Book Title: Tattvartha Trisutri Prakashika
Author(s): Vijaylavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 124
________________ भाष्यटीकाविवृतियुता] प्रथमभङ्गे स्यात्काराभावेऽवधारणमनिष्टकृतिफलश्च । [८३] प्रसजति, प्रतिषेधनिरपेक्षत्वादस्तित्वेन स्ववशे व्यवस्थापितत्वादस्तित्वाभावे वात्माभावात् , नास्तित्वस्यापि स्वविषयेऽषधृतत्वात् सति घटे तदप्रसङ्गात् , एकाधिकरणयोश्च सदसतोर्विरोधात् परस्परविषयानाक्रान्तिः, अतः समस्तवस्तुरूपेणास्त्यात्मा नास्तित्वनिरवकाशास्तिशब्दवाच्यत्वादस्तित्वे स्वात्मवत्, अस्तित्वसामान्येन व्याप्तो न त्वस्तिविशेषैः पटादिभिरिति चेत्, यथाऽनित्यमेव कृतकमनित्याभावे तदभावात् , साध्यधर्मसामान्येनेति वचनाद् अनित्यत्वसामान्यमनित्यव्यक्तिश्चेति द्विरूपः साध्यधर्मः, साधनधर्मोऽपि हि द्विप्रकारः, तत्तुल्योऽपि हितानामे(? हेतूनामि)त्यादिवचनात् , तथास्वं[ङ्ग] येन रूपेणेत्याद्यभिधानात् सामान्यानित्यतया व्याप्तिर्न विशेषानित्यतया, हन्त भवतैव तर्हि प्रतिपन्नः साध्यधर्मभेदस्तथा चावधारणवैयर्थ्यम् , अनित्यत्वे हि सर्वप्रकारे सत्यवधारणसाफल्यं स्यात् , यदा तु विशेषानित्यतया न भवत्यनित्यं वस्तु तदा व्यर्थमवधारणम् । स्वगतेनापि विशेषेणानित्यं भवत्येवेति त्यर्थः। सर्वथेति,अस्त्येव घट इति प्रथमविकल्पे सर्वथाऽस्तित्वप्रसङ्गः, नास्त्येव घट इति द्वितीयविकल्पे सर्वथा नास्तित्वप्रसङ्ग इत्यर्थः। अस्त्येवात्मेति इति प्रथमविकल्पे सर्वथाऽस्तित्वप्रसङ्गोपपादेन द्वितीयविकल्पे सर्वथा नास्तित्वप्रसङ्ग उपपादित एव भवतीत्याशयेनाह-प्रथमविकल्प इति । प्रतिषेधेति, नास्तित्वेत्यर्थः । नास्तित्वस्यात्मन्यभावे सति यद्यस्तित्वमात्मनो न स्यान्न स्यादेवात्मा तस्य रूपान्तराभावादित्याह-अस्तित्वाभाव इति । सर्वप्रकारेणाऽस्तित्वे येन येन रूपेण नास्तित्वं तेन तेन रूपेणाप्यस्तित्वस्यैव भावे नास्तित्वमप्यस्तित्वखरूपप्रविष्टमेवेति तद्विशिष्टतायामपि सत्त्वमेवागतमिति, तथा सतश्च नासत्त्वमित्याहनास्तित्वस्यापीति । स्वविषये अस्तित्वगोचरे । तदप्रसङ्गात्, नास्तित्वाप्रसङ्गात्, नहि अवच्छेदकमन्तरेणावच्छेद्यस्यावस्थितिः, अवच्छेदकञ्च सर्व नास्तित्वस्यास्तित्वस्यैव जातमिति निमित्तस्यावच्छेदकस्याभावादेव नावच्छेद्यध्यवस्थितिरित्याशयः। ननु यद्यदस्तित्वस्यावच्छेदकं तत्तन्नास्तित्वस्याप्यवच्छेदकमिति येन येन रूपेणास्तित्वं तेन तेन रूपेण नास्तित्वमपीति न नास्तित्वस्यानवकाश इत्यत आह-एकाधिकरणयोश्चेति, एकावच्छेदेनैकाधिकरणयोश्चेत्यर्थः । सदसतोरिति, भाव. प्रधाननिर्देशात्सत्त्वासत्त्वयोरित्यर्थः। विरोधादिति, एकावच्छेदेनैकाधिकरणवृत्तित्वाभावादित्यर्थः। परस्परविषयानाक्रान्तिरिति, यदवच्छेदेन