Book Title: Tattvartha Trisutri Prakashika
Author(s): Vijaylavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 107
________________ [६६] संग्रहनयानुसारिणो मातृकापदास्तिकस्य विशेषाभ्युपगमोपवर्णनम् । [तत्त्वार्थत्रिसूत्री धर्माकाशपुद्गलजीवास्तिकायेभ्यस्तद्रव्यास्तिकं नाम ?, ते चास्तिकायाः परस्परं भिन्नस्वभावाः, तुल्येऽपि हि द्रव्यत्वे न धर्मास्तिकायो भवत्यधर्मास्तिकायः, पक्कापक्कवत् , तथेतरेऽपि विविक्ता एव लोकयात्रां वर्तयन्ति, सन्मानं शुद्धद्रव्यमानं वा विद्यमानमपि न जातुचिद् व्यवहारक्षमम् , अतः स्थूलकतिपयव्यवहारयोग्यविशेषप्रधानं मातृकापदास्तिकम् , एते च धर्मास्तिकायादयः समस्तसामान्यविशेषपर्यायाश्रयत्वान्मातृकापदशब्दवाच्याः, मातृका ह्यशेषवर्णपदवाक्यप्रकरणादिविकल्पानां योनिः, इत्थं धर्मादयोऽपि व्यवहारनिबन्धनानेकपर्यायोपन्नास्तद्विपरीतपर्यायाश्रयाश्च तत्र तत्र व्यवह्रियन्ते व्यवहारार्थिभिः, अतो मातृकापदमेवास्ति व्यवहारयोग्यत्वात् , न शेषमिति व्यवहारनयाभिप्रायः । सङ्ग्रहव्यवहारौ च प्रत्येकं शतभेदत्वादनेकमुखौ, व्यवहार इति चान्वर्थसंज्ञत्वादेवास्य नयस्य, अवहरणमवहारः, कस्य ? एकसत्त्वस्य, केन ? विशेषेण-घटादिना, नानासत्त्वेन लोकयात्रासिद्धेः ॥ मभिन्ना एवेत्यत आह-ते चेति, धर्मादयश्चेत्यर्थः । परस्परभिन्नस्वभावा गतिस्थित्यवगाहचैतन्यमूर्त्याख्यपरस्परविरुद्धधर्मालिङ्गितत्वात् परस्परव्यतिरिक्तमूर्तयः। परस्परविरुद्धधर्मभाजां न भवत्यैक्यमित्यत्र सर्वाविप्रतिपन्नं दृष्टान्तमाहपक्कापक्कवदिति । यथा धर्मास्तिकायो न भवत्यधर्मास्तिकायः, एवं धर्मास्तिकायोऽपि न भवति धर्मास्तिकायः, एवमाकाशास्तिकायोऽपि न धर्मास्तिकायादिः, जीवास्तिकायपुद्गलास्तिकायावपि तथैवावधार्या वित्याह-तथेतरेऽपीति । भेदस्य लोकव्यवहारक्षमत्वमभिधाय निर्भेदस्य न तत्त्वमित्याह-सन्मात्रमिति । अतः भेदस्यैव व्यवहारक्षमत्वं नाभेदस्येत्यस्माकारणात् । धर्मास्तिकायादीनां मातृकापदवाच्यत्वे सत्येव तदस्तित्वप्ररूपणप्रवणस्य व्यवहारनयस्य मातृकापदास्तिकसंव्यवहार्यत्वेन तद्विषयस्य तदभेदोपचारान्मातृकापदास्तिकत्वं स्यादित्यतो धर्मादीनां मातृकापदवाच्यत्वमुपपादयति-एते चेत्यादिना । मातृका वरव्यञ्जनाक्षरमालाऽभिधीयते, तत्र येन प्रवृत्तिनिमित्तेन मातृकेतिपदं प्रवर्त्तते तदत्रापि धर्मास्तिकायादिषु समस्तीति युक्तमेषां मातृकापदवाच्यत्वमित्याशयेनाह-समस्तसामान्यविशेषपर्यायाश्रयत्वादिति । मातृकापदशब्दवाच्या