________________
भाष्यटीकाविवृतियुता ] आधभङ्गत्रिकस्य सकलादेशता, प्रथमभङ्गभावना, स्यात्पदप्रयोजनञ्च । [८१]
त्युच्यते सकलादेशः, गुणद्वयं तु गुणिनो भागवृत्ति भवत्युभयात्मकत्वाद् गुणिनः, न त्वेको गुणो भागवृत्तिरिति । एवं स्यान्नित्य इत्यपि वाच्यम् । तथा पर्यायनयाश्रयमसत्त्वमनित्यत्वं चाङ्गीकृत्य स्थादसत् स्यादनित्य आत्मेति वाच्यम् । युगपद् भावादुभयगुणयोरप्रधानतायां शब्देनाभिधेयतयाऽनुपात्तत्वात् स्यादवक्तव्यः । का पुनर्भावना-स्याद् सन्निति ?, किमत्र भाव्यम् ? एकं द्रव्यमनन्तपर्यायमतीतानागतानन्तकालसम्बन्ध्यनेकार्थव्यञ्जनपर्यायात्मकतया विश्वरूपम् , तदेवंविधावस्थं वस्तु वर्तमानपर्यायवृत्तमपि येन येन शब्देनोच्यते तेन तेन रूपेण तदभिसम्बद्धम् , द्रव्यस्य पर्यायसचिवत्वात पर्यायाणां च द्रव्यसहायत्वात् , अतोऽनेकान्तवादसामर्थ्याद् वस्तुनो यदुक्तसूक्तिका न च व्यवहारविरोधिनी, यथा-घटः पटादिरपि भवति स्यात्कारसंलाञ्छनशब्दाभिधेयतायामिति जैनेन्द्रो न्यायः । गुणद्वयरूपेण गुणिनोऽभिधायकं वचनं न सकलादेशस्तत्र गुणद्वयविवक्षाया भेदविवक्षामन्तरेणाघटनात् , तदात्मकविवक्षणमपि गुणिनो भागकल्पनेनैव, यत एको भागोऽस्यायं गुण एकश्चायमित्यतोऽयं गुणी भागद्वयात्मक इत्येवं सखण्डता तस्येति नाखण्डरूपस्य सकलस्य वस्तुनो गुणद्वयरूपेण प्रतिपादनं खण्डते, एकस्तु गुणः खयमखण्डत्वाद्वस्तुनो भागोऽपि भागान्तराविवक्षायां वस्तुखरूपवदखण्डतयैव विवक्षितत्वात्तद्रूपेण वस्तुप्रतिपादनस्य सकलादेशत्वं घटत एवेत्यभिसन्धानेनाह-गुणद्वयं त्विति । यथा च सत्त्वासत्त्वविधिनिषेधकल्पनया प्रवृत्तायास्सप्तभङ्ग्याः स्यात्सन्निति प्रथमभङ्ग उक्तयुक्त्या सकलादेशस्तथैव नित्यत्वानित्यत्वविधिनिषेधकल्पनाप्रवृत्तसप्तमभङ्गीप्रथमभङ्गोऽपि सन्नित्य इति सकलादेशोऽवसेय इत्याह-एवं स्यान्नित्य इत्यपि वाच्यमिति । पर्यायार्थिकनयसमाश्रयणेन प्रवृत्तो द्वितीयभङ्गोऽप्येकगुणरूपेण वस्त्वभिधायकत्वादुक्तदिशा सकलादेश इत्यतिदिशति-तथेति । पर्यायनयाश्रयं पर्यायनयविषयम् । सकलादेशतयाऽभिमतस्य तृतीयभङ्गस्योपपादनायाह-युगपदिति, गुणद्वयस्य युगपत्प्रधानतया विवक्षायां प्रधानतयोभयप्रतिपादकस्य कस्यचिच्छब्दस्यावक्तव्यशब्दव्यतिरिक्तस्याभावादभिधेयस्याप्यभावापत्तौ सत्यां तथाऽप्रधानतैव तयोरित्यभिसन्धानेनोक्तम्-अप्रधानतायामिति, शब्देनाभिधेयतयाऽनुपात्तत्वादिति च देहलीदीपन्यायेन पूर्वोत्तराभ्यामन्वेति, ततश्च यद्यप्यस्ति तयोः प्राधान्येन युगपद्विवक्षा तथापि तथाविवक्षायां तथातत्प्रतिपादकः शब्द एव न कोऽपि विद्यत इत्यप्राधानतैव प्राप्ता, एवं युगपत्प्रधानतया विवक्षितगुणद्वयरूपेण गुणिनोऽभिधायकमपि वचनं नास्तीत्यवक्तव्य एव सः, एवं च युगपत्प्रधानतया विवक्षितगुणद्वयमव्यक्तरूपतापन्नमेकगुणरूपमेव तद्रूपेण धर्मिणोऽभिधायकत्वात्ततीयभङ्गोऽपि सकलादेश इत्याशयः। इदानीं सप्तभङ्गीस्वरूपावश्यकताप्रतिपत्तये उपक्रम्यते, तत्र प्रथमभङ्गभावनाय परपृच्छामुट्टङ्कयति-का पुनर्भावना स्यात्सन्नितीति । उत्तरयति-किमत्र भाव्यमिति, सप्तभङ्गी नापूर्वमर्थङ्कथयति किन्तु यदेव वस्तुस्वरूपं तदेव प्रकाशयति, अतः प्रमाणप्रतीतार्थख्यापनमेवानेन क्रियत इति कल्पनोपनीतभावनाविषयत्वलक्षणं भाव्यत्वमत्र नास्तीत्यर्थः । प्रमाणप्रतीतानन्तधर्मात्मकवस्तुन एव स्यात्सन्नित्यादिभङ्गप्रतिपाद्यत्वमित्येतत्प्रपञ्चत उपदर्शयति-एकमिति, एकत्वविशिष्टं सदेव विश्वरूपमनेकात्मकं वस्त्वित्यर्थः । एकत्वमनेकत्वं विरुद्धं कथं वस्तुनि?, नैवं शवयम् , द्रव्यात्मनैकत्वस्य पर्यायात्मनाऽनेकत्वस्य च सम्भवादित्याह-द्रव्यमित्यादि । अनन्तपर्यायमित्येतावतैव विश्वरूपत्वावगतौ कथं तथेत्याशङ्कोन्मूलनाय विशेषतस्तत्प्रपञ्चनम्-अतीतानागतेत्यादिकम् । वचनस्य विवक्षापरतन्त्रत्वाद्यदा य एव पर्यायः प्रयोजनवशाद्विवक्षितस्तदा तत्पर्यायरूपेणैव कथनमनन्तपर्यायस्यापि वस्तुन इत्याशयेनाह-तदेवंविधावस्थमिति । अतीतानागतपर्याययोर्वर्त्तमानसमये तथाऽसत्त्वेन यथाऽविवक्षया बचनाप्रवृत्तिस्तथा वर्तमानसमयेऽवस्थितपर्यायाणामपि यस्यैव येनैव रूपेण विवक्षा तस्यैव तेनैव रूपेण वचनं प्रयोजनवशादित्यावेदनायोक्तम्-वर्तमानपर्यायवृत्तमपीति । येनेति, शब्देन येन येन रूपेणोच्यते तेन तेन रूपेण तदभिसम्बद्धमुच्यत इत्यर्थः। तथा च वचनप्रवृत्तिरीदृशी नैतावता यद्रूपेणाभिधानं सावन्मात्रात्मकमेव वस्त्वित्याशयः । यथा चैकः पर्यायः पर्यायान्तरासंवलितोऽपि वचनमार्गगामी तथा द्रव्यासंवलितोऽपि किन्तथा न स्याद्रव्यमपि पर्यायविनिर्मुक्तमेव किन्न तथेत्याशङ्काशङ्कसमुद्धरणायाह-द्रव्यस्येति, तथा चान्योन्यसङ्घटितमूर्तिकत्वान्नैकस्यापरसम्भेदमन्तरेण वचनमिति । वस्तुन एकानेकात्मकत्वेन तथैव तदभिधाने परिपूर्ण वचनं नान्यथा, तच्च स्यात्कारलाञ्छितवचनप्रयोगेणैव निर्वहतीत्याह-अत इति, वस्तुन एकानेकत्वतः। घटस्यानन्तधर्मात्मकत्वे पटाद्यात्मकत्वमपि, तथा च घटः पट इत्यादिरपि वचनं प्रमाणं भवेदत आह-यदुक्तमुक्तिका न च व्यवहारविरोधिनीति, यदित्यस्य येन रूपेणेत्यर्थः । कथं घटादेः पटादिरूपेणोको न व्यवहारविरोध इत्यपेक्षायामाह-यथेति । घटः स्यात्पट इत्येवं स्यात्कारलाञ्छि
त. त्रि. ११