Book Title: Tattvartha Trisutri Prakashika
Author(s): Vijaylavanyasuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
भाष्यटीकाविवृतियुता ] आधभङ्गत्रिकस्य सकलादेशता, प्रथमभङ्गभावना, स्यात्पदप्रयोजनञ्च । [८१]
त्युच्यते सकलादेशः, गुणद्वयं तु गुणिनो भागवृत्ति भवत्युभयात्मकत्वाद् गुणिनः, न त्वेको गुणो भागवृत्तिरिति । एवं स्यान्नित्य इत्यपि वाच्यम् । तथा पर्यायनयाश्रयमसत्त्वमनित्यत्वं चाङ्गीकृत्य स्थादसत् स्यादनित्य आत्मेति वाच्यम् । युगपद् भावादुभयगुणयोरप्रधानतायां शब्देनाभिधेयतयाऽनुपात्तत्वात् स्यादवक्तव्यः । का पुनर्भावना-स्याद् सन्निति ?, किमत्र भाव्यम् ? एकं द्रव्यमनन्तपर्यायमतीतानागतानन्तकालसम्बन्ध्यनेकार्थव्यञ्जनपर्यायात्मकतया विश्वरूपम् , तदेवंविधावस्थं वस्तु वर्तमानपर्यायवृत्तमपि येन येन शब्देनोच्यते तेन तेन रूपेण तदभिसम्बद्धम् , द्रव्यस्य पर्यायसचिवत्वात पर्यायाणां च द्रव्यसहायत्वात् , अतोऽनेकान्तवादसामर्थ्याद् वस्तुनो यदुक्तसूक्तिका न च व्यवहारविरोधिनी, यथा-घटः पटादिरपि भवति स्यात्कारसंलाञ्छनशब्दाभिधेयतायामिति जैनेन्द्रो न्यायः । गुणद्वयरूपेण गुणिनोऽभिधायकं वचनं न सकलादेशस्तत्र गुणद्वयविवक्षाया भेदविवक्षामन्तरेणाघटनात् , तदात्मकविवक्षणमपि गुणिनो भागकल्पनेनैव, यत एको भागोऽस्यायं गुण एकश्चायमित्यतोऽयं गुणी भागद्वयात्मक इत्येवं सखण्डता तस्येति नाखण्डरूपस्य सकलस्य वस्तुनो गुणद्वयरूपेण प्रतिपादनं खण्डते, एकस्तु गुणः खयमखण्डत्वाद्वस्तुनो भागोऽपि भागान्तराविवक्षायां वस्तुखरूपवदखण्डतयैव विवक्षितत्वात्तद्रूपेण वस्तुप्रतिपादनस्य सकलादेशत्वं घटत एवेत्यभिसन्धानेनाह-गुणद्वयं त्विति । यथा च सत्त्वासत्त्वविधिनिषेधकल्पनया प्रवृत्तायास्सप्तभङ्ग्याः स्यात्सन्निति प्रथमभङ्ग उक्तयुक्त्या सकलादेशस्तथैव नित्यत्वानित्यत्वविधिनिषेधकल्पनाप्रवृत्तसप्तमभङ्गीप्रथमभङ्गोऽपि सन्नित्य इति सकलादेशोऽवसेय इत्याह-एवं स्यान्नित्य इत्यपि वाच्यमिति । पर्यायार्थिकनयसमाश्रयणेन प्रवृत्तो द्वितीयभङ्गोऽप्येकगुणरूपेण वस्त्वभिधायकत्वादुक्तदिशा सकलादेश इत्यतिदिशति-तथेति । पर्यायनयाश्रयं पर्यायनयविषयम् । सकलादेशतयाऽभिमतस्य तृतीयभङ्गस्योपपादनायाह-युगपदिति, गुणद्वयस्य युगपत्प्रधानतया विवक्षायां प्रधानतयोभयप्रतिपादकस्य कस्यचिच्छब्दस्यावक्तव्यशब्दव्यतिरिक्तस्याभावादभिधेयस्याप्यभावापत्तौ सत्यां तथाऽप्रधानतैव तयोरित्यभिसन्धानेनोक्तम्-अप्रधानतायामिति, शब्देनाभिधेयतयाऽनुपात्तत्वादिति च देहलीदीपन्यायेन पूर्वोत्तराभ्यामन्वेति, ततश्च यद्यप्यस्ति तयोः प्राधान्येन युगपद्विवक्षा तथापि तथाविवक्षायां तथातत्प्रतिपादकः शब्द एव न कोऽपि