यत्र सत्त्वं तदवच्छेदेन तत्र नासत्त्वम् , यदवच्छेदेन यत्रासत्त्वं तदवच्छेदेन तत्र न सत्त्वमिति नियम इत्यर्थः । एवं स्थितौ परवाक्यस्य परम्प्रति खतः प्रामाण्याभावात्परार्थानुमानविधयैव प्रामाण्यमिति तथैव प्रयोगमुपदर्शयति-अत इति। ननु नास्तित्वनिरवकाशास्तिशब्दवाच्यत्वस्यास्तित्वसामान्येनैवाविनाभावो न तु पटत्वादिनाऽस्तिस्वरूपास्तित्वविशेषैरिति ततोऽस्तित्वसामान्यमेव सिद्ध्येन्न तु समस्तरूपेणास्तित्वमिति परश्शङ्कते-अस्तित्वसामान्येनेति । उक्तशङ्काग्रन्थश्चायं संक्षिप्तरूपोऽतस्तमेव प्रपञ्चयति-यथेत्यादिना, कृतकत्वमनित्यत्वसामान्येन व्याप्तमनित्यत्वसामान्यमेव गमयति, तथा प्रकृतेऽपीति । कृतकत्वस्यानित्यत्वसामान्यव्याप्तेरुपदर्शनायाह-अनित्याभाव इति, अनित्यत्वाभाव इत्यर्थः । तदभावात् कृतकत्वाभावात् , न त्वनित्यत्वविशेषेण व्याप्तिस्तस्य, अनित्यत्वविशेषस्य घटादिगतस्य पटादावभावेऽपि कृतकस्वस्य तत्र सद्भावात् । अस्य प्राचीनसम्मतत्वोपदर्शनायाह-साध्यधर्मेति । साध्यधर्मो द्विरूप इति सामान्यपदोपादानं सफलमित्युपदेशनायाह-अनित्यत्वेति । सामान्यस्य सामान्येन व्याप्तिनं तु विशेषस्येत्यतो हेतोरपि द्वैरूप्यं वाच्यमित्यत आह-साधनधर्मोऽपीति । अत्रापि प्राचीनसम्मतिमुपदर्शयति-तत्तुल्योऽपीति, अत्र वचनखरूपावबोधकः पाठो मुद्रणादिदोषकवलित इवाभाति । एवञ्च यत्सिद्धं तदाह-सामान्यानित्यतयेति । अनित्यमेव कृतकमित्यत्रैवकारेण न नित्यत्वस्य व्यवच्छेदः, नित्यत्वव्यवच्छेदस्यानित्यत्वरूपतया तस्यानित्यमित्यनेनैवावगतत्वात् , नाप्येकानित्यत्वविशेषप्रतिपादकानित्यपदोत्तरत्वेनैवकारस्यान्यानित्यत्वविशेषव्यवच्छेदकत्वम् , अत्रानित्यपदस्य कृतकत्वव्यापकानित्यत्वसामान्यधर्मपरत्वेनैव भवतोररीकारादिति व्यवच्छेद्याभावादवधारणमनर्थकमापाद्यतेति समाधत्ते-हन्त भवतैवेति । अनित्यपदेन सर्वप्रकारानित्यत्वस्याभिधाने सति यत्प्रकारानित्यत्वं साधयितुमिष्टं तदन्यप्रकारानित्यत्वं मा सैत्सीदिति तदपोहायावधारणार्थक एवकारः साफल्यं गच्छेदपीत्याहअनित्यत्वे हीति । तर्हि कुत्रावधारणं विफलमित्यपेक्षायामाह-यदा विति। ननु अनित्यत्वसामान्येनैव वस्तुनोः अनित्यत्वविशेषेण तदनित्यं न भवत्येवेत्यसम्भवादेव तदप्राप्तौ तदपोहनमपार्थकं भवेत् , परं नैवमभ्युपगमः, किन्तु यथाऽनित्यत्वसामान्येनानित्यं वस्तु तथा खगतानित्यत्वविशेषेणाऽप्यनित्यमिति परगतानित्यत्वविशेषव्यपोहायावधारणं सफलमेवेति शङ्कते-खगतेनापीति । एवमप्यवधारणं व्यथम्, अनित्यमित्यनेन खगतानित्यत्वविशेषेणानित्यमित्युक्तौ खगतेस

Loading...

Page Navigation
1 ... 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150