SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ भाष्यदी का विवृतियुता ] पर्यायनयमाश्रित्योत्पादपर्यायेणोत्पन्नास्तिकं विनाशपर्यायेण पर्यायास्तिकम् । [ ६७ ] अधुना द्रव्यास्ति मातृका पदास्तिकाभिहिताविशिष्टवस्तुप्रतिक्षेपेण भेदा एव वस्तुत्वेनावयन्ते पर्यायनयेन, अनवरतोत्पादविनाशप्रवाहमात्रमेव वस्तु सकलव्यवहारनिबन्धनम्, न तु स्थितमस्ति किञ्चित्, आत्मभावलक्षणानन्तरविनाशित्वान्न किञ्चित् केनचिदेकेनाभिन्नेन स्थित्यंशेनावबध्यमानं सम्भाव्यते, तत्राशेषस्थूलसूक्ष्मोत्पादकलापस्य प्रतिपादकमुत्पन्नास्तिकमुत्पन्नेऽस्तिमति, नानुत्पन्ने वान्ध्येयव्योमोत्पलादाविति, योऽप्यात्मलाभक्षणोऽस्ति सन्नित्येवंविधशब्दवाच्यः सोऽप्यभूतप्रादुर्भावः प्रा नासीत् पश्चाल्लब्धात्माऽस्ति सन्नित्यादिशब्दव्यपदेश्यः, न तु भूत्वाऽस्तिमनुभवन्नस्तीत्याख्यायते, क्रियायाः कृतकत्वात् पचत्यादिवत्, कर्तुश्च तत्सम्बन्धेन कर्तृत्वप्रतिलम्भस्य कृतकत्वान्न स्थितसत्ताकमेकमस्ति किञ्चित्, प्रथमक्षणविलक्षणाश्चोत्तरोत्तरक्षणाः सन्तानाकारेणोपजनमासादयन्ति । तथा पर्यायास्तिकमित्युत्पत्तिमतोऽवश्यं विनश्वरत्वाद् यावन्त उत्पादास्तावन्त एव विनाशा इति विनाशेऽस्तिमति पर्यायास्तिकम्, पर्यायो भेदो विनाशलक्षणः सोऽस्त्येवोत्पन्नस्येति, पर्यायो हि विनाशपर्यायः, यथा प्राप्तपर्यायो देवदत्त इति, समस्तविस्रसाप्रयोगापादितविनाशसूचनाकारि च पर्यायास्तिकम् ॥ अपरे तु वर्णयन्त्यन्यथा उत्पन्नास्तिकं पर्यायास्तिकं च तत्र सामग्रीग्रहणादेकद्रव्यभाविनां पर्यायाणां काल वतारयति-अधुनेति, द्रव्यास्तिकमातृकापदास्तिकखरूपद्वयावधारक द्रव्य नयप्ररूपणानन्तरमित्यर्थः । अविशिष्टवस्त्विति, सामान्यसामान्यविशेषान्यतरात्म कानुगतवस्त्वित्यर्थः । भेदा एवेति, उत्पादविनाशस्वभावाः पर्याया एवेत्यर्थः । पर्यायनयवक्तव्यत।माविष्करोति-अनवरतेति, मध्यकालस्थिति रूपव्यवधानरहितेत्यर्थः । एवकारव्यवच्छेद्यमाह-न त्विति । स्थित्यभावे हेतुमाह-आत्मभावलक्षणेति, आत्मलाभक्षणेति पाठोऽत्र भवितुमर्हति तथा च आत्मलाभः पूर्वमसतः सत्त्वमुत्पत्तिरिति यावत्, तत्क्षणानन्तरक्षण विनाशित्वाद्भावमात्रस्येत्यर्थः । तत्रोत्पत्तिक्षणानन्तरविन शिनि भावे । उत्पन्नास्तिकमित्यस्य निरुक्तिलभ्यमर्थमाह-उत्पन्नेऽस्तिमतीति, उत्पन्न इति विशेषोक्तिव्यवच्छेद्यमाह - नानुत्पन्न इति यश्चानुत्पन्न - धर्मस्वभावमपि सदित्येवमभ्युपेयात्स वान्ध्येयादिकमपि सदित्येवमवधारयेन्न त्वसदित्यर्थ प्रकाशनाय वान्ध्येयेत्यादि विशेयोपवर्णनम् । आत्मलाभक्षणोऽपि