विद्यत इत्यप्राधानतैव प्राप्ता, एवं युगपत्प्रधानतया विवक्षितगुणद्वयरूपेण गुणिनोऽभिधायकमपि वचनं नास्तीत्यवक्तव्य एव सः, एवं च युगपत्प्रधानतया विवक्षितगुणद्वयमव्यक्तरूपतापन्नमेकगुणरूपमेव तद्रूपेण धर्मिणोऽभिधायकत्वात्ततीयभङ्गोऽपि सकलादेश इत्याशयः। इदानीं सप्तभङ्गीस्वरूपावश्यकताप्रतिपत्तये उपक्रम्यते, तत्र प्रथमभङ्गभावनाय परपृच्छामुट्टङ्कयति-का पुनर्भावना स्यात्सन्नितीति । उत्तरयति-किमत्र भाव्यमिति, सप्तभङ्गी नापूर्वमर्थङ्कथयति किन्तु यदेव वस्तुस्वरूपं तदेव प्रकाशयति, अतः प्रमाणप्रतीतार्थख्यापनमेवानेन क्रियत इति कल्पनोपनीतभावनाविषयत्वलक्षणं भाव्यत्वमत्र नास्तीत्यर्थः । प्रमाणप्रतीतानन्तधर्मात्मकवस्तुन एव स्यात्सन्नित्यादिभङ्गप्रतिपाद्यत्वमित्येतत्प्रपञ्चत उपदर्शयति-एकमिति, एकत्वविशिष्टं सदेव विश्वरूपमनेकात्मकं वस्त्वित्यर्थः । एकत्वमनेकत्वं विरुद्धं कथं वस्तुनि?, नैवं शवयम् , द्रव्यात्मनैकत्वस्य पर्यायात्मनाऽनेकत्वस्य च सम्भवादित्याह-द्रव्यमित्यादि । अनन्तपर्यायमित्येतावतैव विश्वरूपत्वावगतौ कथं तथेत्याशङ्कोन्मूलनाय विशेषतस्तत्प्रपञ्चनम्-अतीतानागतेत्यादिकम् । वचनस्य विवक्षापरतन्त्रत्वाद्यदा य एव पर्यायः प्रयोजनवशाद्विवक्षितस्तदा तत्पर्यायरूपेणैव कथनमनन्तपर्यायस्यापि वस्तुन इत्याशयेनाह-तदेवंविधावस्थमिति । अतीतानागतपर्याययोर्वर्त्तमानसमये तथाऽसत्त्वेन यथाऽविवक्षया बचनाप्रवृत्तिस्तथा वर्तमानसमयेऽवस्थितपर्यायाणामपि यस्यैव येनैव रूपेण विवक्षा तस्यैव तेनैव रूपेण वचनं प्रयोजनवशादित्यावेदनायोक्तम्-वर्तमानपर्यायवृत्तमपीति । येनेति, शब्देन येन येन रूपेणोच्यते तेन तेन रूपेण तदभिसम्बद्धमुच्यत इत्यर्थः। तथा च वचनप्रवृत्तिरीदृशी नैतावता यद्रूपेणाभिधानं सावन्मात्रात्मकमेव वस्त्वित्याशयः । यथा चैकः पर्यायः पर्यायान्तरासंवलितोऽपि वचनमार्गगामी तथा द्रव्यासंवलितोऽपि किन्तथा न स्याद्रव्यमपि पर्यायविनिर्मुक्तमेव किन्न तथेत्याशङ्काशङ्कसमुद्धरणायाह-द्रव्यस्येति, तथा चान्योन्यसङ्घटितमूर्तिकत्वान्नैकस्यापरसम्भेदमन्तरेण वचनमिति । वस्तुन एकानेकात्मकत्वेन तथैव तदभिधाने परिपूर्ण वचनं नान्यथा, तच्च स्यात्कारलाञ्छितवचनप्रयोगेणैव निर्वहतीत्याह-अत इति, वस्तुन एकानेकत्वतः। घटस्यानन्तधर्मात्मकत्वे पटाद्यात्मकत्वमपि, तथा च घटः पट इत्यादिरपि वचनं प्रमाणं भवेदत आह-यदुक्तमुक्तिका न च व्यवहारविरोधिनीति, यदित्यस्य येन रूपेणेत्यर्थः । कथं घटादेः पटादिरूपेणोको न व्यवहारविरोध इत्यपेक्षायामाह-यथेति । घटः स्यात्पट इत्येवं स्यात्कारलाञ्छि
त. त्रि. ११

Page Navigation
1 ... 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150