Book Title: Tattvartha Trisutri Prakashika
Author(s): Vijaylavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 109
________________ [ ६८ ] भिन्नभिन्नाचार्याभिप्रायेणोत्पन्नास्तिकपर्यायास्तिकयोरुपवर्णनम् । [ तत्त्वार्थत्रिसूत्री तोऽर्थतो वाऽप्यव्यभिचारिणां यत्र व्यपदेशस्तदुत्पन्नास्तिकं सिध्यमानसिद्धवत्, यथा सिध्यमानः सिद्ध इति कालतोऽर्थतश्चाव्यभिचारी शब्दः, तथैकद्रव्यभाविनां पर्यायाणामयुगपद्वृत्तीनां युगपदग्रहणात् सामग्रीग्रहणाच्च यत्र व्यपदेश: स पर्यायादेशः, यथा स्पर्शादिमतां पुद्गलानामिन्द्रियैर्युगपदग्रहणादपि व्यपदेशः क्रियते - स्पर्शरसगन्धवर्णवन्तः पुद्गला इति । अपरे व्याचक्षते - “तेषामुत्पादसम्भक्तेरुत्पन्नास्तिक देशना । उत्पद्यमानाः पर्यायाः, पर्यायास्तिकमुच्यते ॥" तेषामिति, द्रव्यमातृकापदास्तिकभेदानामुत्पादयोगादुत्पन्नास्तिकदेशना, पर्यायनयस्यानुत्पन्नेन व्यव - हाराभावात् तदानीमेव सन्, न ह्यनुत्पन्नाः केचिद् द्रव्यादयः सन्ति, अतीतानागतवर्तमानेष्वविशेषात्, यदा पुनरुत्पादसमावेशिनो वर्तमानकालावच्छिन्नाः पर्याया विवक्ष्यन्ते तदोत्पद्यमानावस्थायां पर्यायास्तिमुच्यते ॥ अन्ये त्वभिदधति - न मातृकापदास्तिकं द्रव्यास्तिकाद् भिद्यत इति द्रव्यनयपरिग्रहः, पर्यायास्तिकं च नोत्पन्नास्तिकाद् विविच्यत इति पर्यायनयपरिग्रहः, तदेवं चतुर्भिरपि विकपैर्न प्रतिपिपादयिषिता, एवं तर्हि द्रव्यादिचतुष्टयी किमर्थेति चेत्, तदुच्यते – उभयनयस्वभाप्रदर्शनार्था चतुष्टयी । एवमेतान्यन्यव्याख्यानान्यालोच्य भाष्यं कथमपि गमनीयम् । स्वव्याख्याना - नुसारेण तावदुच्यते, पर्यायनयश्चोत्पादविनाशद्वैविध्यप्रदिदर्शयिषया भाष्यकारेणोपचक्रमे - उत्पन्नास्तिकं पर्यायास्तिकमिति । स एष पर्यायनयमहाविटपी प्रौढदृढानवद्यर्जुसूत्रनयाद भ्रस्कन्धः सुप्रतिष्ठिताधारनानागमगहनशब्दन यशाखस्तदाश्रयसमभिरूढैवं भूत विविध विकल्पप्रशाखोऽर्थशब्दज्ञानशून्यतदेवोपपादयति-यथा सिध्यमान इति । पर्यायास्तिकं विवृणोति - तथैकद्रव्यभाविनामिति । अयुगपट्टत्तीनामित्यनेन कालतोऽर्थतो वा व्यभिचारिणामित्येवार्थः पूर्वस्माद्विशेषोऽवबोद्धव्यः । सामग्रीग्रहणादिति, रूपरसगन्धस्पर्शानामेकैवोत्पादिका यदि सामग्री तदाऽयुगपद्वृत्तीनामिति न घटते तथाऽपि भिन्नाऽपि सामथ्र्यभिन्न सामग्रीरूपतयैव गृह्यत इत्यभिप्रायेण सामग्रीग्रहणादिति व्याख्येयम्, पूर्वमपि सामग्री ग्रहणादित्यस्येत्थमेव व्याख्यानम्, अन्यथा सर्वथैकसामग्रीप्रभवस्यैकत्वे एकद्रव्यभाविनामिति बहुवचनमसमञ्जसं स्यादिति बोध्यम् । पर्यायादेशः पर्यायास्तिकम् । एतदेव दृष्टान्तेन भावयति यथेति । व्याख्यानान्तरमुपनिबध्नाति - अपरे व्याचक्षत इति । उत्पन्नास्तिकपर्यायास्तिकव्याख्यानरूपं तत्पद्यं विवृणोति - तेषामितीति । तेषामित्यस्यार्थकथनम् - द्रव्यमातृका पदास्तिक भेदानामिति । उत्पाद सम्भक्तेरित्यस्यार्थः - उत्पादयोगादिति । कथमुत्पादयोगादुत्पन्नास्तिकदेशने त्याकाङ्क्षायामाह-पर्यायनयस्येत्यादि । तदानीमेव उत्पन्नावस्थायामेव । एवकारव्यवच्छेद्यमाह-न ह्यनुत्पन्ना इति । अत्र हेतुः अतीतेति । उत्पद्यमाना इत्याद्युत्तरार्द्ध पर्यायास्तिकव्याख्यानरूपं विवृणोति यदेति । उत्पद्यमाना इत्यस्य विवरणम् - उत्पादसमावेशिनो वर्तमानकालावच्छिन्ना इति । पर्याया इत्यस्यार्थकथनम्-पर्याया विवक्ष्यन्त इति । पर्यायास्तिकमुच्यते इत्यस्य किञ्चिद्विशिष्यार्थकथनम्-तदोत्पद्यमानावस्थायां पर्यायास्तिकमुच्यत इति । अन्येषां चतुर्विधविकल्पस्यान्यथोपवर्णनमुपनिबध्नाति - अन्ये त्वभिदधतीति । एवं सति द्रव्यास्तिकं पर्यायास्तिकमित्येव वाच्यं किमर्थं विकल्पचतुष्टयाभिधानमित्यारे कते एवं तर्हीति । स्वभाववर्णनपरैव विकल्पचतुष्टयी नान्यत्प्रयोजनं तस्या इत्युतरयति - तदुच्यत इति । उभयनयस्वभावेति, द्रव्यपर्यायनयस्वभावेत्यर्थः । एतानि च परव्याख्यानानि यथोपपद्यन्ते तथा स्वयमेव प्रेक्षादक्षास्तत्र तत्र खबुद्धिवैभवमाधास्यन्ति ग्रन्थगौरवभयान्न सर्वोपपादनायास्माभिर्लेखनी व्याप्रियते इत्युपदिशति- एवमिति । खव्याख्याने व्याख्यानान्तरापेक्षया विशेषं मनसि निधायाह - स्वव्याख्यानानुसारेणेति । पर्यायनयरूपमहावृक्षस्य समन्तत उपबृंहणार्थ भाष्यकारेण उत्पन्नास्तिकं पर्यायास्तिकमित्येतज्जलावसेकरूपमुपनिबद्धमित्यर्थावगमनाय पर्यायनयस्य महावृक्षस्वरूपतयोपवर्णयति स एष पर्यायनयमहाविटपीति । स्कन्धशाखाप्रशाखापत्रपुष्पफलसमन्वितत्व एव महावृक्षत्वमस्य घटत इत्यतस्तदुपदर्शयति- प्रौढेत्यादि, प्रतन्यत इत्यन्तं व्यक्तार्थम् । तत्र

Loading...

Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150