तिरोभूततया सत एवाविर्भावलक्षणो न सोऽस्ति सन्नित्यादिशब्दवाच्यो येन तिरोभूताविर्भूतावस्थाऽनुगामिनो वस्तुत्वं स्यात्किन्त्वभूत्वा भवनलक्षण एवास्यादिशब्दवाच्य इत्याह-योऽप्यात्मलाभेति । अभूतप्रादुर्भावः पूर्वमभूतस्य पश्चात्प्रादुर्भावः । अस्यैव विवरणं-प्राग्नासीत्पश्चाल्लब्धात्मेति । तर्हि अस्तिपदेन किन्नाभिधीयते इत्यपेक्षायामाह - नन्विति । भूत्वा पूर्वकाले सत्त्वमनुभूय । अस्तिमनुभवन् वर्त्तमानकालस्थितिमा भेजानः । उत्पस्यादिक्रियाधारस्योत्पत्तिकर्त्तुः कृतकत्वेन न स्थित्याधारत्वसम्भवः, एकक्षणा च स्थितिरुत्पत्तिरेव द्व्यादिक्षणा च स्थितिर्न सम्भवत्येव तद्व्यवहारस्य तत्तत्क्षणस्थित्यन्यतमेनैव सम्पादनीयत्वादित्याशयेनाह - क्रियाया इति धात्वर्थत्वमत्र क्रियात्वम्, सप्तापि भूधात्वर्थतयाऽसधात्वर्थतया वा क्रियैव तदभिसम्बन्धवतश्च सतः कर्त्तुः स्थिरत्वलक्षणं स्थितत्वं तदा स्याद्यदि सा स्थिरा स्यात् सा च क्रियात्वात्कृतका न स्थिरेति । क्रियात्वस्य कृतकत्वेन व्याप्तेरवगतये दृष्टान्तमाह-पचत्यादिवदिति । तत्सम्बन्धेन क्रियासम्बन्धेन । कर्तृत्वप्रतिलम्भस्य कर्तृत्वस्वरूपप्राप्तेः । एतेन यदा कुलालो न घटं करोति किन्तूदासीन एवास्ते तदा न कुम्भकर्तृकुम्भकारपदव्यपदेश्य इत्यावेदितम् । तथा च घटादिरपि प्रतिक्षणमन्यान्य एव, व्यवहारश्चोत्पत्तिक्षणमारभ्याविनाशं नैकघटव्यक्तिमुपादाय किन्तु तत्सन्ततिसमाश्रयणेनेत्याह-प्रथमक्षणेति । उपजनम् आत्मलाभम् । उत्पन्नास्तिकं व्याख्याय पर्यायास्तिकं व्याख्यानयति - तथेत्यादिना । पर्यायशब्दस्य विनाशार्थकत्वदृढीकर णायाह-यथेति । प्राप्तपर्यायः प्राप्तविनाशः यथाऽशेषस्थूलसूक्ष्मोत्पादकलापप्ररूपणाप्रवणत्वमुत्पन्नास्तिकस्य तथाशेषविनाशकलापप्ररूपणाप्रवणत्वं पर्यायास्तिकयस्येत्याभ्यां पर्यायमात्र प्ररूपणायत्ताशेषानित्यप्रकारसमन्वयतो न न्यूनोक्तिता नाप्यधिकसङ्ख्याव्यवच्छेदानुपपत्तिरित्याशयेनाह - समस्तेति । उत्पन्नास्तिकपर्यायास्तिकयोर्व्याख्यानान्तरं केषाञ्चिदुपन्यस्यति - अपरे त्वित्यादिना । अन्यथा, पूर्वोपदर्शितप्रकारादन्यप्रकारेण । किं वर्णयन्तीत्यपेक्षायामाह - उत्पन्नास्तिकं पर्यायास्तिकञ्चेति । प्रथमोद्दिष्टमुत्पन्नास्तिकं तावदाह - तन्त्रेति, उत्पन्नास्तिकपर्यायास्तिकयोर्मध्य इत्यर्थः । सिध्यमानसिद्धवदिति यदुक्तं
SR No.022537
Book TitleTattvartha Trisutri Prakashika
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year1945
Total Pages150
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy