्त्या, ततः स्यादस्त्येव न पुनः सर्वात्मनैव, पुरुषः द्रव्यार्थेनान्वयिना वर्तमानेन यौवनेन विद्यते न तु तत्र सम्भविनान्येनापि पर्यायेण बालादिना, यदि पुनरस्येवेति नियमेनैवोच्यते तत आमरणकालवृत्तत्वात् पुरुषशब्दपुरुषार्थयोर्नास्तित्वनिरवकाशास्तित्वप्रतिज्ञावशात् यथा पुरुषत्वयौवनाभ्यां विद्यते तथा बालपुरुषतयाऽपि स्याद्, अन्याभिश्च वृत्तिभिः सत्सकीर्णवृत्तिर्भवेत् , नियतवृत्तिश्च दृश्यते, न वा बालता पुरुषस्वभाव एव भवतीत्यभ्युपेयम् , ततश्चावस्थाहानेः पुरुषाभावप्रसङ्गः, अतो बालापेक्षया स्यादस्त्येवेति भवति । तथैकान्तवादिनो नास्त्येवात्मेत्यवधारणेनोक्ते यथैवान्वयिना द्रव्यार्थपुरुषतया स नास्ति एवमुत्पादविनाशप्रवाहरूपपर्यायात्मिकयाऽपि बालादिवृत्त्या न स्यात् , एवं चात्मनास्तित्वमस्तित्वनिरवकाशं भवेत् , ततश्चान्वयिना नैमित्तिकेन वा रूपेण नास्तित्वमात्मनो वान्ध्येयस्येव सर्वप्रकारमनुषक्तम् , अतस्तदोषापाकरणेन स्यान्नास्त्येवेत्युच्यते, स ह्यन्वयिन्या वृत्त्या न विद्यते न सर्वात्मनैव, यतो वर्तमानपर्यायः स्वात्मना बालादिरूपेणास्त्येव, पर्यायपरम्परायामपि वर्तमानपर्यायेणैवास्ति नातीतानागतपर्यायापेक्षणेनेत्यतः स्यान्नास्त्येवेति । ये त्वस्तित्वनास्तित्वैकान्तवादिनोऽवधारणमिष्टतः प्रयुञ्जते-अस्त्येवात्मा नास्त्येव चात्मेति, तेषां शब्दशक्तिप्रापितत्वात् सर्वथाऽस्तित्वनास्तित्वप्रसङ्गः। प्रथमविकल्पे तावत् सर्वप्रकारास्तित्वमात्मनः तशब्दप्रयोगे न व्यवहारविरोधः, इयं च प्रक्रिया न तीर्थान्तरीयदृष्टेति सूचनायाह-जैनेन्द्रो न्याय इति । उक्तयुक्तिप्रथनकृत्यं प्रकृतमुपन्यस्यति-एवमिति । युवत्ववृत्तिः, युवावस्थापन्नः । द्रव्यार्थेन द्रव्यार्थिकनयविषयेण । अन्वयिना पूर्वोत्तरपर्यायानुगतेन पुरुषत्वेन । तच्च पुरुषत्वं युवत्ववृत्तौ यौवनेनैकतापन्नमेव भवतीत्यावेदनायाह-वर्तमानेन यौवनेनेति । तत्र पुरुषे। स्यात्पदप्रयोगकृत्यमाह-यदीति । ननु पुरुषस्य बालत्वं खभाव एव ततश्च पुरुषत्वेन सत्त्वे बालत्वेनापि सत्त्वमेवेत्यत आह-नवेति, अस्याभ्युपेयमित्यनेनान्वयः । ततश्च बालत्वस्य पुरुषखभावतश्च । अवस्थाहानेः, एकस्यानुगामिनः क्रमभाविनः परिणामा अवस्थाशब्देनोच्यन्ते, बालस्य त्वननुगामिनो न युवत्वादिपरिणामा इत्यवस्थाहानेः । पुरुषाभावप्रसङ्गः, अनुगामिन एव पुरुषत्वेनाननुगामित्वे पुरुषाभाव