Book Title: Tattvartha Trisutri Prakashika
Author(s): Vijaylavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 98
________________ भाष्यटीकाविवृतियुता] बौद्धोपदर्शितविरोधनिरसने पर्यायभेदानामुपवर्णनम् । [५७] नत्वात् सामान्यलक्षणस्य, परिकल्पितयोश्च खरतुरगविषाणयोर्विरोध इत्यद्भुतमपश्यद् भिक्षुवरः, तस्मात् स्वलक्षणविषय एव विरोधोऽस्तु, तत्रापि न स्खलक्षणमित्येव विरोधः, किन्तु द्रव्याणां द्विविधाः पर्यायाः--क्रमभुवः सहभुवश्च, युगपदवस्थायिनोऽयुगपदवस्थायिनश्च, सूक्ष्माः स्थूलाश्च, साध्याः साधनानि च, व्यापृताश्चाव्यापृताश्च, यथा घटे सद्रव्यमूर्ताचेतनरूपरसगन्धस्पर्शसङ्ख्यासंस्थानादयः सहभुवो युगपदवस्थायिनः, स्थूलाः सूक्ष्माश्च, साधनानि साध्यानि च, कार्यवशाद् व्यापृताश्चोदकाद्याहरणादिषु; मृत्पिण्ड-शिवक-स्थासक-कोशक-कुशूल-घट-कपाल-शकल-शर्करा-पांशु-त्रुटि-परमाणवः क्रमभुवः, नहि मृदादिसामान्यव्यतिरेकेण पिण्डादिधर्मा भवितुमुत्सहन्ते, न ह्यङ्गुलिभेदेनर्जुकुटिलतयोः सम्भवः, सैव हि साङ्गुलिः स्वाँस्तु धर्मान् पारम्पर्यमात्रप्रतिलब्धवृत्ती क्रमेणोन्नमयति, मयूराण्डकरसवदुपारूढखरूपाख्येति वचनात् , एत एवासहावस्थायिनः सूक्ष्माः स्थूलाश्चापेक्षया नित्यानित्यादयः साध्याः साधनानि चाव्यापृता उदकाद्याहरणादिषुः तेषां को नामायं विरोधः ? । ननु सहानवस्थानम् , तन्न, स्यात्तदा तदाधारतया कल्पितं नित्यत्वं सामान्यलक्षणं भवेत् , न च बौद्धमते किश्चिन्नित्यमतो नित्यत्वं सामान्यलक्षणमपि न भवत्येवातस्तृतीयप्रकारोऽपि विरोधस्य न तत्र घटामाटीकत इत्याह-वलक्षणोपादानत्वादिति, खलक्षणाश्रितत्वादित्यर्थः। यदि च खलक्षणानाश्रितत्वेन नित्यत्वमनित्यत्वञ्चासामान्यलक्षणमपि परिकल्पितमिति परिकल्पितयोविरोध इति लक्षणाक्रान्तमेवेत्यभ्युपगम्यते तदापि तयोर्विरोधो न घटत एव, परिकल्पिताशेषोपाख्याविकलतया विरोधाविरोधादिधर्मानास्पदत्वाद्, अन्यथा खरतुरगविषाणयोरपि विरोधस्स्यादित्याह-परिकल्पितयोश्चेति । सामान्यस्य खलक्षणोपादानत्वे खलक्षणत्वमेवाऽन्यथा तु परिकल्पितत्वमेवोभयथाऽपि न सामान्यलक्षणत्वमिति सामान्यलक्षणयोर्विरोध इति नास्त्येव भिदा किन्तु स्खलक्षणयोर्विरोध इत्येक एव भेदो विरोधस्येति विषयभेदाभावाद्विरोधद्वैविध्यमसङ्गतमेवेत्याह-तस्मादिति । अस्तु खलक्षणयोर्विरोध इत्येक एव प्रकारस्तमाश्रित्यैव नित्यानित्ययोर्विरोधः सङ्गमनीय इत्यत आह-तत्रापीति, विरोधस्य खलक्षणमात्रविषयत्वेऽपीत्यर्थः । न