Book Title: Tattvartha Trisutri Prakashika
Author(s): Vijaylavanyasuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
स्वैः द्रव्यक्षेत्रकालभावरस्तित्व परश्च नास्तित्व वस्तुनः। [तत्त्वार्थत्रिसूत्री नास्त्यात्मा-स्यादस्ति स्यान्नास्तीति, तथा यदस्ति तन्नियमेन द्रव्यक्षेत्रकालभावरूपेणैवात्मलाभ लभते, यथा-आत्मा जीवद्रव्यतया, क्षेत्रत इह क्षेत्रतया, कालतो वर्तमानकालसम्बन्धितया, भावतो ज्ञानदर्शनोपयोगमनुष्यगतितयेति प्रतिपादिते गम्यत इदम्-द्रव्यक्षेत्रकालभावान्तरसम्बन्धितया नास्त्यात्मा । यदि च सर्वद्रव्यतयाऽऽत्मा स्याद् आत्मैवासौ न भवेत् , द्रव्यत्ववत् सर्ववृत्तितया वा तद्रूपतया च, सर्वकालसम्बन्धित्वाद् व्योमवद्, मनुष्यभावे वा समस्तनारकादिभावप्रसङ्ग एकान्तवादिनाम् , अतोऽवश्यं स्वद्रव्यादित्वेनैवास्तित्वमभ्युपेयम्, नान्यद्व्यादित्वेन । ततश्च स्खैरस्तित्वात् परैश्च नास्तित्वात् स्यादस्ति स्यान्नास्तीति, स्वपरमात्रभावाभावोभयाधीनत्वादात्मास्तित्वस्य, यथैव स्वास्तित्वादस्तीत्युच्यते, तथैव परनास्तित्वान्नास्तीत्यपि वाच्यम्, न च प्रकारान्तरमस्ति किञ्चिदेकान्तवादिनां यदाश्रयणेनावष्टम्भो दृढप्रतिबन्धः स्यादिति नास्तित्वमस्तित्वानपेक्षमत्यन्तशून्यं वस्तु प्रतिपादयेदन्वयाप्रतिलम्भाद् अस्तित्वमपि नास्तित्वानपेक्षं सर्वरूपं वस्तु गमयेत् व्यतिरेकाप्रतिलम्भात्, न च सता सर्वाभावरूपेण सकलभावरूपेण वा भूयते, अतः सर्वदाऽस्तित्वं नास्तित्वसापेक्षं नास्तित्वं चास्तित्वापेक्षमेवात्मलाभ
wor... प्रतिपादिते सति परद्रव्यादिना नास्तित्वं प्रतिपादितमेव भवतीत्येतदेकत्र दृष्टान्ते प्रदर्शनमुखेनाविष्करोति-यथेत्यादिना । जीवद्रव्यतयेति, अस्तीति दृश्यम् । एवमिहक्षेत्रतयेत्यादावपि । द्रव्यक्षेत्रकालभावान्तरेत्यत्रोत्तरान्तरपदेन सह द्रव्यादिपदानां प्रत्येकं सम्बन्धः, ततश्च द्रव्यान्तरक्षेत्रान्तरकालान्तरभावान्तरसम्बन्धितयेत्यर्थः । एवमनभ्युपगच्छतामेकान्तवादिनामनिष्टमापादयति-यदि चेत्यादिना । तत्र सर्वद्रव्यसम्बन्धितयाऽस्तित्वाभ्युपगमे दण्डमाह-सर्वद्रव्यतयेति । सर्वक्षेत्रसम्बन्धितयाऽस्तित्वाभ्युपगमेऽपि द्रव्यत्ववदात्मैवासौ न भवेदिति प्रसङ्गोऽवतिष्ठत एवेत्याह-सर्ववृत्तितया वेति । तद्वपतया चेत्सपि पूर्वान्वय्येव । सर्वकालसम्बन्धितयाऽस्तित्वेऽपि खखरूपाभावप्रसङ्ग एव दोष इत्याह-सर्वकालसम्बन्धित्वादिति । व्योमवदिति, यथा सर्वकालसम्बन्धिनो व्योम्नो नात्मत्वं तथाऽऽत्मनोऽपीति, अथवा तद्पतया चेत्युत्तरान्वयि, द्रव्यरूपतया