एव स्यात् । एवञ्च सति यावदुक्तं भवति पुरुषापेक्षयाऽस्त्येव तावदुक्तं भवति बालापेक्षया स्यादस्त्येवेति पुरुषखभावस्य बालत्वादभिन्नत्वात् , अनिष्टं चैतत् , यतो युवत्ववृत्तिः पुरुषः पुरुषत्वेन स्यादस्त्येवेति भवति न तु भवति बालापेक्षया स्यादस्त्येवेति सर्वमभिप्रेत्याह-अत इति । एवं द्रव्यार्थिकनयविषयमनुगामिधर्ममाश्रित्य प्रथमभङ्गमुपपाद्य पर्यायार्थिकनयविषयमननुगामिधर्ममाश्रित्य द्वितीयभङ्गप्रवृत्तौ स्यात्कारलाञ्छनस्यावश्यकत्वमित्युपपादयति-तथैकान्तवादिन इति, नैरात्म्यवादिनो बौद्धस्येत्यर्थः । स आत्मा । बालादिवृत्त्येति, पूर्वपूर्वज्ञानाद्यवस्थाविशेष एव तन्मते उत्तरोत्तरज्ञानाद्यवस्थापेक्षया बालादिवृत्तिः । पुरुषाद्यात्मना नास्तित्ववद्वालाद्यात्मनाऽपि नास्तित्वे किं स्यादित्यत आह-एवं चेति । अस्तित्वनिरवकाशम् , अस्तित्वरहितम् , यद्यप्यस्तित्वविकलं नास्तित्वमेकान्तवादिन इष्टमेव तथापि तथातत्त्वस्य गगनकुसुमरूपेण भावात्तथावादिनो न प्रामाणिकप्रवेश इति हृदयम् । एतदभिसन्धानेनैवोक्तम्-वान्ध्येयस्येवेति । स्यात्कारलाञ्छितप्रयोगे तु सर्व समअसमित्याह-सहि. पर्यायार्थिकनयाभ्युपगन्तुकवाद्यभिमत आत्मा यतः । अन्वयिन्या वृत्त्या, अनुगामिस्वरूपेण पुरुषत्वादिना । न विद्यते नास्ति, यतस्तन्मते अनुगामिखरूपस्यात्मनोऽनभ्युपगमात् , एवञ्च स्यादित्यस्यानुगामिस्वरूपापेक्षयेत्यर्थः । स्यात्कारोपन्यासप्रयोजनं प्रकटयति-न सर्वात्मनैवेति, न विद्यत इत्यस्यानुकर्षः, सर्वात्मना न विद्यत इति नेत्यर्थः । सर्वात्मना नास्तित्वं नास्तीत्यर्थस्योपोद्वलनायाह-यत इति । द्वितीयभङ्गे सर्वपर्यायवादिमताश्रयणेन प्रवृत्ते बालाद्यवस्थापदेन यस्य वादिनो यथा पर्यायस्वीकृतिस्तन्मते बालाद्यवस्थापदेन तथापर्यायग्रहणं बोध्यम् , एकान्तवादिनां तु स्यात्कारालाञ्छितास्तित्वाद्यवधारणप्रयोगोऽनिष्टापादक एवेत्याह-ये त्वित्यादि । अस्त्येवेत्येवकारेण नास्तित्वस्य सर्वथा व्यवच्छेदे केनापि प्रकारेण न नास्तित्वमिति सर्वप्रकारेणास्तित्वप्रसङ्गः, एवं नास्त्येवेत्येवकारेणास्तित्वस्य सर्वप्रकारेण व्यवच्छेदे केनापि प्रकारेणास्तित्वं नेति सर्वप्रकारेण नास्तित्वप्रसङ्ग इत्याह-तेषामिति । शब्दशक्तीति, अन्यव्यवच्छेदावबोधकैवकारशब्दसामर्थ्य

Page Navigation
1 ... 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150