Book Title: Tattvartha Trisutri Prakashika
Author(s): Vijaylavanyasuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
भाष्यदी का विवृतियुता ] पर्यायनयमाश्रित्योत्पादपर्यायेणोत्पन्नास्तिकं विनाशपर्यायेण पर्यायास्तिकम् । [ ६७ ]
अधुना द्रव्यास्ति मातृका पदास्तिकाभिहिताविशिष्टवस्तुप्रतिक्षेपेण भेदा एव वस्तुत्वेनावयन्ते पर्यायनयेन, अनवरतोत्पादविनाशप्रवाहमात्रमेव वस्तु सकलव्यवहारनिबन्धनम्, न तु स्थितमस्ति किञ्चित्, आत्मभावलक्षणानन्तरविनाशित्वान्न किञ्चित् केनचिदेकेनाभिन्नेन स्थित्यंशेनावबध्यमानं सम्भाव्यते, तत्राशेषस्थूलसूक्ष्मोत्पादकलापस्य प्रतिपादकमुत्पन्नास्तिकमुत्पन्नेऽस्तिमति, नानुत्पन्ने वान्ध्येयव्योमोत्पलादाविति, योऽप्यात्मलाभक्षणोऽस्ति सन्नित्येवंविधशब्दवाच्यः सोऽप्यभूतप्रादुर्भावः प्रा नासीत् पश्चाल्लब्धात्माऽस्ति सन्नित्यादिशब्दव्यपदेश्यः, न तु भूत्वाऽस्तिमनुभवन्नस्तीत्याख्यायते, क्रियायाः कृतकत्वात् पचत्यादिवत्, कर्तुश्च तत्सम्बन्धेन कर्तृत्वप्रतिलम्भस्य कृतकत्वान्न स्थितसत्ताकमेकमस्ति किञ्चित्, प्रथमक्षणविलक्षणाश्चोत्तरोत्तरक्षणाः सन्तानाकारेणोपजनमासादयन्ति । तथा पर्यायास्तिकमित्युत्पत्तिमतोऽवश्यं विनश्वरत्वाद् यावन्त उत्पादास्तावन्त एव विनाशा इति विनाशेऽस्तिमति पर्यायास्तिकम्, पर्यायो भेदो विनाशलक्षणः सोऽस्त्येवोत्पन्नस्येति, पर्यायो हि विनाशपर्यायः, यथा प्राप्तपर्यायो देवदत्त इति, समस्तविस्रसाप्रयोगापादितविनाशसूचनाकारि च पर्यायास्तिकम् ॥ अपरे तु वर्णयन्त्यन्यथा उत्पन्नास्तिकं पर्यायास्तिकं च तत्र सामग्रीग्रहणादेकद्रव्यभाविनां पर्यायाणां काल
वतारयति-अधुनेति, द्रव्यास्तिकमातृकापदास्तिकखरूपद्वयावधारक द्रव्य नयप्ररूपणानन्तरमित्यर्थः । अविशिष्टवस्त्विति, सामान्यसामान्यविशेषान्यतरात्म कानुगतवस्त्वित्यर्थः । भेदा एवेति, उत्पादविनाशस्वभावाः पर्याया एवेत्यर्थः । पर्यायनयवक्तव्यत।माविष्करोति-अनवरतेति, मध्यकालस्थिति रूपव्यवधानरहितेत्यर्थः । एवकारव्यवच्छेद्यमाह-न त्विति । स्थित्यभावे हेतुमाह-आत्मभावलक्षणेति, आत्मलाभक्षणेति पाठोऽत्र भवितुमर्हति तथा च आत्मलाभः पूर्वमसतः सत्त्वमुत्पत्तिरिति यावत्, तत्क्षणानन्तरक्षण विनाशित्वाद्भावमात्रस्येत्यर्थः । तत्रोत्पत्तिक्षणानन्तरविन शिनि भावे । उत्पन्नास्तिकमित्यस्य निरुक्तिलभ्यमर्थमाह-उत्पन्नेऽस्तिमतीति, उत्पन्न इति विशेषोक्तिव्यवच्छेद्यमाह - नानुत्पन्न इति यश्चानुत्पन्न - धर्मस्वभावमपि सदित्येवमभ्युपेयात्स वान्ध्येयादिकमपि