________________
भाष्याविवृतियुता ] संग्रहनैगमनयानुसारि द्रव्यास्तिकं व्यवहारनयागं च मातृ कापदांस्तिकम् | [ ६५ ] धानप्रत्ययहेतुस्तयोर्निर्निमित्तयोः सर्वथाऽनुपाख्ये प्रवृत्त्यभावात्, व्यावृत्तिबुद्धिहेतुर्भेदकरोऽन्य एव विशेष इति भेदाभ्युपगतेरशुद्धप्रकृतित्वम्, व्यवहारोऽप्यशुद्धप्रकृतिरेव, परस्परविभिन्नरूपैरर्थैः संव्यवहारः सिध्यतीत्यभिप्रायात्, नैगमस्य वा सङ्ग्रहव्यवहारानुप्रवेशाच्छुद्धाशुद्धप्रकृतित्वं द्रव्यास्तिकस्य, तत्र सङ्ग्रहाभिप्रायानुसारि द्रव्यास्तिकम्, व्यवहारनयानुसारि मातृकापदास्तिकम्, शुद्धाशुद्धप्रकृतिसन्दर्शनार्थं द्विधोपादानम्, सर्ववस्तुसलक्षणत्वादसत्प्रतिषेधेन सर्वसङ्ग्रहादेशो द्रव्यास्तिकम्, नहि सता किञ्चिदनाविष्टमस्ति द्रव्येण वा, तच्च निर्भेदत्वाल्लोकयात्राप्रवृत्तिबहिर्मुखम्, अत एव व्यवहार - प्रवृत्तिस्त्यागोपादानोपेक्षारूपेण वस्तुषु प्रायो भेदसमाश्रया, स च भेदो मातृकापदास्तिकनिबन्धनो व्यवहारस्याशुद्धप्रकृतित्वाल्लोकव्यवहारप्रसाधनाय द्रव्यास्तिकं भिनत्ति व्यवहारनयः, किमन्यद्धर्मा
न्यमुपपादयति-सामान्येति । " अर्थान्तरभूतम्" इत्यनेन शशशृङ्गाय सद्विविक्ततामाह, "अन्यद्" इत्यनेन विशेषेभ्यो व्यावृत्तिमाह, “आश्रितम्" इत्यनेन " आश्रितसत्तातिरिक्तम्” इति यदुक्तं प्राक् तद्व्यवच्छिनत्ति' । एवम्भूतस्य सामान्यलक्षणद्रव्यस्याविविक्तार्थक्रियाकारित्वाभावान्नास्त्येव तत्त्वरूपतेत्यतस्तस्यार्थक्रियाकारित्वोपपादनायाह- सदभिधानेति, तथा च सच्छब्दप्रवृत्तिनिमित्ततया सत्सदित्यनुगतबुद्धि नियामकतयाऽर्थक्रियाकारित्वेन तस्य वस्तुत्वमभ्युपेयमित्यर्थः । तयोः सदभिधानप्रत्यययोः। निर्निमित्तयोः सत्त्वसामान्यरूपनिमित्तासमवहितयोः । सर्वथाऽनुपाख्ये सर्वोपाख्याि शशशृङ्गादौ । प्रवृत्त्यभावात् प्रवृत्तेरनुपलम्भात् । यदि निमित्तमन्तरेण तयोः प्रवृत्तिरभ्युपगम्येत तदा शशशृङ्गादावपि तयोः प्रवृत्तिस्स्यात्, न च तत्र प्रवर्त्तते, ततो यदभावात्तयोस्तत्राप्रवृत्तिः तत्सत्त्वसामान्य मतिरिक्तन्तन्निमित्तमभ्युपगन्तव्य - मित्यर्थः । सामान्यरूपद्रव्याद्विशेषरूपाणां पर्यायाणां भेदमुपपादयति - व्यावृत्तिबुद्धिहेतुरिति, सजातीयविजातीयेभ्यो व्यावृत्तिबुद्धिनिबन्धनम् । अत एव भेदकरः स्वाश्रयस्य तदन्यस्माद्भेदस्य प्रयोजक: । अन्य एव सामान्याद्भिन्न एव । विभिन्नार्थक्रियाकारित्वस्यापि विरुद्धधर्मत्वेन तदध्यासाद्भेदो युक्त इत्यभिसन्धिः । इतिरत्र हेतौ अस्मात्कारणात् । भेदाभ्युपगतेः भेदस्यापि स्वीकारात् । द्रव्यास्तिके शुद्धप्रकृतित्वं