Book Title: Tattvartha Trisutri Prakashika
Author(s): Vijaylavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 114
________________ भाष्यटीकाविवृतियुता] द्रव्यास्तिकस्य व्याख्यानप्रयोजनानि, द्रव्यातिरिक्तवस्त्वभावश्च । [३] र्वचनचतुष्टयोपात्तयोः परस्परापेक्षयोरर्पणानर्पणविशेषतः सम्भवद्भिर्विकल्पैर्भाष्यकृत् स्वयमेव -सन्नित्यादिभेदभावनां करोति [भाष्यम्-] एषामर्थपदानि द्रव्यं वा द्रव्ये वा द्रव्याणि वा सत् । असन्नाम नास्त्येव द्रव्यास्तिकस्य । एषामर्थपदानीत्यादि, .. एषां-द्रव्यपर्यायनयभेदानां द्रव्यास्तिकादीनां चतुर्णाम् अर्थानि पदानि अर्थपदानि-द्रव्यं वा द्रव्ये वा इत्यादीनि, द्रव्यास्तिकादीनां योऽर्थोऽभिधेयो-वाच्यस्तप्रतिपादनप्रयोजनान्येकत्वादीनि युक्तानि द्रव्यादीनि, एभिर्हि द्रव्यास्तिकादीनि व्याख्यायन्ते विकल्पैः, तेषां चार्थाभिधानप्रत्ययभेदेन भिन्नानामन्तरङ्गाभिधानप्रत्ययपदापेक्षया बहुतिथविद्वज्जनाभिमतबहिरगार्थपदचिन्ता क्रियते, तिष्ठतां तावदभिधानप्रत्ययावित्यर्थपदमेव प्राक् प्रदर्यत इत्यर्थः । तत्र द्रव्यं भव्यं योग्यं स्वपर्यायपरिणतेः, सर्व धर्मादि भेदवाद्यभिमतमभिन्नलक्षणार्पणयैकत्वेन विवक्ष्यते द्रव्यमिति द्रव्यस्वभावात्यागात्, न च द्रव्यव्यतिरिक्तं गुणकर्मादि किञ्चिदस्ति, रूपरसादयस्तद्र्व्यद्वारेगैवोपलब्धिमार्गमवतरन्तो द्रव्यवृत्तिमात्रत्वेनावधार्यन्ते, न भिन्नजातीयत्वेन, चक्षुरादिग्रहणभेदात् पदास्तिकमुत्पन्नास्तिकं पर्यायास्तिकमिति वचनचतुष्टयेत्यर्थः । द्रव्यं वेत्यादि संग्रहनैगमनयाभिप्रेतस्य द्रव्यास्तिकमिति प्रथमपचनस्य व्याख्यानम् । अर्थपदानीत्यत्र कर्मधारयसमास इत्यावेदनायाह-अर्थानि पदानीति । इत्यादीनीति, आदिपदाव्याणि वा मातृकापदं त्यादीनामुपग्रहः। द्रव्यं वा द्रव्ये वा द्रव्याणि वा सत् सती सन्तीत्येतानि एकवचन द्विवचनबहुवचनान्तानि द्रव्यास्तिकमित्येतस्यार्थपदानि व्याख्यानप्रयोजनानीत्येतदर्थावेदनायाह-द्रव्यास्तिकादीनामिति । अर्थपदानीत्येतत्पदं मातृकापदास्तिकस्यापीत्याद्युत्तरभाष्येऽपि सम्बध्यत इत्यतोऽत्रादिपदमुपात्तं मातृकापदास्तिकादीनां सङ्ग्रहाय, एवमग्रेऽपि । एकत्वादीनि युक्तानीति, अत्र एकवचनादियुक्तानीति पाठो युक्तः । द्रव्यादीनीति, आदिपदान्मातृकापदादेरुपग्रहः। एभिः, द्रव्यमित्यादिभिः, अस्य