Book Title: Tattvartha Trisutri Prakashika
Author(s): Vijaylavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 115
________________ [४] शुद्धे द्रव्यास्तिकमते एक द्रव्यम् , अशुद्धे तु द्रव्ये द्रव्याणि वा । [तत्त्वार्थत्रिसूत्री तु वृत्तयस्तास्तस्य भिद्यन्ते, पितृपुत्रमातुलत्याद्यनेकसम्बन्धिसम्बन्धविशिष्टपुरुषवत् , अभिन्नस्यैकस्य जिनदत्तादेर्जन्यजनकाद्यनेकसम्बन्धापेक्षाः पित्रादिव्यपदेशाः प्रवर्तन्ते, न तु तस्मात् पुरुषवस्तुनोऽर्थान्तरभूतं पितृत्वं नामार्थो जात्यन्तरमस्ति पुरुषवृत्तिमात्रत्वात् , तथा द्रव्यमपि चक्षुर्ग्रहणादिविषयभूयमासादयद् रूपादिव्यपदेशमनेकमासादयति, अतोऽनर्थान्तरं रूपरसादयो द्रव्यादिति, कर्मापि विस्रसाप्रयोगसापेक्षो द्रव्यपरिणामस्तद्भावलक्षणो द्रव्यादव्यतिरिच्यमानो द्रव्यमेव, सामान्यविशेषयोरपि तदअहे तद्बुद्ध्यभावात् द्रव्यमात्रतैवेति, एवमेकमेव द्रव्यं शुद्धप्रकृतेर्द्रध्यार्थस्य । अविशुद्धद्रव्यार्थभेदनगमस्त्वभिन्नद्रव्येण व्यवहाराभावाद् भेदनिबन्धनद्वित्वादिसङ्ख्याव्यवहारः सकललोकयात्राक्षमः सिद्ध्यतीति द्रव्ये वा द्रव्याणि वेत्याह, अन्यथैकसङ्ख्याऽपि न स्याद्, व्यवहारस्य वा शतभेदत्वात् कश्चिदंशः प्रतिपन्नदेशकालसङ्ख्याभेदः प्रतिमन्यते-द्रव्ये वा द्रव्याणि वेति विकल्पसम्भवः, सच्च त्रिविधमुत्पादादि, तच्च द्रव्येणार्ण्यमाणमङ्गीकृतसङ्ख्याभेदमेवात्मलाभं प्रतिपद्यते-द्रव्य तस्य द्रव्यस्य । एकस्यैवापेक्षाभेदतोऽनेकरूपेण व्यवहरणमित्यत्रानुरूपं दृष्टान्तमाह-पितृपुत्रेति । दृष्टान्तमेवोपपादयतिअभिन्नस्यैकस्येति । जन्यजनकादीति, भावप्रधाननिर्देशाजन्यत्वजनकत्वादीत्यर्थः, आदिपदाजननीमातृजन्यत्वभगिनीजन्यत्वादेः परम्परासंबन्धस्य ग्रहः । पुरुषवस्तुनो जिनदत्तादेः । पितृत्वमित्युपलक्षणं पुत्रत्वमातुलत्वादीनामपि । पितृत्वादिकं कुतो न जात्यन्तरमित्यपेक्षायामाह-पुरुषवृत्तिमात्रत्वादिति । दृष्टान्तोपदिष्टन्यायं दार्टान्तिके योजयतितथेति । विषयभूयं विषयत्वम् । कर्मणो द्रव्यादव्यतिरिक्तत्वमुपपादयति-कर्मापीति । तद्भावलक्षणः, द्रव्यस्य तद्रूपेण परिणमनस्वभावः । सामान्यविशेषयोरपि द्रव्याव्यतिरिक्तत्वमावेदयति-सामान्यविशेषयोरपीति । तदग्रहे द्रव्याग्रहे । तद्बद्ध्यभावादनुगतव्यावृत्तबुद्ध्यभावात् , अनुगतव्यावृत्तखभावतया द्रव्यमेव सामान्यविशेषगोचरबुद्धिविषय इति तद्भिन्ने तद्विषयत्वे मानाभाव इति हृदयम् । समवायश्च सम्बन्धो नाविष्वग्भावलक्षणसम्बन्धिखरूपान्यतिरिच्यत इति गुणकर्मसामान्यविशेषाणां तत्सम्बन्धिनां द्रव्याव्यतिरिक्तत्वे तस्यापि