________________
[७०] ऋजुसूत्रनयोपसंहारः, शब्दनयानामुपवर्णनश्च। [तत्त्वार्यत्रिसूत्री पदार्थप्रविभागकाले पलालशब्दो विशिष्टाकारद्रव्यवचनो नामशब्दः, तद्धि द्रव्यं यावत् तस्मिन्नेवाकारे वर्तते तावदेव पलालशब्दवाच्यम् , अन्यदा तु पलालभावेन तस्याभाव एव, तद्भावेनाभावात् पटवत् , तस्मात् स्थिररूपमव्यापारमुदासीनमविकृतं पलालशब्देन वस्तु प्रतिपादितम् , कथं तदेव दह्यत इत्यनेन शब्देनोच्येत ? क्रियाशब्दस्य विकाराभिधायित्वात् , न हि स एवार्थो विकारश्चाविकारश्च भवितुमुत्सहते, यदि हि तत् पलालं न तर्हि तदेव दह्यते, अविपरिणतत्वात् प्रागवस्थावत् , विपरिणममानं च पलालमेव तन्न भवति, विपरिणामशब्दस्य भावान्तरवाचित्वात् , तस्माद् यावत् तत् पलालं तावन्न दह्यते, यदा दह्यते तदा पलालं न भवतीत्यतो नैतावेकस्यार्थस्य प्रत्यायनाय सम्यरज्ञानोपजनकारणम् , शब्दान्तरापत्त्यसहिष्णुत्वात् प्रमत्तगीतावेताविति, एवं घटायुदाहरणभावना कार्या । एवं च सदेकक्षणवृत्त्येव, नित्यं पुनर्नैवास्ति वस्तु किश्चिदिति ॥ _____एवमृजुसूत्रनयेन निरूपिते वस्तुनि शब्दनयस्तढ्यावृत्त्यर्थमाह-शब्दप्रयोगोऽर्थगत्यर्थः, तत्र वक्तुरर्थानुविधायी शब्दोऽर्थवशात् तस्य शब्दप्रयोगः, श्रोतुः पुनः शब्दवशादर्थप्रतिपत्तिरिति शब्दानुविधाय्यर्थः, शब्दनयाश्च शब्दानुरूपमर्थमिच्छन्ति, यथा शब्दस्तथाऽर्थोऽपि प्रतिपत्तव्यः, समनन्तरनयप्रतिपादितं वर्तमानरूपप्रवृत्तं वस्तु सूक्ष्मतरेण शब्देन भिद्यते, ऋजुसूत्रस्तु वर्तमानानेकधर्मरूपमपि घटं शब्देनाभिधीयमानं सम्यगभ्युपैति, यथा मृद्धटोऽस्ति घटो द्रव्यं घट इति, यद्यसौ मृद्रूपेण द्रव्यतया च न शब्दवाच्यस्य विशिष्टाकारद्रव्यस्याविकृतरूपस्य दह्यत इति शब्दवाच्यस्य विकारविशेषाक्रान्तस्य विरुद्धधर्माध्यासादन्योन्यं भिन्नत्वेनाभेदासम्भवान्न सामानाधिकरण्यमुपपद्यत इत्येतत्प्रपञ्चत आह-अत्र हीति । तद्धि विशिष्टाकारं हि। अन्यदा विशिष्टाकारप्रच्युतिवेलायाम् । तस्य विशिष्टाकारद्रव्यस्य । तद्भावेन पलालभावेन । पटवदिति, पलालभावेनाभावात्पटो यथा न पलालं तथेत्यर्थः । पलालमिति नानो दह्यत इति क्रियाया विरोधमेव निगमयति-तस्मादिति । तत दाहकालावस्थितं वस्तु । पलालं विशिष्टाकारद्रव्यरूपमविकृतम् । तदेव