SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ [६६] संग्रहनयानुसारिणो मातृकापदास्तिकस्य विशेषाभ्युपगमोपवर्णनम् । [तत्त्वार्थत्रिसूत्री धर्माकाशपुद्गलजीवास्तिकायेभ्यस्तद्रव्यास्तिकं नाम ?, ते चास्तिकायाः परस्परं भिन्नस्वभावाः, तुल्येऽपि हि द्रव्यत्वे न धर्मास्तिकायो भवत्यधर्मास्तिकायः, पक्कापक्कवत् , तथेतरेऽपि विविक्ता एव लोकयात्रां वर्तयन्ति, सन्मानं शुद्धद्रव्यमानं वा विद्यमानमपि न जातुचिद् व्यवहारक्षमम् , अतः स्थूलकतिपयव्यवहारयोग्यविशेषप्रधानं मातृकापदास्तिकम् , एते च धर्मास्तिकायादयः समस्तसामान्यविशेषपर्यायाश्रयत्वान्मातृकापदशब्दवाच्याः, मातृका ह्यशेषवर्णपदवाक्यप्रकरणादिविकल्पानां योनिः, इत्थं धर्मादयोऽपि व्यवहारनिबन्धनानेकपर्यायोपन्नास्तद्विपरीतपर्यायाश्रयाश्च तत्र तत्र व्यवह्रियन्ते व्यवहारार्थिभिः, अतो मातृकापदमेवास्ति व्यवहारयोग्यत्वात् , न शेषमिति व्यवहारनयाभिप्रायः । सङ्ग्रहव्यवहारौ च प्रत्येकं शतभेदत्वादनेकमुखौ, व्यवहार इति चान्वर्थसंज्ञत्वादेवास्य नयस्य, अवहरणमवहारः, कस्य ? एकसत्त्वस्य, केन ? विशेषेण-घटादिना, नानासत्त्वेन लोकयात्रासिद्धेः ॥ मभिन्ना एवेत्यत आह-ते चेति, धर्मादयश्चेत्यर्थः । परस्परभिन्नस्वभावा गतिस्थित्यवगाहचैतन्यमूर्त्याख्यपरस्परविरुद्धधर्मालिङ्गितत्वात् परस्परव्यतिरिक्तमूर्तयः। परस्परविरुद्धधर्मभाजां न भवत्यैक्यमित्यत्र सर्वाविप्रतिपन्नं दृष्टान्तमाहपक्कापक्कवदिति । यथा धर्मास्तिकायो न भवत्यधर्मास्तिकायः, एवं धर्मास्तिकायोऽपि न भवति धर्मास्तिकायः, एवमाकाशास्तिकायोऽपि न धर्मास्तिकायादिः, जीवास्तिकायपुद्गलास्तिकायावपि तथैवावधार्या वित्याह-तथेतरेऽपीति । भेदस्य लोकव्यवहारक्षमत्वमभिधाय निर्भेदस्य न तत्त्वमित्याह-सन्मात्रमिति । अतः भेदस्यैव व्यवहारक्षमत्वं नाभेदस्येत्यस्माकारणात् । धर्मास्तिकायादीनां मातृकापदवाच्यत्वे सत्येव तदस्तित्वप्ररूपणप्रवणस्य व्यवहारनयस्य मातृकापदास्तिकसंव्यवहार्यत्वेन तद्विषयस्य तदभेदोपचारान्मातृकापदास्तिकत्वं स्यादित्यतो धर्मादीनां मातृकापदवाच्यत्वमुपपादयति-एते चेत्यादिना । मातृका वरव्यञ्जनाक्षरमालाऽभिधीयते, तत्र येन प्रवृत्तिनिमित्तेन मातृकेतिपदं प्रवर्त्तते तदत्रापि धर्मास्तिकायादिषु समस्तीति युक्तमेषां मातृकापदवाच्यत्वमित्याशयेनाह-समस्तसामान्यविशेषपर्यायाश्रयत्वादिति । मातृकापदशब्दवाच्या इति, “मातृका" इति ययक्षरं पदं तद्रूपो यः शब्दस्तेन वाच्या इत्यर्थः, तेन अक्षरमालायां "मातृका" इति