Book Title: Tattvartha Trisutri Prakashika
Author(s): Vijaylavanyasuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
'भायीका विवृतियुता ] तत्तन्नये दोषावतारे तन्निकरेऽपि तथात्वमित्याशङ्क्योद्धार पद्धतिः । [२७]
सद्विषयत्वमसद्व्यवहारप्रतिबन्धिता चेति नानुपाख्योऽसच्छब्दवाच्यः शब्दव्यवहारायोग्यत्वात् ॥ ननु च द्रव्यपर्यायनयौ स्वतन्त्रत्वाद् द्वावपि विजिगीषू स्वविषथोपमर्द परस्परं न सहेते, ततश्च पुनरपि सीमन्तितमेव वस्तु न वस्तुतायामवतिष्ठेतेति । उच्यते-पर्यायनयस्य तावदुत्पादव्ययलक्षणस्य स्वातश्वयं नास्ति द्रव्यास्तिकेनाङ्कुशितत्वात् । नह्युत्पादो नाम कश्चिद् धर्मोऽस्त्यभूतभवनात्मकः, स चोत्पादो द्विधा कल्प्येत - प्रायोगिको वैस्रसिकश्च प्रायोगिक : पुरुषकारनिर्वर्त्यः, सोऽपि द्विधा - अनभिसन्धिकृतोऽभिसन्धिकृतश्च, तत्राद्यः काय वाक्स्वान्तभेदेन पञ्चदशप्रकारः, ते च कायादयः समुदायात्मकाः, समुदायश्चासन् सार्थरथचक्रादिवत्, स्वाङ्गसमुदायमात्रत्वान्न सार्थो नाम कश्चित् परमार्थतोऽस्ति, रथो वा पुरुषकूवरादिव्यतिरिक्तः, स चाभावत्वात् सार्थरथादिः कथमुत्पद्येत ? एवं कायादयोऽपि त्पादध्रौव्ययुग्मस्योत्पादनिरपेक्षस्य विनाशघ्रौव्ययुग्मस्य चाभावादित्यर्थः । असद्विषयत्वमसदित्याकार कव्यवहारविषयत्वम् । असद्व्यवहारबन्धिता चेति, असदित्याकार को यो व्यवहारो विषयतया तेन सह तादात्म्येन यः प्रतिबन्धो व्याप्तिस्तद्वत्त्वमित्यर्थः, तेषां च समुदायप्रविष्टतया वस्त्वंशानामेव तदप्रविष्टभावविवक्षयाऽसत्त्वमसद्व्यवहारविषयत्वासद्व्यवहार प्रतिबन्धित्वादिरूपं, न तु निरूपाख्योऽसदित्यनेनाभिमत इत्याह- नानुपाख्योऽसच्छब्दवाच्य इति । अत्र हेतुः शब्दव्यवहारायोग्यत्वादिति, गामानय गां नय गां पश्य गां दोग्धि पय इत्यादिशब्दव्यवहारयोग्य एव गवादिर्गवादिशब्दवाच्यो भवति, शशश्शृङ्गादिस्तु सर्वक्रियाकर्मत्व कर्तृत्वादिविकलो न कस्यापि शब्दव्यवहारस्य योग्य इति न तस्य कस्यापि शब्दस्य वाच्यतेत्यसच्छब्दवाच्यताऽपि तस्य कथं स्यादत उत्पादादीनामेवैकैकशोऽसत्त्वमत्र सम्मतं न तु शशशृङ्गा देरित्याशयः । इत्थन्तु न व्याख्येयं शशशृङ्गकल्पस्येतर निरपेक्षस्योत्पादादेश्शब्दव्यवहारायोग्यत्वादस च्छन्दवाच्यत्वासम्भवेनासदित्यस्यासच्छब्दवाच्य इति नार्थः किन्तु असदितिप्रतीति विषयोऽसदिति व्यवहार प्रतिबन्धी वार्थ इति, यतो घट उत्पद्यते घटो विनश्यति मृद्रव्यं ध्रुवमित्यादिशब्दव्यवहारस्याबालगोपालं तत्र भावात्, यदि चोत्पद्यत इत्यादिव्यवहारा न धौव्यादिनिरपेक्षोत्पादादि विषयाः किन्तु तत्सापेक्षोत्पादादिविषया एवेति भवति प्रामाणिकानाम्मतिः, तदा तथा व्याख्यानमपि युक्तमेव, इदन्तु