Book Title: Tattvartha Trisutri Prakashika
Author(s): Vijaylavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 112
________________ भाष्यटीकाविवृतियुता] साम्प्रतनये लिङ्गादिभेदात्समभिरूढनये प्रवृत्तिनिमित्तभेदाद् भिन्नता । [७१] स्यादमृदद्रव्यं च घटः स्यात् , अतः सोऽसौ तेन रूपेण वृत्तत्वाद् वर्तमानरूपघटवदिति । शब्दनयस्तु वर्तमानकालवृत्तमपि लिङ्गसङ्ख्यापुरुषकालादिमिन्नमवस्त्वेव मन्यते, स्त्रीपुंनपुंसकलिङ्गानां गुणानां भिन्नत्वात् , मृद्धटो द्रव्यमिति न सामानाधिकरण्यम् , यथा गौरश्वः, संस्त्यानप्रसवस्थितिलक्षणाः परस्परविरुद्धाः खल्वेते गुणाः शीतोष्णादिवत्, मृदादिशब्दाच्च भिन्नरूपप्रत्ययप्रसवो दृष्टः, पटकुटादिभिन्नध्वनिवत् , तस्माल्लिङ्गादिभिन्नमसम्यगभिधानम् , तस्यार्थस्य तेन रूपेणाभूतत्वात् , कातरे शूरशब्दप्रयोगवदिति, एवं चाभिन्नलिङ्गसङ्ख्याधुच्यमानं वस्तु वस्तुतामधिवसति, तेन रूपेण वृत्तत्वात् , यथा शूरे शूरशब्दप्रयोगः, समानलिङ्गशब्दाभिधेयतायां च वस्तुनः पर्यायान्तरैः सामानाधिकरण्यं सिध्यति, घटः कुटो हस्ती दन्ती चेति ॥ एवं शब्दनयेन सूत्रे व्यावर्तिते वस्तुनि चाभिन्नलिङ्गादिशब्दवाच्ये प्रतिष्ठापिते वर्तमानस्याभिन्नलिगादिकस्य वस्तुनः सूक्ष्मतरं भेदमभिधत्ते समभिरूढनयः-न जातुचित् पर्यायान्तरैकाधिकरण्येन शब्दैरुध्यमानं वस्तु यथावस्थितमुक्तं भवति, संज्ञानिमित्तभेदाद् । द्विविधा संज्ञा-पारिभाषिकी नैमित्तिकी पेयमुपदर्शयति-शब्दनयस्त्विति । अवस्त्वेव, एव वस्त्वनात्मकमेव, भिन्न भिन्नं च तद्वस्त्वभ्युपगम्यमानं भवत्येव वस्स्वित्यग्रे व्यक्तम् । एवं च यावन्तः समानलिङ्गाः पर्यायास्तावतामेकवस्त्वभिधायकत्वेन पर्यायत्वम् , ये च विभिन्नलिङ्गभाजः शब्दास्तेषामर्था अपि विभिन्ना एवेति न तेषां पर्यायतेति भावः। यश्च मृद् घटः द्रव्यं घट इति प्रयोगो घटे मृत्त्वस्य द्रव्यत्वस्य च साधनायोपन्यस्तः सोऽपि न युक्त इत्याह-मृद्धट इति । तत्र स्त्रीपुंनपुंसकलिङ्गानां गुणानां विभिन्नलक्षणत्वेन परस्पर विरुद्धत्वाद्विभिन्नत्वमुपपादयति-संस्त्यानेति, संस्त्यानं रूपान्तरेण भवनम् , तदेव पूर्वरूपविनाशः, प्रसव उत्पादः, स्थितिध्राव्यम्, तल्लक्षण चेषां पारिभाषिकम् , अत्र मृदः स्त्रीलिङ्गत्वात्तद्वाच्यं संस्त्यानम्, घटपदस्य पुंलिङ्गत्वात्तद्वाच्यः प्रसवः, द्रव्यपदस्य नपुंसकलिङ्गत्वात्तद्वाच्यं ध्रौव्यमिति परस्परविरुद्धार्थकत्वेन नैषां