विकल्पैरित्यनेन सम्बन्धः, अर्थाभिधानप्रत्ययास्तुल्यनामधेया इति वचनाद्रव्यास्तिकादीनां खखरूपाभिधानखखार्थतत्प्रत्ययवाचकत्वेऽपि यत्तदर्थमात्र प्रत्यायनप्रयोजनकतयाऽर्थप त्यस्योपवर्णनं तदभिप्रायमाविष्करोति-तेषामित्यादिना, तेषां द्रव्यास्तिकादीनाम् । अभिधानप्रत्यययोराकारतो न भेदः, द्रव्यास्तिकमित्यादिनाम्नः द्रव्यास्तिकमित्यादिज्ञानस्य च स्वरूपतोऽविशेषादतोऽन्तरगत्वं तयोः, अर्थस्तु भिद्यतेऽतो बहिरङ्गस्वमस्य, तस्य व्याख्यानतः प्रतिपत्तित एव विदुषामिष्टसिद्धिरिति तत्प्रपञ्चनमेव न्याय्यमित्याशयेमाह-अन्तरङ्गेति । बहुतिथेति, बहुप्रकारेत्यर्थः, अस्य बहिरङ्गार्थपदेऽन्वयः। चिन्ताकरणखरूपमुपदर्शयति-तिष्ठतामिति । द्रव्यं सदित्येक वचनसमन्वितं संग्रहनयाभिमतं व्याख्यानयति-तत्र द्रव्यमित्यादिना। द्रव्यं च भव्य इत्यनुसाराव्यमिति भव्यमाह । स्वपर्यायरूपेण भवनाधुज्यते भव्यं द्रव्यम् । कारणे द्रव्यशब्दप्रयोगात्, कारणं च स्वरूपयोग्यतया फलोपहिततया च भवति, तत्र स्वरूपयोग्यताश्रयणेनाह-योग्यमिति । कस्य योग्यमित्यपेक्षायामाह-स्वपर्यायपरिणतेरिति । अत्रार्पणाकृत्यमुपनिबध्नाति-सर्वमिति। धर्मादीत्यत्रादिपदादधर्माकाशजीवपुद्गलानां ग्रहणम् । गतिस्थित्यादिरूपेण परिणमदपि धर्मादि द्रव्यखभावं न जहातीत्येकद्रव्यात्मकमेवेत्याह-द्रव्यखभावात्यागादिति । द्रव्यमित्येकवचनान्तमवधारणाकलितमेकत्वविशिष्टद्रव्यमाह, ततो द्रव्यव्यतिरिक्तस्य सत्त्वमपबदतीत्याह-न च द्रव्यव्यतिरिक्तमिति । गुणकमोदीति, आदिपदात्सामान्यविशेषयोरुपग्रहः। तत्र ताबद्गुणस्य द्रव्याव्यतिरिक्तत्वमुपपादयति-रूपरसादय इत्यादिना। द्रव्यत्तिमात्रत्वेन द्रव्यपरिणाममात्रत्वेन । अवधार्यन्ते रूपरसादिरूपद्रव्याकारोपलब्धिलक्षणज्ञानेन निश्चीयन्ते, न तु तत्तज्ज्ञाने द्रव्यविजातीयत्वमपि तेषां भाषत इति न द्रव्यविजातीयत्वेन तेषामवधारणमित्याह-न भिन्नजातीयत्वेनेति । चक्षुर्जन्यज्ञानविषयभावापन्नं द्रव्यं रूपमिति, रसनाग्राह्यतापन्नं तदेव रस इति, त्वगिन्द्रियगोचरतामितं स्पर्श इति, घ्राणेनाघ्रायमाणं गन्ध इति रूपादयस्तदृत्तय एक्त्याह-चक्षुरादिग्रहणमेदाविति। ता रूपरसादिस्वरूपाः, वृत्तयः परिणतयः, त. त्रि.१०

Loading...

Page Navigation
1 ... 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150