इति, “मातृका" इति ययक्षरं पदं तद्रूपो यः शब्दस्तेन वाच्या इत्यर्थः, तेन अक्षरमालायां "मातृका" इति व्यक्षरशब्दस्य वाच्यत्वं तन्निमित्तं कथं मातृकापदरूपपञ्चाक्षरशब्दस्येति मातृकापदस्य समासरूपतया वाक्यत्वेन न तत्र नैयायिकनीत्या शक्तिरपीति च शङ्काया नावकाशः, अथवा समासरूपवाक्येऽपि शक्तिवैयाकरणैरभ्युपगम्यते तन्नीत्या मातृकापदस्यापि शक्तिभविष्यतीति मातृकापदरूपो यः शब्दस्तस्य वाच्या इत्यर्थोऽपि सङ्गच्छत एव । न चैवं मातृकामातृकापदयोः पर्यायत्वे मातृकास्तिकमित्येव कुतो नोक्तं लाघवैषिणा भाष्यकारेणेति शङ्कयम् , शब्दाद्वैतावबोधप्रसङ्गभयेन तथानभिधानात् , मातृकाशब्दस्य प्रवृत्तिनिमित्तं यत्किमपि भवतु तद्रूडिस्तु लोकेऽक्षरमालायामेवेति कृत्वाऽक्षरतादात्म्याध्यवसितिस्तथाभिधाने झटित्येवोल्लसेदिति सुधीभिश्चिन्तनीयम् । यथा मातृका तथा धर्मादयोऽपीत्येतद्दर्शयति-मातृकेत्यादि । योनिरभिव्यक्तिस्थानम् । पर्यायोपन्नाः पर्यायाश्रयाः। अतः, यतो व्यवहारार्थिभिर्धर्मास्तिकायादिरेव व्यवहारायाद्रियते ततः । संग्रहव्यवहारयोराश्रयणे सर्वेऽपि द्रव्यप्रपञ्चा उक्तभेदयोरेवान्तर्भवन्तीति द्वाभ्यामेव द्रव्यास्तिकमातृकापदास्तिकाभ्यां सम्पूर्ण सतोऽनुगमस्वरूपणमिति भाष्ये न न्यूनता नवाधिकसङ्ख्याव्यवच्छेदानुपपत्तिरित्याशयेनाह-संग्रहव्यवहारी चेति । मातृकापदास्तिकत्वेनाभिमतस्य नयस्य व्यवहार इति संज्ञा व्युत्पत्तिनिमित्तार्थानुगतेत्याह-व्यवहार इतीति । अस्य. मातृकापदास्तिकस्य । अन्वर्थत्वं व्युत्पत्त्युपदर्शनेन स्पष्टयति-अवहरणेति, अवहरणं विभजनं पृथक्खरूपतापादनमिति यावत् । अवहरणं सम्बन्धिनिरूप्यमिति पृच्छति-कस्येति । एकस्यैव लोकयात्रानिर्वाहार्थमनेकरूपताश्रयणेन विभजनं सम्भवति, तच्च सत्त्वातिरिक्तं दुर्वचमित्याशयेनोत्तरयति-एकसत्त्वस्येति । विभजनञ्च सामान्यधर्मव्याप्यपरस्परविरुद्ध नानाधर्मेणैव सङ्गतिमङ्गतीति तादृशधर्मावगमेच्छया पृच्छति-केनेति । अविशिष्टस्य सत्त्वस्य विशिष्टखरूपतापादक एवं विशेषो नान्य इत्याशयेनोत्तरयति-विशेषेणेति । एतदेव स्पष्टयति-घटादिना नानासत्त्वेनेति । किमर्थमित्थं व्यवहरणमित्यपेक्षायामाह-लोकयात्रासिद्धेरिति, घटमानय घटं नय घटं त्यज घटमुपेक्षखेत्यादिरूपाया लोकयात्राया इत्थमेवोपपत्तेरित्यर्थः। सतो नित्यत्वोपपत्तये द्रव्यास्तिकमातृकास्तिके प्रदर्य तस्यानित्यत्वोपपत्तये पर्यायनयविषयं विकल्पद्वयमा

Loading...

Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150