Book Title: Tattvartha Trisutri Prakashika
Author(s): Vijaylavanyasuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
[20]
सप्तभङ्गीप्रथमभङ्गस्य सकलादेशत्वोपपादनम् ।
[ तत्वार्थत्रिसूत्री विकल्पो विवक्ष्यते - स्यादवक्तव्यमिति ३ । एते त्रयः सकलादेशाः । यदा त्वभिन्नमेकं वस्त्वनेकेन गुणरूपेणोच्यते, गुणिनां च गुणरूपमन्तरेण विशेषप्रतिपत्तेरभावादिहात्मादिरेकोऽर्थः सत्त्वादेरेकस्य गुणस्य रूपेणाभेदोपचारतो मतुब्लोपेन वा निरंशः सकलो व्याप्तो वक्तुमिष्यते, विभागनिमित्तस्य प्रतियोगिनो गुणान्तरस्यासत्वादेस्तत्रानाश्रयणात्, तत्र द्रव्यार्थाश्रयं सत्त्वगुणमाश्रित्य तदा स्यात् सन्नि
प्रत्येकं सम्भवात्प्रतिभङ्गस कला देश स्वभावा सप्तभङ्गी, एवमुक्तदिशा विकलादेशस्वभावापि तथैवेति तन्मतव्यपोहायाह-पते त्रयः सकलादेशा इति, अयमाशय - विशिष्टानां समनियतानामखण्डानामैक्येऽपि विशिष्टस्वरूपावभासो. विशेषणविशेयस्वरूपभेदावभासनियत एवाभ्युपगन्तव्य एव, अन्यथा विशिष्टस्य विशेषाभ्यां सर्वथाभिन्नस्यैवाभ्युपगमे सत्त्वविशिष्टस्य सत्त्वस्य नित्यत्वविशिष्टानित्यत्वभेदविशिष्टाभेदादिखरूपतो न भेदेन प्रतिभासः स्यात्, एवं सति सर्वासामपि सप्तभङ्गीनामाद्यभङ्गत्रयवैलक्षण्यकृतभेव वैलक्षण्यं भवेत्, न त्वन्तिमभङ्गचतुष्टय वैलक्षण्यप्रयुक्तमवभासमानं वैलक्षण्यं युज्येत, न च व्यञ्जक वैलक्षण्यकृतमेव वैलक्षण्यमिति वाच्यम्, विशिष्टस्यावैलक्षण्ये व्यञ्जकवैलक्षण्यस्यापि वक्तुमशक्यत्वात् । न चैवं सत्त्वविशिष्ठा सत्त्वादसत्त्वविशिष्टसरवस्यापि भेदप्राप्तौ सप्तभङ्गाधिकभङ्गप्रसङ्ग इति वाच्यम्, सत्त्वविशिष्टासत्त्वादेरसत्त्वविशिष्टसत्त्वादिना तुल्यवित्तिवेद्यत्वस्याभ्युपगमेनैकेनैव भङ्गेन तदुभयावगतौ निष्प्रयोजनतया विशेषणविशेष्यव्यत्यासकृतभङ्गभेदस्योपन्यासानर्हत्वादतो विशिष्ट प्रतिपादकभङ्गचतुष्टये भेदभानमावश्यकमिति नाभेदवृत्त्युपचाराश्रयणसंकथेति न ततोऽखण्डवस्तुप्रतिपादनमिति न तेषां सकलादेशतेति । आद्यानां त्रयाणां भङ्गानां सकलादेशत्वं यदुक्तं तदुपपादनायाह-यदा त्विति । यदेति तदा सन्नित्युच्यते इत्यप्रेसनतदा शब्दसम्बन्धाश्रयणेन, अनेकेन गुणरूपेणाभिन्नमेकं वस्तु यदा द्रव्यार्थाश्रयं सत्त्वगुणमाश्रित्योच्यते, तदा सकलादेशः कथमुच्यते ? इति कथम्भावाकाङ्क्षायामग्रे प्रतिपादितं स्यात्सन्नित्युच्यत इति । अनन्तधर्मात्मकस्य वस्तुनः कथं गुणरूपेणाभिधानं ? तदन्तरेण कथं स्यात्सन्नित्येवंरूपेण सत्त्वात्मक गुणसमाश्रयणतस्तदवबोधकवचन प्रवृत्तिस्तदभावे कस्य सकलादेशत्वामित्याशङ्काशङ्कनिवृत्तये त्वाह-गुणिनां चेति । अनन्तधर्मात्मकं वस्तु तदाऽवगतं भवेद्यदि येन येन गुणेन सह तस्याभेदः प्रत्येकं तत्तगुणात्मकतया