सामानाधिकरण्यसम्भव इत्यभिसन्धिः। विभिन्नावबोधजनकत्वादपि न मृदादिशब्दानां सामानाधिकरण्यमित्याह-मृदादिशब्दाच्चेति । तस्मादिति, यतः स्त्रीपुंनपुंसकानां भिन्नत्वं तस्माल्लिङ्गादिभिन्नं यद् एकवस्तुवाचकत्वेन ऋजसूत्रसम्मतमभिधानं तत्तथाऽसम्यगित्यर्थः। तस्यार्थस्य, एकस्य स्त्रीत्वविशिष्टस्य पुंस्त्वविशिष्टस्य नपुंसकत्वविशिष्टस्य वाऽर्थस्य । तेन रूपेण, परस्परविरुद्धानेकलिङ्गाद्यात्मना । अभूतत्वात् , अयथार्थत्वात् । शब्दनये यथोच्यमानं वस्तु वस्तुत्वं प्रतिपद्यते तथोपदर्शयति-एवञ्चेति, विभिन्नलिङ्गादिवाच्यस्यावस्तुत्वे चेत्यर्थः । तेन रूपेण अभिन्नलिङ्गसङ्ख्यादिरूपेण । वृत्तत्वात् यथार्थत्वात् । विभिन्नलिङ्गानां मृद्धटद्रव्यपदानां न सामानाधिकरण्यमेतन्मते इत्युपपादितत्वे समानलिङ्गशब्दानां सामानाधिकरण्यमर्थादागतमेव तथापि विभिमप्रवृत्तिनिमित्तकपदैः सह सामानाधिकरण्यमपि मा प्रसाङ्गीत्किन्तु समानप्रवृत्तिनिमित्तकपदैरेवेत्याशयेनाह-समानलिङ्गेति । साम्प्रतनयस्वरूपं शब्दनयमभिधाय समभिरूढनामानं शब्दनयं प्ररूपयति-एवं शब्दनयेनर्जुसूत्र इति । व्यावर्तित इति पूर्वान्वयि, एवं प्रतिष्ठापित इत्यपि। समभिरूढनयाभिमतं सूक्ष्मतरभेदमेवोपदर्शयति-न जातुचिदित्यादिना । पर्यायान्तरैकाधिकरण्येन घटकुटादिशब्दसामानाधिकरण्येन । शब्दैः कलसकुम्भादिशब्दैः । उच्यमानं घटः कलसः कुम्भः कुट इत्येवं प्रतिपाद्यमानम् । वस्तु एकं वस्तु, घटशब्दवाच्यं न कुटादिशब्दवाच्यतया प्रतिपाद्यमानं वस्तुभावं प्रतिपाद्यते किन्तु घटशब्दवाच्यमन्यत् कुम्भशब्दवाच्यच्चान्यदित्यर्थः । कुतश्च घटशब्दवाच्यात्कुम्भशब्दवाच्यमन्य. दित्यपेक्षायामाह-संज्ञानिमित्तभेदादिति, 'घटि चेष्टायाम्' इत्यनुसाराद्धटनक्रियानिमित्तका घट इति संज्ञा, कुं पृथिवीं भासयतीति व्युत्पत्त्यनुसारेण भूभासनरूपक्रियानिमित्तका कुम्भ इति संज्ञा, इत्येवं व्युत्पत्तिनिमित्तभेदात्सर्वशब्दानां भिन्नार्थत्वम् , व्युत्पत्तिनिमित्तमेव चास्मिन्नये प्रवृत्तिनिमित्तमिति । समुदायशक्त्यात्मकरूढिप्रवृत्ता च संज्ञा नास्पार्थतत्त्वावभासिका किन्त्ववयवशक्तिरूपयोगप्रवृत्तवेत्याशयेन संज्ञाद्वैविध्यमुपदर्शयति-द्विविधा संज्ञेति । पारिभाषिकी समुदायशक्तिकल्पनसमुत्थापिता संज्ञा। नैमित्तिकी अवयवशक्तिरूपयोगबलप्रभाविता । प्रथमायाः नार्थतत्त्वावबोधकत्वमित्याह-तत्रेति

Loading...

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150