अविकृतं विशिष्टाकारद्रव्यरूपमेव । विपरिणममानं च विशिष्टाकारपरित्यागेनान्यथाकारपरिग्रहेणोपजातञ्च । उपसंहरति-तस्मादिति । नैताविति, पलालं दह्यत इति शब्दौ नेत्यर्थः । नमः कारणमित्यनेन सम्बन्धः। निषेधे हेतुमाह-शब्दान्तरापत्त्यसहिष्णुत्वादिति, तयोरेकशब्दवाच्यस्यापरशब्दवाच्यत्वयोग्यत्वाभावादित्यर्थः । “भिद्यते न घटः क्वचिद" इत्यादीनामपीत्थमेवार्थभावना कार्यत्यतिदिशति-एवं घटायुदाहरणभावना कार्येति । ऋजुसूत्रवक्तव्यमुपसंहरति-एवं चेति । एवकारव्यवच्छेद्यमाहनित्यं पुनरिति, एतावता प्रौढदृढानवद्यर्जुसूत्रनयादभ्रस्कन्ध इति विशेषणोपपत्तिः कृता । इदानीं सुप्रतिष्ठिताधारनानागमगहनशब्दनयशाख इति विशेषणं भावयितुं शब्दनयं प्ररूपयति-एवं ऋजुसूत्रनयेनेति । शब्दनयः साम्प्रतसमभिरूढवम्भूतभेदेन त्रिविधः, तत्र साम्प्रतस्य सामान्यशब्देनाप्यभिधानमिति बोध्यम् । तद्वद्यावृत्त्यर्थम् ऋजुसूत्रनयाभिप्रेतवस्तुव्यवच्छित्तये। आहेति क्रियायाः कर्मोपनिबध्नाति-शब्दप्रयोगोऽर्थगत्यर्थ इति, अर्थविशेषावगतये शब्दविशेषोपादानमित्यर्थः । यथाऽर्थस्तथा शब्दं प्रयुञ्जते वक्तारः, यतो वाक्यरचना प्रतिवाक्यार्थज्ञानस्य हेतुत्वादित्यर्थानुरोध्येव वक्तुः शब्दप्रयोगः । श्रोता तु गृहीतसङ्गतिकं यादृशं शब्दं शृणोति तादृशशब्दानुरोधिनमेवार्थमवगच्छतीति तस्य शब्दानुरोध्यर्थ इत्याह-तत्र वक्तुरिति । तस्य वक्तुः । शब्दानुरूपार्थाभ्युपगमे त्रयाणामपि शब्दनयानामेकवाक्यतेत्यभिसन्धायोक्तम्-शब्दनयाश्चेति । शब्दानुरूपमर्थमिच्छन्तीति यदुक्तं तदेव प्रपञ्चयति-यथा शब्दस्तथाsर्थोऽपि प्रतिपत्तव्य इति । समनन्तरनयेति, ऋजुसूत्रनयेत्यर्थः । वर्तमानरूपप्रवृत्तं वर्तमानकालवृत्तियावद्धर्मसमन्वितम् । सूक्ष्मतरेण पुंस्त्वस्त्रीत्वनपुंसकत्वादिना। शब्देन पुंस्त्रीनपुंसकलिङ्गादिभेदभाजा शब्देन । भिद्यते भिन्नमेव भवति । एतदेव क्रमेण ऋजुसूत्रशब्दनययोरुपेयोपवर्णनेन दर्शयति-ऋज़सूत्रस्त्वित्यादिना। मृत्त्वास्तित्वद्रव्यत्वानि घटेऽभ्युपेयानीवत्र शब्दप्रयोग एवार्थानुरोध्युपदर्यतेऽभ्युपगमसमानाकारः-यथेति । उक्ताभ्युपगमेऽनिष्टप्रसङ्गरूपस्तर्कोऽन्यथाभ्युपगमबाधकतयोपोद्वलक इत्याह-यद्यसाविति, असौ घटः । ऋजुसूत्रनयोपेयमुपदर्य साम्प्रतनयरूपशब्दनयो