सामान्यमात्राभ्युगन्तृत्वं तदभावरूपमशुद्ध प्रकृतित्वं सामा न्याभ्युपगन्तृत्वे सति विशेषाभ्युपगन्तृत्वादत्र निराबाधमतोऽशुद्धप्रकृतित्वान्नैगमप्ररूपणाविषयं सत्त्वं प्रकृते “ द्रव्यास्तिकम्” इत्यनेन नाभिमतम्, अत एव च व्यवहारप्ररूपणाविषयमपि नानेनाभिहितमित्याशयेनाह - व्यवहारोऽप्यशुद्धप्रकृतिरेवेति । व्यवहारस्याशुद्धप्रकृतित्वे हेतुमाह - परस्परेति, लोकयात्रेत्थमेव निर्वहति न केवलसामान्यरूपत्वे घटपटादिभेदतदर्थक्रिया भेदादिव्यवहार आपामरसाधारण: सुदृढनिरूढ आञ्जस्येनोपपद्येत, नाप्यन्त्यविशेषाभ्युपगममात्रेण तस्य चतुरस्रता, तस्माद्यथा यथा लोकव्यवहारस्तथा तथा वस्त्वभ्युपगन्तव्यमिति, एवमशुद्धप्रकृतित्वमेव तेनात्मनि कोडीकृतम् । नैगमनयो वा द्रव्यनयस्य तृतीयः प्रकारो नास्त्येव, यतस्तस्य यः सामान्याभ्युपगमांश: सङ्ग्रह एवासौ, यश्च विशेषाभ्युपगमांशः स व्यवहार एव, नयद्वयसमुदायरूपेण तदुपगमे शुद्धाशुद्धप्रकृतित्वं तस्य युक्तमित्याह - नैगमस्य वेति, अस्य द्रव्यास्तिकस्येत्युत्तरेण सम्बन्धः । एवञ्च द्रव्यास्तिकनयस्य शुद्धाशुद्धप्रकृतिभेदेन द्वौ भेदौ सङ्ग्रहो व्यवहारश्च तत्र सङ्ग्रहा भिप्रायेण सतो द्रव्यास्तिकमिति प्रथमरूपं, व्यवहाराभिप्रायेण मातृकापदास्तिकमिति, आभ्यां नित्यत्वमनुगमितं भवतीत्याहतत्रेत्यादिना । एकेनैव नित्यत्वोपद्वलनं किमर्थमिति प्रश्नप्रतिविधानायाह - शुद्धाशुद्धेति । तत्र शुद्धप्रकृति सन्दर्शनप्रयोजनमाह - सर्ववस्त्विति । अशुद्धप्रकृति सन्दर्शनप्रयोजनमुपदर्शयितुमाह तच्चेति, सर्वसङ्ग्रहादिष्टं सद् द्रव्यं वेत्यर्थः । निर्भेदत्वाद् व्यवहारोपयोगिविशेषविकलत्वात् । लोकयात्राप्रवृत्ति बहिर्मुखम्, लोकयात्रानिर्वाहकम्, तावन्मात्राभ्युपगमे न कश्चित्कुतश्चित्कुत्रापि प्रवर्त्तेत निवर्त्तेत वेति निरीहं जगत्स्यात्, न चैवमेव न्याय्यम् अनुभवबाधादिति भावः । अत एवेति, निर्भेदस्य सामान्यस्य लोकयात्राप्रवृत्ति बहिर्मुखत्वादेवेत्यर्थः । प्रवृत्तिनिवृत्त्युपेक्षालक्षणो व्यवहारो भेदसमा - श्रयणेनैव प्रवर्तत इत्याह-व्यवहारप्रवृत्तिरिति । भेदस्यावश्यमपेक्षितत्वे तद्वाहकनयोऽवश्यमाश्रयितव्यस्तत्प्ररूपणाप्रवण इत्याह- स च भेद इति । मातृकापदास्तिकेति, व्यवहारनयेत्यर्थः । व्यवहारनयनिबन्धनत्वं भेदस्योपपादयति-व्यवहारस्येति । द्रव्यास्तिकं सत्सामान्यं द्रव्यं वा । तस्य विशेषस्वरूपव्यतिरेकेण नात्मप्रतिलम्भ इत्युपदर्शयति - किमन्यदिति, नास्ति धर्मादिभ्यो भिन्नं द्रव्यसामान्यमित्यर्थः । ननु द्रव्याव्यतिरेकाद्धर्मास्तिकायादयोऽपि परस्पर
1
त० त्रि० ९