व्यक्षरशब्दस्य वाच्यत्वं तन्निमित्तं कथं मातृकापदरूपपञ्चाक्षरशब्दस्येति मातृकापदस्य समासरूपतया वाक्यत्वेन न तत्र नैयायिकनीत्या शक्तिरपीति च शङ्काया नावकाशः, अथवा समासरूपवाक्येऽपि शक्तिवैयाकरणैरभ्युपगम्यते तन्नीत्या मातृकापदस्यापि शक्तिभविष्यतीति मातृकापदरूपो यः शब्दस्तस्य वाच्या इत्यर्थोऽपि सङ्गच्छत एव । न चैवं मातृकामातृकापदयोः पर्यायत्वे मातृकास्तिकमित्येव कुतो नोक्तं लाघवैषिणा भाष्यकारेणेति शङ्कयम् , शब्दाद्वैतावबोधप्रसङ्गभयेन तथानभिधानात् , मातृकाशब्दस्य प्रवृत्तिनिमित्तं यत्किमपि भवतु तद्रूडिस्तु लोकेऽक्षरमालायामेवेति कृत्वाऽक्षरतादात्म्याध्यवसितिस्तथाभिधाने झटित्येवोल्लसेदिति सुधीभिश्चिन्तनीयम् । यथा मातृका तथा धर्मादयोऽपीत्येतद्दर्शयति-मातृकेत्यादि । योनिरभिव्यक्तिस्थानम् । पर्यायोपन्नाः पर्यायाश्रयाः। अतः, यतो व्यवहारार्थिभिर्धर्मास्तिकायादिरेव व्यवहारायाद्रियते ततः । संग्रहव्यवहारयोराश्रयणे सर्वेऽपि द्रव्यप्रपञ्चा उक्तभेदयोरेवान्तर्भवन्तीति द्वाभ्यामेव द्रव्यास्तिकमातृकापदास्तिकाभ्यां सम्पूर्ण सतोऽनुगमस्वरूपणमिति भाष्ये न न्यूनता नवाधिकसङ्ख्याव्यवच्छेदानुपपत्तिरित्याशयेनाह-संग्रहव्यवहारी चेति । मातृकापदास्तिकत्वेनाभिमतस्य नयस्य व्यवहार इति संज्ञा व्युत्पत्तिनिमित्तार्थानुगतेत्याह-व्यवहार इतीति । अस्य. मातृकापदास्तिकस्य । अन्वर्थत्वं व्युत्पत्त्युपदर्शनेन स्पष्टयति-अवहरणेति, अवहरणं विभजनं पृथक्खरूपतापादनमिति यावत् । अवहरणं सम्बन्धिनिरूप्यमिति पृच्छति-कस्येति । एकस्यैव लोकयात्रानिर्वाहार्थमनेकरूपताश्रयणेन विभजनं सम्भवति, तच्च सत्त्वातिरिक्तं दुर्वचमित्याशयेनोत्तरयति-एकसत्त्वस्येति । विभजनञ्च सामान्यधर्मव्याप्यपरस्परविरुद्ध नानाधर्मेणैव सङ्गतिमङ्गतीति तादृशधर्मावगमेच्छया पृच्छति-केनेति । अविशिष्टस्य सत्त्वस्य विशिष्टखरूपतापादक एवं विशेषो नान्य इत्याशयेनोत्तरयति-विशेषेणेति । एतदेव स्पष्टयति-घटादिना नानासत्त्वेनेति । किमर्थमित्थं व्यवहरणमित्यपेक्षायामाह-लोकयात्रासिद्धेरिति, घटमानय घटं नय घटं त्यज घटमुपेक्षखेत्यादिरूपाया लोकयात्राया इत्थमेवोपपत्तेरित्यर्थः। सतो नित्यत्वोपपत्तये द्रव्यास्तिकमातृकास्तिके प्रदर्य तस्यानित्यत्वोपपत्तये पर्यायनयविषयं विकल्पद्वयमा
SR No.022537
Book TitleTattvartha Trisutri Prakashika
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year1945
Total Pages150
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy