________________
[६४]
. सतः प्रथमभेदस्य नयविशेषमाश्रित्य विवरणम् । [तत्त्वार्थत्रिसूत्री पाद्यप्रतिपादकभावलक्षणसम्बन्धविवक्षायां षष्ठी समासश्च । एवं मातृकापदास्तिकादिष्वपि योज्यम् । द्रव्यमेवामेदं भिद्यते न पर्यायः, द्रव्यं भवनलक्षणं मयूराण्डकरसवदुपारूढसर्वभेदबीजं देशकालक्रमव्यङ्ग्यभेदसमरसावस्थमेकरूपं भवनं-भूतिः सत्त्वमाश्रितसत्तातिरिक्तं भेदप्रत्यवमर्शनाभिन्नमपि भिन्नवदाभासते, तदेव चास्तीति मन्यते, तच्च द्रव्यास्तिकमसङ्कीर्णस्वभावं शुद्धप्रकृतिरूपमेकं प्रत्याख्याताशेषविशेषकदम्बकं द्रव्यात्मकं द्रव्यमानं सङ्ग्रहप्ररूपणाविषयमभिहितम् , अपरं नैगमव्यवहारविषयमशुद्धप्रकृति, यस्माद् द्रव्यपर्यायावुभाविच्छति नैगमः स्वतत्रौ, सामान्यमर्थान्तरभूतमन्यदेवाश्रितं सदभिप्रतिपादकम् । प्रतिपादकस्य प्रतिपाद्यापेक्षणात् पृच्छति-कस्येति । इयं च समासव्युत्पादनप्रक्रिया मातृकापदास्तिकमित्यादावपि योज्यत्याह-एवमिति । समाससाधुत्वे किमस्यैदम्पर्यमिति बुभुत्सुम्प्रत्याह-द्रव्यमेवेति । अभेदम् अभिन्नखभावम् । द्रव्यं किंलक्षणकमित्यत आह-द्रव्यं भवनलक्षणमिति । एतदपि सम्मुग्धखरूपमुच्यमानं नास्मादृशानां मन्दमतीनां मनीषोन्मेषायालमित्यत आह-मयूराण्डकेति, मयूराण्डकरसो यथोत्तरकालभाविपिच्छार्द्धचन्द्राकृत्यादिविचित्राङ्गोपाङ्गप्रत्यलरसविशेषसमष्टिसमनुगतत्वादुत्तरसर्वपर्यायबीजभूतस्तथेत्यर्थः, उपारूढः शक्तिरूपेण समवस्थितः, सर्वभेदः सर्वप
यस्तस्य बीजं निमित्तमित्यर्थः। यदि सर्वे पर्यायाः प्रथमत एव द्रव्ये शक्तिरूपेण व्यवस्थिताः किमिति ? युगपदेव नोपलभ्यन्त इत्यत आह-देशकालक्रमेति । कथं देशकालक्रमव्यङ्ग्येषु भेदेषु पर्यायेषु भिन्नखभावेषु समरसावस्थतया समस्खभावतया द्रव्यं युज्यत इत्यत आह-एकरूपमिति, अनुगतप्रतीतिनियामकमित्यर्थः, पर्यायाणां भेदेऽपि सर्वत्र सत्सदितिप्रतीतिरविकलाऽनुभूयमाना खनिमित्ततयैकखरूपमाक्षिपतीत्यर्थः । एवंरूपस्य भवनस्य किं पर्यायान्तरमप्यस्ति ? अस्तीत्याहभूतिरिति । भूतिश्चोत्पत्तावपि प्रयुज्यते-“भूतिर्यैषां क्रिया सैव कारणं सैव चोच्यते" इत्यादौ, एवञ्च तस्याद्यक्षणसम्बन्धस्याद्यक्षणवृत्तित्व एव पर्यवसान्न द्वितीयादिक्षणेऽपि सत्त्वं कुतः पर्यायप्रवाहानुयायित्वमनुगतमति निमित्तत्वमित्यत आहसत्त्वमिति, भू सत्तायामित्यनुशासनाद्भूतः सत्त्वरूपताऽध्यवसातव्या । ननु सत्त्वमपि न सर्वभेदानुगामि, द्रव्यगुणकर्मसु त्रिष्वेव सत्तासामान्यस्य वैशेषिकैरभ्युपगमादत आह-आश्रितसत्तातिरिक्तमिति, आश्रिता द्रव्यगुणकर्ममात्रवर्तिनी या सत्ता वैशेषिकाभ्युपगता