________________
माध्यटीकाविधृतियुता ] अतीतानागतपरिहारेण वर्तमानमात्रावगाहिन ऋजुसूत्रनयस्य वर्णनम् । [६९] ताङ्कुरपत्रपुष्पफलोपशोभितः पर्यायप्रधानत्वादुत्पादविनाशमात्रजलावसेकसंवर्धनीयः प्रतन्यते, तत्रर्जुसूत्रः कुटिलातीतानागतपरिहारेण वर्तमानक्षणावच्छिन्नवस्तुसत्तामात्रमृजें सूत्रयति-अन्यतो व्यवच्छिनत्ति सूत्रपातवत् , न ह्यतीतमनागतं वाऽस्ति, यदि स्यातामतीतानागते न तर्हि मृतपुत्रिका युवतिः पुत्रकमुद्दिश्य रुद्यात् , न च पुत्रार्थिनी योषिदौपयाजिकादि विशिष्टदेवतासन्निधौ विदध्यात्, तद्धि वस्तु वर्तमानक्षणावस्थाय्येव, न जातुचित् ततः परं सत्तामनुभवति, नाप्यतीतकालासादितात्मलाभ किञ्चित् तत्रान्वेति, स्वकारणकलापसामग्रीसन्निधावुत्पद्य स्वरसभङ्गुरतामवलम्बन्ते तत्क्षणमात्रावलम्बिनः सर्वसंस्काराः । एवं च सति य एते कर्तृभूतद्रव्यशब्दसन्निधौ क्रियाशब्दाः प्रयुज्यन्ते यथा देवदत्तः पचति पठति गच्छतीति, कर्मभूतद्रव्यशब्दसन्निधौ वा यथा घटो भिद्यते घटं वा भिनत्तीत्येवमादयो न यथार्थाः, कथम् ? यतो नामशब्देनाविकृतरूपस्य द्रव्यस्याभिधानात्, क्रियाशब्देन च विकारस्य प्रतिपाद्यत्वात् , न च विकाराविकारयोरैकाधिकरण्यमस्ति विरुद्धत्वात्, अर्थप्रत्यायनाय हि प्रयुक्तः शब्दो विरुद्धमर्थ प्रतिपादयन्नैव सम्यग्ज्ञानमाधत्ते । अयथार्थत्वात् , मृगतृष्णायां सलिलशब्दवदिति । उक्तार्थसंवादी च श्लोको गीतः पुराविदा"पलालं न दहत्यग्नि-भिद्यते न घटः कचित् । नासंयतः प्रव्रजति भव्यो-ऽसिद्धो न सिद्ध्यति ॥"
पलालं दह्यत इति यद् व्यवहारस्य वाक्यं तद् विरुध्यते, अत्र वाक्ये वाक्यार्थप्रतिपत्तये स्कन्धरूपस्य ऋजुसूत्रस्य स्वरूपमुपवर्णयति-तत्रर्जुसूत्र इत्यादिना । कुटिलेति, कुटिलं यदतीतमनागतं च तत्परिहारेण तत्परित्यागेनेत्यर्थः । वर्तमानेति, वर्तमानक्षणावच्छिन्ना या वस्तुसत्ता तन्मात्रमित्यर्थः । सूत्रयतीत्यस्यान्यतो व्यवछिनत्तीत्यर्थकथनम् । सूत्रपातवदिति, लोके ऊर्ध्वाधस्तिर्यग्व्यवस्थितानां पदार्थानां समश्रेणिव्यवस्थितत्वपरिज्ञानाय यथा सूत्रपातोऽनन्यसाधारणोपायस्तेनासमश्रेणिव्यवस्थितिपरिहारेण समश्रेणिव्यवस्थित्यवगतिस्तथेत्यर्थः । नन्वतीतानागतयोरपि वस्तुनोः सद्भावात्तद्व्यवच्छेदकस्यास्यासद्विषयकत्वेन दुर्णयत्वमेवेत्यत आह-न ह्यतीतमनागतं वाऽस्तीति । नहि वाङ्मात्रेण कस्यचिद्विधिः प्रतिषेधो वा सम्भवतीत्यतस्तत्र युक्तिमुपदर्शयति-यदीति । न तहीत्यादिनाऽतीतवस्तुसद्भावे दोष उदृङ्कितः । अनागतवस्तुसद्भावे दोषमुपदर्शयति-न च पुत्रार्थिनीति । अतीतस्यापि पुत्रस्य सद्भावेन तद्विरहस्याभावात्तन्निबन्धनशोकस्याभावे तत्कार्य रोदनं न स्यात् , एवं भाविनः पुत्रस्य पूर्वमपि भावेन तदप्राप्तेरेवाभावेन तन्निबन्धनपुत्रार्थिताया अभावेन तन्निबन्धनपुत्रप्राप्तिफलकमीष्टदेवतोत्तरकालीनाराधनाविशेषौपयाजिकादिसंकल्पनमपि न स्यादित्यर्थः । एवं च यद् ऋजुसूत्रवक्तव्यं तत्सम्पीण्ड्य दर्शयति-तद्धि वस्त्वित्यादिना । एवकारव्यवच्छेद्यमाह-न जातुचिदिति, कदाचिदपि नेत्यर्थः। ततः परं वर्तमानक्षणादूर्ध्वम् । वर्तमानकालीनस्योत्तरकालासत्त्वे पूर्वकालीनस्यापि यदा तस्यावस्थानं तत्काल एव तस्य वर्त्तमान इति न तस्य तदुत्तरकालः, यस्य वर्तमानस्तस्मिंस्तत्क्षणावच्छिन्ने नान्वयसम्भव इति प्राप्तमेव तथापि स्पष्टप्रतिपत्त्यर्थमाह-नाप्यतीतेति । तत्र वर्तमानक्षणावस्थायिनि वस्तुनि । तर्हि ऋजुसूत्रविषयाः पदार्थाः कीदृशाः ? इत्यपेक्षायामाह-स्वकारणकलापेति । सर्वसंस्काराः सर्वपदार्थाः । कर्तृकर्मक्रियाविषयाणां शब्दानां नास्मिन्मते याथार्थ्यमित्युपपादयन्नाह-एवं च सतीति, सर्वभावानां क्षणमात्रावलम्बित्वे च सतीत्यर्थः । अविगानेन सबैलौकिकपरीक्षकैः प्रयुज्यमानानां कर्तृसमभिव्याहृतानां कर्मसमभिव्याहृतानां वा क्रियाशब्दानां कथं न याथार्थ्यमिति पृच्छति-कथमिति । अविकृतयोः कर्तृकर्मणोः विकारात्मक्रियाकालेऽभावात्सामानाधिकरण्यानुपपत्तेरनुपपद्यमानार्थकत्वादयाथार्थ्यमित्याशयेनोत्तरयति-यत इति । नामशब्देन व्याकरणकर्तृनामसङ्केतविषयशब्देन । क्रियाशब्देन क्रियाविशेषार्थसङ्केतितधातुना । अयथार्थत्वाचोक्तशब्दानां सम्यग्ज्ञानजनकत्वलक्षणं प्रामाण्यमपि कुत इत्याहअर्थप्रत्यायनाय हीति । आधत्ते जनयति । उक्तर्जुसूत्रप्ररूपणं संवादयितुमाह-उक्तार्थसंवादी चेति । "पलालं न दहत्यग्निः” इतिप्रथमचरणार्थमुपपादयति-पलालं दह्यत इतीत्यारभ्य प्रमत्तगीतावेतावितीत्यन्तेन । पलाल