तत्प्रतिपत्तिः स्यात्, अन्यथा तद्गुणकोऽयमित्येव न सिद्ध्येत् कुतोऽनन्तगुणात्मकता वान्नाऽयमिति, वस्तुखरूपमात्र प्रतिपत्तिस्त्वविशिष्टा न व्यवहारक्षमेत्याशयः । गुणपदश्च धर्ममात्रोपलक्षणम्, गुणानां परस्पर भेदमन्तरेण कथमनन्तता ?, तथाच सति कथमेकस्य वस्तुनो गुणिनो गुणाभेदः, तमन्तरेण कथं गुणात्मना गुणरूपेण तत्प्रतिपत्तिरित्यपेक्षायामाह - इहेति । अभेदोपचारत इति, वास्तविकैकगुणाभिन्नत्वे तदन्यगुणभिन्नत्वाभावतोऽनन्तधर्मात्मकत्वमेव न स्यादित्येकगुणमयत्वलक्षणतगुणाभिन्नत्वस्योपचार एवेत्यभिसन्धिः । एवमपि गुणगुणिभावो न प्रतीयेत, तस्य भेदप्रतिपत्त्यधीनत्वादतः पक्षान्तरमाह - मतुब्लोपेन वेति, तथा च गुणवाचकशब्दान्मतुपो लुग्विधानेन तस्य गुणवाचकशब्दस्य गुणिपरतया गुणविशिष्टत्वेन वस्तुनः प्रतीतिरुपपद्यते । निरंशः, अखण्डः, एतेन एकदेशे तस्यैकस्य गुणस्य सद्भावोऽपरदेशे तदन्यगुणस्य सद्भाव इत्येवं भागवृत्तयो न तत्र गुणाः किन्तु सम्पूर्ण एव वस्तुनि सर्व एव गुणा इत्येकगुणरूपेण न वस्तुभागप्रतिपत्तिः किन्त्वखण्डैकवस्तुप्रतिपत्तिरेवेति सूचितम् । सूचितमेव स्पष्टीकृतम्-सकल इत्यनेन, सकलशब्दश्चात्र सम्पूर्णार्थको न तु यावदर्थकः, एकस्याखण्डस्य यावत्त्वाभावात् । अनन्तधर्मात्मकस्य वस्तुन एकेन गुणरूपेण व्यापनं संपूर्ण स्वरूपास्कन्दनं न वस्तुतः सम्भवति तथा सति तदेकगुणमयत्वे गुणान्तरव्याप्तिस्तत्र न स्यात् गुणत्वसाम्याद्गुणान्तरव्यात्यभाववत्तद्गुणव्याप्तिरप्यचतुरखा स्यादत आह-व्याप्तो वक्तुमिष्यत इति, निरंशे वस्तुनि सर्वेऽपि गुणाः स्वस्वनिमित्तापेक्षया व्याप्त्यैव वर्त्तन्ते न तु भागेन 'तदभावात्, तथाप्येकस्यैव गुणस्य व्याप्तिस्तत्र विवक्षिता, अन्यगुणव्याप्तेस्तत्र सत्त्वेऽपि न विवक्षा, अत एकगुणरूपेण वस्तुप्रतिपत्तिर्घटत इति । एतदेव स्पष्टयति-विभागनिमित्तस्येति, यद्यपि वस्तुनो भागाभावात् कुतो विभागः ? कुतस्तरां तद्विभागनिमित्तं किश्चित्, तथापि -
"भागे सिंहो नरो भागे योंऽशो भागद्वयात्मकः । तमभागं विभागेन नरसिंहं प्रचक्षते ॥ १ ॥” इति
न्यायेन बौद्धभागकल्पनारूपो विभाग आरोपितोऽस्त्येव ततस्तन्निमित्तं गुणान्तरमप्यस्त्येव तश्च न विवक्ष्यतेऽत एकेन गुणरूपेण व्याप्तोऽखण्डं वस्तु वक्तुमिष्टं भवतीति । एवं सति प्रथमभङ्गः सकला देशः सम्पद्यते सत्त्वगुणसमाश्रयणादित्याह तत्रेति । सप्तभक्त्या नयद्वयसमाश्रयणेन प्रवृत्तिरिति प्रथमभङ्गः कं नयमाश्रित्य प्रवर्त्तत इत्यपेक्षयामाह-द्रव्यार्थाश्रयमिति द्रव्यार्थिकनयविषयमित्यर्थः । प्रथमभङ्गविषयस्य सत्त्वस्य द्रव्यार्थिकमयविषयत्वे तद्विषयकस्य भङ्गस्य द्रव्यार्थिकनथापेक्ष्यस्वं प्राप्तमेवेति ।

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150