तद्यतिरिक्तमित्यर्थः, अतिरिक्तसत्ताखण्डनं च स्याद्वादमजरीप्रभृतिग्रन्थतोऽवसेयम् । नन्वेवं सर्वपदार्थानां वरूपसत्त्वमेवानया वाचोभझ्या प्रतिपादितम् , तच्च प्रतिव्यक्ति भिन्नमेव सर्वपर्यायस्वरूपाणां भिन्नत्वात् , तत्कथं तदेकरूपमित्यत आह-मेदप्रत्यवमर्शेनेति, सर्व वस्तु सद्रूपमेव, यदेव सत्तदेव सत्त्वं, सत्सत्त्वयोर्द्वयोर्द्धर्मधर्मिणोः कल्पनापेक्षयैकस्य सतः कल्पनस्यैव युक्तत्वात् , तच्चैकमपि भेदप्रत्यवशेन भेदावगाहिविकल्पनेन, भिन्नवद् भिन्नमिवावभासते, यथैक एव चन्द्रस्तैमरिकद्विचन्द्रावभासिप्रत्ययेन द्विधाऽवभासत इति । तदेव चास्तीति मन्यत इति, उक्तलक्षणं सत्त्वमेवास्तीति मन्यते यो नयः स द्रव्यास्तिकः, तद्विषयभावमाभेजानं सदपि द्रव्यास्तिकमिति गीयते । सङ्गहनेगमव्यवहारास्त्रयो नया द्रव्यास्तिकतया प्रसिद्धास्तत्र कं नयमाश्रित्य सद्व्यास्तिकमित्युक्तमिति जिज्ञासायामाह-तच्चेति, सच्चेत्यर्थः । असङ्कीर्णस्वभावं पर्यायाव्यतिमिश्रम् । शुद्धप्रकृतिरूपं सर्वापेक्षया सामान्यखरूपमेव न तु कस्यचिदपेक्षया विशेषस्वरूपं महासामान्यमिति यावत् । अत एव च सर्वानुगतत्वादेकमद्वितीयम् । सजातीयद्वितीयराहित्यलक्षणमेकत्वं तस्य विजातीयविशेषकदम्बकसद्भावेऽपि उपपद्यत एवातः किञ्चिन्निष्ठभेदाप्रतियोगित्वमेवात्रैकत्वं वस्तुप्रतियोगिकभेदानाधारत्वलक्षणमेव वैकत्वं विवक्षितमित्याशयेनाह-प्रत्याख्यातेति, खनिष्ठभेदप्रतियोगितया खभेदाश्रयतया वा निराकृतेत्यर्थः। एतच्चैकस्यैव विशेषस्याभ्युपगमे शुद्धपर्यायनयविषयत्वाच्छुद्धप्रकृतिरूपस्यापि तस्य सम्भवेन नित्यतापर्यवसायितेत्यत आह-द्रव्यात्मकमिति, पूर्वोत्तरकालानुगामिस्वरूपमित्यर्थः । पर्यायसङ्कीर्णस्याप्येवम्भावः सम्भवत्येकस्य नातोऽसङ्कीर्णखभावता लभ्यत इत्यतो द्रव्यात्मकमित्यस्यैव व्याख्यानम्-द्रव्यमात्रमिति । एवम्भूतखरूपं प्रमाणस्य नापि कस्यापि नयस्य विषय इति नास्त्येवात उक्तम्-सङ्ग्रहप्ररूपणाविषयमिति, तथा चैवम्भूतार्थसद्भाव एव सङ्ग्रहोऽन्यनयासङ्कीर्णनयखरूपतयाऽऽत्मलाभं भजते नान्यथेति । अभिहितं "द्रव्यास्तिकम्" इत्यनेनोक्तम् । तत् किं द्रव्यास्तिकमन्यनयप्ररूपणाविषयमप्यस्ति यट्यावृत्तये प्रकृतं द्रव्यास्तिकमित्थं व्याख्यायत इत्यत आह-अपरमिति, सङ्ग्रहप्ररूपणाविषयद्रव्यमात्रखरूपसत्त्वभिन्नमित्यर्थः । कथमेवम्भूतस्य द्रव्यस्याशुद्धप्रकृतित्वमित्यतस्तत्र हेतुमुपन्यस्यति-यस्मादिति । स्वतन्त्री द्रव्यखरूपं सामान्यं विशेषेभ्यो भिन्नमेव विशेषाश्च पर्यायलक्षणाः सामान्यादत्यन्तविविक्ता एवेत्येवं परस्पर विभिन्ना विसर्थः । स्वरूपकायभेदाभ्यामतिरिक्तं सामा