स्वलक्षणमित्येव विरोध इति, इदमपि खलक्षणमिदश्च स्खलक्षणमित्येतावन्मानं न विरोधः, अविरुद्धोभयस्वभावस्यैकस्य खलक्षणस्य सम्भवात् । तर्हि खलक्षणयोर्विरोध इति कोऽर्थ इति पृच्छति-किन्विति। द्रव्याणां ये पर्यायाः खलक्षणभूतास्तेषां विभिन्नखभावानां विरोधः स्यात् , सोऽपि विरोधः परेण निरुच्य योजयितुमशक्य इत्याशयेनोत्तरयति-द्रव्याणामित्यादिना। के सहभुवः के वा क्रमभुवः पर्याया इत्याद्यपेक्षायां युगपदवस्थायिनः सहभुवः, अयुगपदवस्थायिनः क्रमभुव इति योज्यम् । स्थूलाः सूक्ष्माश्चेत्यादयः सहभुवां क्रमभुवां चान्वेतुमर्हन्ति, एतदुदाहरणेन स्पष्टयति-यथेत्यादिना । कार्यवशाट्याप्रताश्वोदकाद्याहरणादिष्वित्यन्तमेको ग्रन्थः, उदकाहरणादिषु व्यापारश्च सद्रव्यादीनां घटपर्यायाभेदभावेनेति बोध्यम् । मृत्पिण्डेत्यादि अव्यापृता उदकाद्याहरणादिष्वित्यन्तमेको ग्रन्थः, अत्र पर्यायाणां भेदविवक्षयाऽव्यापृतत्वमुक्तम् । द्रव्येण सहावस्थानादभिन्नतयोपलब्धेश्च सहभुवां द्रव्यपर्यायत्वमनुभवारूढत्वाच्छ्रद्धेयं भवतु क्रमभुवां तु तत्त्वं कथं श्रद्धेयमित्यत आह-नहीति । यदि पिण्डशिवकादयो मृदमन्तरेणानुभवपथमवतरेयुस्तर्हि तेषां मृद्भिन्नत्वेन मृत्पर्यायत्वं न स्यात् , न चैवमतो मृत्पर्याया एव ते, मृद एव तेन तेन रूपेण परिणमनादित्याह-नहि मृदादीति, आदिपदात्सद्रव्यमूर्तादिसामान्यानामुपग्रहः । उक्तमर्थमेव दृष्टान्तद्वारा भावयति-नह्यङ्गलिभेदेनेति । सैव हि साङ्गुलिरिति, सैव ह्यङ्गुलिरित्येव पाठो युक्तः । धर्मान् ऋजुत्वकुटिलत्वादीन् । क्रमेणोन्नमयति क्रमेणाविर्भावयति, ताँस्तान् धर्मान् क्रमेण प्रतिपद्यत इति यावत् । न चैतदनागमिकमित्याह-मयूराण्डकेति, मयूराण्डकरसे यथा मयूराकृतिविचित्ररूपसचन्द्रकपक्षादिवरूपनिमग्नमेव क्रमेणाविर्भवति तथेत्यर्थः । उपारूढस्वरूपाख्येति, प्रथमत एव उपारूढमन्तर्विवर्त्तमानं खरूपं सन्निवेशविशेषादिस्तदाख्या नाम चेत्यर्थः। एते एव मृत्पिण्डशिवकस्थासकादय एव, तेषां पर्यायाणां येऽनुवर्त्तन्ते तद्रूपेण नित्याः, ये चान्येऽन्ये च भवन्ति व्यावर्त्तन्त इति यावत् तद्रूपेणानित्या इत्याह-अपेक्षयेति । नित्यानित्यादय इति, आदिपदात्सदसद्भिन्नाभिन्नादीनामुपग्रहः । तेषां च पर्यायाणामेकस्मिन् द्रव्ये सम्भवान्नास्ति विरोध इत्याह-तेषां को नामाऽयं विरोध इति । पर आह-नन्विति । प्रतिक्षिपति-तन्नेति । त.नि. ८

Loading...

Page Navigation
1 ... 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150