सदित्येवमवधारयेन्न त्वसदित्यर्थ प्रकाशनाय वान्ध्येयेत्यादि विशेयोपवर्णनम् । आत्मलाभक्षणोऽपि तिरोभूततया सत एवाविर्भावलक्षणो न सोऽस्ति सन्नित्यादिशब्दवाच्यो येन तिरोभूताविर्भूतावस्थाऽनुगामिनो वस्तुत्वं स्यात्किन्त्वभूत्वा भवनलक्षण एवास्यादिशब्दवाच्य इत्याह-योऽप्यात्मलाभेति । अभूतप्रादुर्भावः पूर्वमभूतस्य पश्चात्प्रादुर्भावः । अस्यैव विवरणं-प्राग्नासीत्पश्चाल्लब्धात्मेति । तर्हि अस्तिपदेन किन्नाभिधीयते इत्यपेक्षायामाह - नन्विति । भूत्वा पूर्वकाले सत्त्वमनुभूय । अस्तिमनुभवन् वर्त्तमानकालस्थितिमा भेजानः । उत्पस्यादिक्रियाधारस्योत्पत्तिकर्त्तुः कृतकत्वेन न स्थित्याधारत्वसम्भवः, एकक्षणा च स्थितिरुत्पत्तिरेव द्व्यादिक्षणा च स्थितिर्न सम्भवत्येव तद्व्यवहारस्य तत्तत्क्षणस्थित्यन्यतमेनैव सम्पादनीयत्वादित्याशयेनाह - क्रियाया इति धात्वर्थत्वमत्र क्रियात्वम्, सप्तापि भूधात्वर्थतयाऽसधात्वर्थतया वा क्रियैव तदभिसम्बन्धवतश्च सतः कर्त्तुः स्थिरत्वलक्षणं स्थितत्वं तदा स्याद्यदि सा स्थिरा स्यात् सा च क्रियात्वात्कृतका न स्थिरेति । क्रियात्वस्य कृतकत्वेन व्याप्तेरवगतये दृष्टान्तमाह-पचत्यादिवदिति । तत्सम्बन्धेन क्रियासम्बन्धेन । कर्तृत्वप्रतिलम्भस्य कर्तृत्वस्वरूपप्राप्तेः । एतेन यदा कुलालो न घटं करोति किन्तूदासीन एवास्ते तदा न कुम्भकर्तृकुम्भकारपदव्यपदेश्य इत्यावेदितम् । तथा च घटादिरपि प्रतिक्षणमन्यान्य एव, व्यवहारश्चोत्पत्तिक्षणमारभ्याविनाशं नैकघटव्यक्तिमुपादाय किन्तु तत्सन्ततिसमाश्रयणेनेत्याह-प्रथमक्षणेति । उपजनम् आत्मलाभम् । उत्पन्नास्तिकं व्याख्याय पर्यायास्तिकं व्याख्यानयति - तथेत्यादिना । पर्यायशब्दस्य विनाशार्थकत्वदृढीकर णायाह-यथेति । प्राप्तपर्यायः प्राप्तविनाशः यथाऽशेषस्थूलसूक्ष्मोत्पादकलापप्ररूपणाप्रवणत्वमुत्पन्नास्तिकस्य तथाशेषविनाशकलापप्ररूपणाप्रवणत्वं पर्यायास्तिकयस्येत्याभ्यां पर्यायमात्र प्ररूपणायत्ताशेषानित्यप्रकारसमन्वयतो न न्यूनोक्तिता नाप्यधिकसङ्ख्याव्यवच्छेदानुपपत्तिरित्याशयेनाह - समस्तेति । उत्पन्नास्तिकपर्यायास्तिकयोर्व्याख्यानान्तरं केषाञ्चिदुपन्यस्यति - अपरे त्वित्यादिना । अन्यथा, पूर्वोपदर्शितप्रकारादन्यप्रकारेण । किं वर्णयन्तीत्यपेक्षायामाह - उत्पन्नास्तिकं पर्यायास्तिकञ्चेति । प्रथमोद्दिष्टमुत्पन्नास्तिकं तावदाह - तन्त्रेति, उत्पन्नास्तिकपर्यायास्तिकयोर्मध्य इत्यर्थः । सिध्यमानसिद्धवदिति यदुक्तं

Page Navigation
1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150