________________
भाष्यटीकाविवृतियुता] द्रव्यास्तिकस्य व्याख्यानप्रयोजनानि, द्रव्यातिरिक्तवस्त्वभावश्च । [३] र्वचनचतुष्टयोपात्तयोः परस्परापेक्षयोरर्पणानर्पणविशेषतः सम्भवद्भिर्विकल्पैर्भाष्यकृत् स्वयमेव -सन्नित्यादिभेदभावनां करोति
[भाष्यम्-] एषामर्थपदानि द्रव्यं वा द्रव्ये वा द्रव्याणि वा सत् । असन्नाम नास्त्येव द्रव्यास्तिकस्य ।
एषामर्थपदानीत्यादि, .. एषां-द्रव्यपर्यायनयभेदानां द्रव्यास्तिकादीनां चतुर्णाम् अर्थानि पदानि अर्थपदानि-द्रव्यं वा द्रव्ये वा इत्यादीनि, द्रव्यास्तिकादीनां योऽर्थोऽभिधेयो-वाच्यस्तप्रतिपादनप्रयोजनान्येकत्वादीनि युक्तानि द्रव्यादीनि, एभिर्हि द्रव्यास्तिकादीनि व्याख्यायन्ते विकल्पैः, तेषां चार्थाभिधानप्रत्ययभेदेन भिन्नानामन्तरङ्गाभिधानप्रत्ययपदापेक्षया बहुतिथविद्वज्जनाभिमतबहिरगार्थपदचिन्ता क्रियते, तिष्ठतां तावदभिधानप्रत्ययावित्यर्थपदमेव प्राक् प्रदर्यत इत्यर्थः । तत्र द्रव्यं भव्यं योग्यं स्वपर्यायपरिणतेः, सर्व धर्मादि भेदवाद्यभिमतमभिन्नलक्षणार्पणयैकत्वेन विवक्ष्यते द्रव्यमिति द्रव्यस्वभावात्यागात्, न च द्रव्यव्यतिरिक्तं गुणकर्मादि किञ्चिदस्ति, रूपरसादयस्तद्र्व्यद्वारेगैवोपलब्धिमार्गमवतरन्तो द्रव्यवृत्तिमात्रत्वेनावधार्यन्ते, न भिन्नजातीयत्वेन, चक्षुरादिग्रहणभेदात्
पदास्तिकमुत्पन्नास्तिकं पर्यायास्तिकमिति वचनचतुष्टयेत्यर्थः । द्रव्यं वेत्यादि संग्रहनैगमनयाभिप्रेतस्य द्रव्यास्तिकमिति प्रथमपचनस्य व्याख्यानम् । अर्थपदानीत्यत्र कर्मधारयसमास इत्यावेदनायाह-अर्थानि पदानीति । इत्यादीनीति, आदिपदाव्याणि वा मातृकापदं त्यादीनामुपग्रहः। द्रव्यं वा द्रव्ये वा द्रव्याणि वा सत् सती सन्तीत्येतानि एकवचन द्विवचनबहुवचनान्तानि द्रव्यास्तिकमित्येतस्यार्थपदानि व्याख्यानप्रयोजनानीत्येतदर्थावेदनायाह-द्रव्यास्तिकादीनामिति । अर्थपदानीत्येतत्पदं मातृकापदास्तिकस्यापीत्याद्युत्तरभाष्येऽपि सम्बध्यत इत्यतोऽत्रादिपदमुपात्तं मातृकापदास्तिकादीनां सङ्ग्रहाय, एवमग्रेऽपि । एकत्वादीनि युक्तानीति, अत्र एकवचनादियुक्तानीति पाठो युक्तः । द्रव्यादीनीति, आदिपदान्मातृकापदादेरुपग्रहः। एभिः, द्रव्यमित्यादिभिः, अस्य विकल्पैरित्यनेन सम्बन्धः, अर्थाभिधानप्रत्ययास्तुल्यनामधेया इति वचनाद्रव्यास्तिकादीनां खखरूपाभिधानखखार्थतत्प्रत्ययवाचकत्वेऽपि यत्तदर्थमात्र प्रत्यायनप्रयोजनकतयाऽर्थप
त्यस्योपवर्णनं तदभिप्रायमाविष्करोति-तेषामित्यादिना, तेषां द्रव्यास्तिकादीनाम् । अभिधानप्रत्यययोराकारतो न भेदः, द्रव्यास्तिकमित्यादिनाम्नः द्रव्यास्तिकमित्यादिज्ञानस्य च स्वरूपतोऽविशेषादतोऽन्तरगत्वं तयोः, अर्थस्तु भिद्यतेऽतो बहिरङ्गस्वमस्य, तस्य व्याख्यानतः प्रतिपत्तित एव विदुषामिष्टसिद्धिरिति तत्प्रपञ्चनमेव न्याय्यमित्याशयेमाह-अन्तरङ्गेति । बहुतिथेति, बहुप्रकारेत्यर्थः, अस्य बहिरङ्गार्थपदेऽन्वयः। चिन्ताकरणखरूपमुपदर्शयति-तिष्ठतामिति । द्रव्यं सदित्येक वचनसमन्वितं संग्रहनयाभिमतं व्याख्यानयति-तत्र द्रव्यमित्यादिना। द्रव्यं च भव्य इत्यनुसाराव्यमिति भव्यमाह । स्वपर्यायरूपेण भवनाधुज्यते भव्यं द्रव्यम् । कारणे द्रव्यशब्दप्रयोगात्, कारणं च स्वरूपयोग्यतया फलोपहिततया च भवति, तत्र स्वरूपयोग्यताश्रयणेनाह-योग्यमिति । कस्य योग्यमित्यपेक्षायामाह-स्वपर्यायपरिणतेरिति । अत्रार्पणाकृत्यमुपनिबध्नाति-सर्वमिति। धर्मादीत्यत्रादिपदादधर्माकाशजीवपुद्गलानां ग्रहणम् । गतिस्थित्यादिरूपेण परिणमदपि धर्मादि द्रव्यखभावं न जहातीत्येकद्रव्यात्मकमेवेत्याह-द्रव्यखभावात्यागादिति । द्रव्यमित्येकवचनान्तमवधारणाकलितमेकत्वविशिष्टद्रव्यमाह, ततो द्रव्यव्यतिरिक्तस्य सत्त्वमपबदतीत्याह-न च द्रव्यव्यतिरिक्तमिति । गुणकमोदीति, आदिपदात्सामान्यविशेषयोरुपग्रहः। तत्र ताबद्गुणस्य द्रव्याव्यतिरिक्तत्वमुपपादयति-रूपरसादय इत्यादिना। द्रव्यत्तिमात्रत्वेन द्रव्यपरिणाममात्रत्वेन । अवधार्यन्ते रूपरसादिरूपद्रव्याकारोपलब्धिलक्षणज्ञानेन निश्चीयन्ते, न तु तत्तज्ज्ञाने द्रव्यविजातीयत्वमपि तेषां भाषत इति न द्रव्यविजातीयत्वेन तेषामवधारणमित्याह-न भिन्नजातीयत्वेनेति । चक्षुर्जन्यज्ञानविषयभावापन्नं द्रव्यं रूपमिति, रसनाग्राह्यतापन्नं तदेव रस इति, त्वगिन्द्रियगोचरतामितं स्पर्श इति, घ्राणेनाघ्रायमाणं गन्ध इति रूपादयस्तदृत्तय एक्त्याह-चक्षुरादिग्रहणमेदाविति। ता रूपरसादिस्वरूपाः, वृत्तयः परिणतयः,
त. त्रि.१०