________________
[७२] एवम्भूतनये प्रवृत्तिनिमित्तभूतक्रियाकाल एव तत्तद्वस्तुता नान्यत्र। [तत्त्वार्थत्रिसूत्री च, तत्र पारिभाषिकी नार्थतत्त्वं ब्रवीति, यदृच्छामात्रप्रवृत्तत्वात् , नैमित्तिकी तु सर्वैव संज्ञा युक्ता, यथाऽऽह___ "नाम च धातुजमाह निरुक्ते, व्याकरणे शकटस्य च तोकम् । यन्न विशेषपदार्थसमुत्, प्रत्ययतः प्रकृतेश्च तदूह्यम् ॥ १॥" [वार्तिकम् ]
एवं च सर्वे क्रियानिमित्ताः शब्दा धातुजत्वात् , निमित्तभेदाचार्थभेदो दृष्टश्छत्रिदण्ड्यादिवत् , अतो यां यां संज्ञामभिधत्ते तां तां समभिरोहतीति समभिरूढस्तामेवैकामारोहति, द्वितीयां निमित्तान्तरवृत्तां न क्षमते, तस्माद् वर्तमानेनाभिन्नलिङ्गादिनाऽप्येकेनैव ध्वनिनाभिधीयमानोऽर्थः सम्यगुक्तो भवति, नान्यथेति ॥
क्रियाभेदादित्थं समभिरूढनयेन प्रतिपादित वस्तुन्येवंभूतनयः तद्वस्तु सूक्ष्मतरभेदं प्रतिपादयितुमुपक्रमते-यदि घटत इति घटः क्रियानिमित्तशब्दवाच्योऽभ्युपेतस्त्वया ततो यत् तन्निमित्तं सा क्रिया यदैव वर्तमाना तदैव नैमित्तिकः शब्दो युक्तश्चित्रकरादिवत् , तस्माद् यदैव घटते-चेष्टते सदैव घटः, तन्निमित्ताभावे पटादिवदेवासौ न घटः, न चातीतानागतनिमित्तसम्बन्धः, तयोरभावात् , न ह्यतीतं भावि वा छत्रदण्डादि छत्रिदण्ड्यादीनां निमित्तं युज्यते, यदि स्यात् , त्रैलोक्यस्य छत्रिदण्डित्वप्रसङ्गः, अतो घटमान एव घटः, क्रियाविशिष्टस्यैव घटता, ततश्च घटशब्देनापि नैवासौ सर्वदा वाच्य इति, एवमेष पर्यायनयः सूक्ष्मतरभेदस्तावदाधावति यावज्ज्ञानमात्रमवशिष्यते शून्यता वा, म त्विह सकलक्रमभेदाख्यानं क्रियतेऽन्यत्र प्रपञ्चितत्वात् । एवमेतयोर्द्रव्यास्तिकपर्यायास्तिकयोतयोर्मध्य इत्यर्थः । उत्तराया अर्थतत्त्वावबोधकत्वेन युक्तत्वमित्याह-नैमित्तिकी त्विति । उक्तमर्थ संवादयति-यथाहेति । नाम चेति, निरुक्ते व्युत्पत्तिप्रतिपादकग्रन्थे व्युत्पत्तिकारः, व्याकरणे तु शकटस्य तोकमपत्यं शाकटायनः, धातुजं नाम आह । तत्र परिगणितशब्दानां व्युत्पादनादन्येषु नामसु का गतिरित्याह-यन्नेत्यादि, यद् नाम, पदार्थविशेषसमुत्थं पदार्थविशेषेण प्रकृतिविशेषेण प्रत्ययविशेषेण च उत्थं जातं व्युत्पादितं न, तद् नाम, प्रत्ययतः प्रत्ययविशेषं परिकल्प्य, प्रकृतेःप्रकृति विशेष परिकल्प्य च ऊह्यं तय॑म् , व्युत्पायं साधनीयमिति यावत् , सर्वेषां शब्दानां व्युत्पत्तिनिमित्तभेदावश्यम्भावेऽर्थभेद आवश्यक इत्याह-एवं चेति, सर्वनाम्नां धातुजन्यत्वे सतीत्यर्थः । अस्य नयस्य समभिरूढसंज्ञाप्यन्वर्थत्याह-अतो यां यामिति।तामेवेत्येवकारव्यवच्छेद्यामाह-द्वितीयामिति । उपसंहरति-तस्मादिति। वर्तमानेनेत्यनेन ऋजुसूत्रार्थस्यैव अभिन्नलिङ्गादिनेत्यनेन साम्प्रतनयार्थस्यैव एकेनैवेत्यनेन विशेषिततरभावेनैवार्थोऽस्येति ख्यापितम् । समभिरूढनयरूपपर्यायनयविटपिप्रशाखां निरूप्यैवम्भूतंरूपतत्प्रशाखां निरूपयति-क्रियामेदादित्थमिति । त्वया समभिरूढनयेन । चित्रकरादिवदिति, आदिपदात्कुम्भकारादेः परिग्रहः, चित्रकरणवेलायां चित्रकारव्यपदेशः कुम्भकरणवेलायामेव कुम्भकार.. व्यपदेश इत्यस्याभिमानः । न च कदाचिदसौ चेष्टां कृतवान् करिष्यतीति वेति कृत्वोपलक्षणभूतया चेष्टया घटपदवाच्योऽचेष्टमानोऽपि किं न स्यादित्याशङ्कायामाह-नचातीतेति । तयोः, अतीतानागतयोः । एतदेवोपपादयति-न ह्यतीतमिति, उत्तानार्थोऽयं ग्रन्थः । पर्यायनयमूलकावेव विज्ञानवादशून्यवादौ योगाचार-माध्यमिक प्रवर्तितावित्येतस्य माहा. त्म्यख्यापनायाह-एवमेष पर्यायनय इति । यथा यदैव क्रिया तदैव तन्निमित्तकशब्दवाच्योर्थस्तथा यदैव ज्ञानं तदैवार्थसिद्धिः, न ज्ञानादृतेऽर्थसत्तायां मानमस्ति, एवं निष्पीड्यमानोऽर्थो ज्ञानाकारस्वरूप एव प्रविशति, आकारोऽपि विचार्यमाणो न ज्ञानाद्विभिन्नखरूपतामुपढौकते, ज्ञानमपि ग्राह्यग्राहकाकारविकलं निरूच्यमानं न कथञ्चिव्यवतिष्ठत इति शून्यतायामेव विश्राम्यतीत्यभिसन्धिः । ननु पर्यायनयस्य केन क्रमेण विज्ञानमात्रे शून्यतायां च पर्यवसानं ? वाड्मात्रेण पर्यवसानं तु पूर्णतायामप्यस्त्यतो वक्तव्य एव तदुपपादकक्रम इत्यत आह-न त्विहेति, अपूर्वार्थप्ररूपणे हि शास्त्रव्यापारः साफल्यमञ्चति, अन्यत्र प्ररूपितस्यार्थस्य प्ररूपणं त्वनुवादकतामात्रेण ग्रन्थगौरवापादकं नादरणीयम् , दिड्यात्रप्रदर्शनमेव तु न्याय्यम्, तत्तु कृतमेवेति भावः । एषामित्याद्यनन्तर भाष्यमवतारयति-एवमेतयोरिति । वचनचतुष्टयेति, द्रव्यास्तिकं मातृका