________________
[ ६८ ]
भिन्नभिन्नाचार्याभिप्रायेणोत्पन्नास्तिकपर्यायास्तिकयोरुपवर्णनम् । [ तत्त्वार्थत्रिसूत्री
तोऽर्थतो वाऽप्यव्यभिचारिणां यत्र व्यपदेशस्तदुत्पन्नास्तिकं सिध्यमानसिद्धवत्, यथा सिध्यमानः सिद्ध इति कालतोऽर्थतश्चाव्यभिचारी शब्दः, तथैकद्रव्यभाविनां पर्यायाणामयुगपद्वृत्तीनां युगपदग्रहणात् सामग्रीग्रहणाच्च यत्र व्यपदेश: स पर्यायादेशः, यथा स्पर्शादिमतां पुद्गलानामिन्द्रियैर्युगपदग्रहणादपि व्यपदेशः क्रियते - स्पर्शरसगन्धवर्णवन्तः पुद्गला इति । अपरे व्याचक्षते -
“तेषामुत्पादसम्भक्तेरुत्पन्नास्तिक देशना । उत्पद्यमानाः पर्यायाः, पर्यायास्तिकमुच्यते ॥" तेषामिति, द्रव्यमातृकापदास्तिकभेदानामुत्पादयोगादुत्पन्नास्तिकदेशना, पर्यायनयस्यानुत्पन्नेन व्यव - हाराभावात् तदानीमेव सन्, न ह्यनुत्पन्नाः केचिद् द्रव्यादयः सन्ति, अतीतानागतवर्तमानेष्वविशेषात्, यदा पुनरुत्पादसमावेशिनो वर्तमानकालावच्छिन्नाः पर्याया विवक्ष्यन्ते तदोत्पद्यमानावस्थायां पर्यायास्तिमुच्यते ॥ अन्ये त्वभिदधति - न मातृकापदास्तिकं द्रव्यास्तिकाद् भिद्यत इति द्रव्यनयपरिग्रहः, पर्यायास्तिकं च नोत्पन्नास्तिकाद् विविच्यत इति पर्यायनयपरिग्रहः, तदेवं चतुर्भिरपि विकपैर्न प्रतिपिपादयिषिता, एवं तर्हि द्रव्यादिचतुष्टयी किमर्थेति चेत्, तदुच्यते – उभयनयस्वभाप्रदर्शनार्था चतुष्टयी । एवमेतान्यन्यव्याख्यानान्यालोच्य भाष्यं कथमपि गमनीयम् । स्वव्याख्याना - नुसारेण तावदुच्यते, पर्यायनयश्चोत्पादविनाशद्वैविध्यप्रदिदर्शयिषया भाष्यकारेणोपचक्रमे - उत्पन्नास्तिकं पर्यायास्तिकमिति । स एष पर्यायनयमहाविटपी प्रौढदृढानवद्यर्जुसूत्रनयाद भ्रस्कन्धः सुप्रतिष्ठिताधारनानागमगहनशब्दन यशाखस्तदाश्रयसमभिरूढैवं भूत विविध विकल्पप्रशाखोऽर्थशब्दज्ञानशून्यतदेवोपपादयति-यथा सिध्यमान इति । पर्यायास्तिकं विवृणोति - तथैकद्रव्यभाविनामिति । अयुगपट्टत्तीनामित्यनेन कालतोऽर्थतो वा व्यभिचारिणामित्येवार्थः पूर्वस्माद्विशेषोऽवबोद्धव्यः । सामग्रीग्रहणादिति, रूपरसगन्धस्पर्शानामेकैवोत्पादिका यदि सामग्री तदाऽयुगपद्वृत्तीनामिति न घटते तथाऽपि भिन्नाऽपि सामथ्र्यभिन्न सामग्रीरूपतयैव गृह्यत इत्यभिप्रायेण सामग्रीग्रहणादिति व्याख्येयम्, पूर्वमपि सामग्री ग्रहणादित्यस्येत्थमेव व्याख्यानम्, अन्यथा सर्वथैकसामग्रीप्रभवस्यैकत्वे एकद्रव्यभाविनामिति बहुवचनमसमञ्जसं स्यादिति बोध्यम् । पर्यायादेशः पर्यायास्तिकम् । एतदेव दृष्टान्तेन भावयति यथेति । व्याख्यानान्तरमुपनिबध्नाति - अपरे व्याचक्षत इति । उत्पन्नास्तिकपर्यायास्तिकव्याख्यानरूपं तत्पद्यं विवृणोति - तेषामितीति । तेषामित्यस्यार्थकथनम् - द्रव्यमातृका पदास्तिक भेदानामिति । उत्पाद सम्भक्तेरित्यस्यार्थः - उत्पादयोगादिति । कथमुत्पादयोगादुत्पन्नास्तिकदेशने त्याकाङ्क्षायामाह-पर्यायनयस्येत्यादि । तदानीमेव उत्पन्नावस्थायामेव । एवकारव्यवच्छेद्यमाह-न ह्यनुत्पन्ना इति । अत्र हेतुः अतीतेति । उत्पद्यमाना इत्याद्युत्तरार्द्ध पर्यायास्तिकव्याख्यानरूपं विवृणोति यदेति । उत्पद्यमाना इत्यस्य विवरणम् - उत्पादसमावेशिनो वर्तमानकालावच्छिन्ना इति । पर्याया इत्यस्यार्थकथनम्-पर्याया विवक्ष्यन्त इति । पर्यायास्तिकमुच्यते इत्यस्य किञ्चिद्विशिष्यार्थकथनम्-तदोत्पद्यमानावस्थायां पर्यायास्तिकमुच्यत इति । अन्येषां चतुर्विधविकल्पस्यान्यथोपवर्णनमुपनिबध्नाति - अन्ये त्वभिदधतीति । एवं सति द्रव्यास्तिकं पर्यायास्तिकमित्येव वाच्यं किमर्थं विकल्पचतुष्टयाभिधानमित्यारे कते एवं तर्हीति । स्वभाववर्णनपरैव विकल्पचतुष्टयी नान्यत्प्रयोजनं तस्या इत्युतरयति - तदुच्यत इति । उभयनयस्वभावेति, द्रव्यपर्यायनयस्वभावेत्यर्थः । एतानि च परव्याख्यानानि यथोपपद्यन्ते तथा स्वयमेव प्रेक्षादक्षास्तत्र तत्र खबुद्धिवैभवमाधास्यन्ति ग्रन्थगौरवभयान्न सर्वोपपादनायास्माभिर्लेखनी व्याप्रियते इत्युपदिशति- एवमिति । खव्याख्याने व्याख्यानान्तरापेक्षया विशेषं मनसि निधायाह - स्वव्याख्यानानुसारेणेति । पर्यायनयरूपमहावृक्षस्य समन्तत उपबृंहणार्थ भाष्यकारेण उत्पन्नास्तिकं पर्यायास्तिकमित्येतज्जलावसेकरूपमुपनिबद्धमित्यर्थावगमनाय पर्यायनयस्य महावृक्षस्वरूपतयोपवर्णयति स एष पर्यायनयमहाविटपीति । स्कन्धशाखाप्रशाखापत्रपुष्पफलसमन्वितत्व एव महावृक्षत्वमस्य घटत इत्यतस्तदुपदर्शयति- प्रौढेत्यादि, प्रतन्यत इत्यन्तं व्यक्तार्थम् । तत्र