सर्वकालसम्बन्धित्वाव्योमवदात्मत्वं न स्यादित्यर्थः । न च नित्यत्वेन व्योम्नः सर्वकालसम्बधित्वं स्वखरूपत एव न तु द्रव्यत्वरूपतया, एवं च यथा सर्वकालसम्बन्धित्वेऽपि व्योम्नो व्योमखभावत्वं तथाऽऽत्मनोऽपि नित्यत्वेन खस्वरूपत एव सर्वकालसम्बन्धित्वेऽप्यात्मभावः स्यादेवेति वाच्यम् , यतः कालस्यापि सम्बन्धिभेदेन भेदस्यावश्यकतया नित्यस्याप्याकाशादेः खसम्बन्धिष्वेवातीतानागतवर्तमानकालेषु सम्बन्धित्वं तद्भावेनैव चाकाशादित्वं तथात्मनोऽपि खीयातीतानागतवर्तमानकालसम्बन्धित्वेनैव नित्यवत्मात्मत्वञ्चेति द्रव्यत्वरूपतयैव सर्वकालसम्बन्धित्वस्याकाशादावभ्युपगन्तव्यतायामाकाशत्वाद्यभावः स्यादेवेति । सर्वभावेनास्तित्वे जीवस्य मनुष्यभावे वर्तमानस्य नारकादिभावप्रसङ्ग इत्याह-मनुष्यभावे वेति । एवञ्च खद्रव्यादिनैवास्तित्वमभ्युपेयमित्युपसंहरति-अत इति । एवं सति आद्यभङ्गद्वयं निराबाधतयोपतिष्ठत इत्याहततश्चेति। एतदेवोपपादयन्नाह-स्वपरेति, खभावाश्रितं यथाऽस्तित्वं तथा पराभावाश्रितमपीति, तत्र यत्स्वभावाश्रितमस्तित्वं तदुपादानेन स्यादस्तीति, यच्च पराभावाश्रितमस्तित्वं तन्नास्तित्वपर्यवसितमेव तदुपादानेन स्यान्नास्तीति । एतदेव स्पष्टयति-यथैवेति । ननु न खरूपेण नापि पररूपेणास्तित्वमस्तिना प्रतिपाद्यते किन्तु सामान्यत एवास्तित्वमस्तिनोपनेयम्, तत्र वावकाशः स्याद्वादस्येत्यत आह-न च प्रकारान्तरमस्तीति, सामान्यस्य विशेषविनिर्मुक्तस्याभावाद्विशेषस्य चोक्तप्रकारद्वयरूपतयैव व्यवस्थितरित्यभिसन्धिः। अवष्टम्भ एकान्तनिर्भरः । दृढप्रतिबन्धः, दृढनियमः, अवश्यम्भावीति यावत् । एवञ्चैकान्तास्तित्वेन एकान्तनास्तित्वेन चाभ्युपगतमात्मादिवस्त्ववस्त्वेवैकान्तवादिनामित्याह-नास्तित्वेति। अन्वयाप्रतिलम्भात् सर्वथा नास्तित्वे अस्तित्वस्य केनापि रूपेण भावाभावेनान्वयस्य विधिरूपस्यानवाप्तेः, तथा च सर्वशून्यताप्रसङ्गः। सर्वथाऽस्तित्वमपि न कान्तमित्याह-अस्तित्वमपीति। व्यतिरेकाप्रतिलम्भात्, व्यतिरेकस्य केनापि रूपेण नास्तित्वस्याभावात् । नन्वस्तु सर्वथा नास्तित्वमेव सर्वथाऽस्तित्वमेव वा किन्नच्छिन्नमित्यत आह-न च सतेति । तथा चानुभवबाधो व्यवहारबाधश्चात्र, तौ यदि नैकान्तवादिप्रतिकूलौ तदैकान्तकदाग्रहपहिलानां नास्तिकोऽपि प्रामाणिकः प्रतिद्वन्दीति। यद्यनुभवव्यवहारावाश्रयणीयावेव व्यवहारवर्त्तिना परीक्षकेणापि तदा स्याद्वाद एवानुशीलनीय इत्याह-अत इति । एवञ्च नास्तित्वास्तित्वयोरस्तित्वनास्तित्वसापेक्षत्वे

Page Navigation
1 ... 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150