तदव्यतिरिक्तत्वमर्थात्प्राप्तमेवेति न पृथगुक्तिः । संग्रहनयाभिप्रायेण द्रव्यमित्यैकवचनान्तमुक्तमिति । तन्निगमयति-एवमेकमेवेति । शुद्धप्रकृतेः पर्यायामिश्रितद्रव्याभ्युपगन्तुः । द्रव्यार्थस्य सङ्ग्रहनयस्य । इदानीं द्रव्ये वा द्रव्याणि वेति अर्थपदयोरुपपादको नैगमनय इत्यावेदयन्तौ प्ररूपयति-अविशुद्धति, अवान्तरसामान्याभ्युपगन्तृत्वेनाविशुद्धत्वं बोध्यम् । द्रव्यार्थभेदः, द्रव्यार्थिकनयविशेषः। नैगमस्त्विति. अस्येत्याहेत्यनेन सम्बन्धः। अभिन्नद्रव्येण महासामान्यसत्तामात्रेण । व्यवहाराभावात, प्रवृत्तिनिवृत्त्यादिलक्षणव्यवहृतेरभावात् , एकस्यैवेष्टत्वानिष्टत्वादितत्साधनत्वादिरूपेण ग्रहणासंभवे तन्निबन्धनप्रवृत्त्यादेरप्यसम्भवादित्याशयः । भेदनिबन्धनेत्यादि निगदार्थम् । अन्यथा द्वित्वादिसङ्ख्यानभ्युपगमे सर्वस्यैव वस्तुनः प्रत्येकमेकत्वात्तादृशैकत्वमव्यावसकत्वान्न विशेषणभावमञ्चतीति सजातीयद्वितीयराहित्यलक्षणमेव तद्विशेषणतयोपादेयमिति एकत्वाभ्युपगमनान्तरीयक एवे. त्याशयेनाह-एकत्वसङ्ग्यापि न स्यादिति । अथवा एकत्वमिति कस्यापि विशेषणमेवातस्तद्व्यतिरिक्तं विशेष्यमावश्यकम् , विशेष्यस्वरूपत्वे च द्रव्यं द्रव्यमिति एकं द्रव्यमित्यपि न स्यात् , विशेषणत्वाम्यथामुपपत्त्या च व्यवच्छेद्यमपि किञ्चित्तृतीयमभ्युपेयमित्यभिप्रायकमिदमिति बोध्यम् । यदि च नैगमनयः सङ्ग्रहव्यवहाराभ्यामतिरिक्तो नास्त्येष, यतस्तस्य यः सामान्याभ्युपगमांशः स सङ्ग्रह एव, यश्च विशेषाभ्युपगमांशः स व्यवहार एव, ताभ्यां व्यतिरिक्तस्य कस्यचित्प्रकारस्याभावात् , विविक्तविषयाभावे विषयिणोऽपि विविक्तस्याभावादिति विभाव्यते तदा शुद्धप्रकृतिकद्रव्यार्थिकस्य सङ्ग्रहस्य द्रव्यमित्यर्थपदे निर्धारितेऽशुद्धप्रकृतिकद्रव्यार्थिकस्यैव व्यवहारस्य कश्चिदंशस्तादृशोऽस्ति यो मातृकापदास्तिकव्यतिरिक्तो द्रव्ये वा द्रव्याणि वेत्यभ्युपगच्छति किन्नो विशेषगवेषणयेत्याशयेनाह-व्यवहारस्य वेति, कश्चिदंश इत्यनेनान्वयः । एकस्य तस्य मातृकापदास्तिकतयैव निर्णीतत्वात्कथमेवमित्यत आह-शतमेदत्वादिति, बहुविधत्वादित्यर्थः । विशेषतो विशेषस्योपदर्शयितुमशक्यत्वादुक्तम्-कश्चिदिति, य एव नैगम इति अतिरिक्तनैगमनयाभ्युगन्त्रेष्यते स एव तथाविधो व्यवहारांशोऽस्त्वित्यभिसन्धिः । न खलु स सर्वथा दुर्निरूपणवादश्रद्धेय इति विषयतस्तमवधारयति-प्रतिपन्नेति। द्रव्ये या द्रव्याणि वेतीति देहलीदीपन्यायेन प्रतिमन्यते इति पूर्वेणाऽप्यन्वेति विकल्पसम्भव इत्यनेनापि । भाष्यस्थसदित्यनेन किं ग्राह्यमित्यपेक्षा

Loading...

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150