तत्र चिन्त्यं यथाऽलीकस्य शब्दव्यवहारायोग्यत्वेन न शब्दवाच्यत्वाभावान्नासच्छब्दवाच्यत्वं तथाऽसदिति विकल्पविषयत्वा सदिति व्यवहारप्रतिबन्धित्वे अपि कथं सर्वव्यवहारायोग्यत्वादिति । ननु स्याद्वादो द्रव्यपर्यायनयद्वयावलम्ब्यपि न परस्परसापेक्षोत्पादादिश्रयात्मकवस्तुव्यवस्थापनकुशलः, यतो द्रव्यनय स्योत्पादव्ययवियुतं धौव्यमेव स्वतन्त्रं विषयः, पर्यायनयस्यापि धौव्यवियुतौ स्वतन्त्रायुत्पादव्ययावेव विषयाविति नयद्वयावलम्बनेऽपि स्वतन्त्राणामेवोत्पादव्ययध्रौव्याणामवगतिः, तादृशाश्च ते समुदिता अप्सन्त एव न हि गगनकुसुमवन्ध्या पुत्र कूर्मरोमशशशृङ्गादिसमुदायः सन्निति व्यवहारपथमृच्छतीति न स्याद्वादेऽपि वस्तुव्यवस्था सूपपादेति परः प्रश्नयति- नन्वित्यादिना । स्वतन्त्रत्वात्, अन्योन्यापेक्षा रहितत्वात् । विजिगीषू परस्परखण्डनपरौ । अत एव स्वविषयोपमदं परस्परं न सहेते, द्रव्ये कथंचिदर्थघटने पर्यायप्रवेश एवेति द्रव्यनयस्यैकान्तिकद्रव्यरूपविषयस्य बाधरूपः खविषयोपमर्दः, एवमुत्पादव्यययोः कथञ्चिदर्थसमन्वये भौन्यप्रवेश एवेति पर्यायनयस्यैकान्तिकपर्यायरूपविषयस्य बाधरूपः स्वविषयोपमर्दः, तं न सहेते, तत्सहने परस्परखण्डन परत्वलक्षणस्खा साधारणरूपस्य प्रच्युतिरेव स्यादिति । एवञ्च सति यत्प्रश्रयितुरभिप्रेतं तदाह- ततश्चेति, परस्परविषयोपमर्दाभावानुरोधेन सम्मिलनदशायामपि पर्यायस्योत्पादव्ययावेव द्रव्यस्य ध्रौव्यमेव विषयभावमाभेजानमिति नैकान्तत्वापगम इति तादृशस्य वस्तुनो वस्तुतो वस्त्वाभास - तैव सर्वोपाख्यारहितत्वादिति न वस्तुताव्यवस्थितिरिति । स्वातन्त्र्यं यदि नयस्य स्वरूपं स्यात्तदा स्यादयमुभयनय नयनोन्मील• नेऽपि वस्तुत्वाव्यबस्थानदोषः, तदेव तु नास्तीत्याशयेन समाधत्ते - उच्यत इति । स्वातन्यम्, एकान्तिकत्वम् । अङ्कशितत्वादिति, द्रव्यास्तिकेन सर्वथोत्पादस्य सर्वथा व्ययस्य चासम्भवोद्भावनमेव तत्राङ्कुशः । अस्यैव भावनामाह-न ह्युत्पादो नामेति । अभूतभवनात्मकः पूर्वं सर्वथाऽसत उत्तरकाले कारणव्यापारे सति भवनलक्षणः । कथं नेदृशस्यो - त्पादस्य सम्भव इत्यपेक्षायामाह - स चोत्पादो द्विधा कल्प्येतेति । पुरुषकारनिर्वर्त्यः, पुरुषप्रयत्नसाध्यः । सोऽपि पुरुषकारनिर्वत्त्योऽपि । अनभिसन्धिकृत इति, अभिसन्धिः प्रकर्षेणेक्षणादिः, इदम्मदिष्टसाधनं मत्कृतिसाध्य मित्यादि - ज्ञानजन्यचिकीषादिरूप इति यावत्, तदन्योऽनभिसन्धिस्तत्कृत इत्यर्थः । सार्थो जनसमुदायः । कायादीनामुत्पत्तौ यद्यप्यस्ति प्रयत्नो बिमित्तं तथापि तस्य नेष्टसाधनतादिज्ञानजन्यचिकीर्षाप्रभवत्वमिति भवत्यनभिसन्धिकृतत्वमिति । तत्रापि पुद्गलस

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150