Book Title: Tattvartha Trisutri Prakashika
Author(s): Vijaylavanyasuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
[६४]
. सतः प्रथमभेदस्य नयविशेषमाश्रित्य विवरणम् । [तत्त्वार्थत्रिसूत्री पाद्यप्रतिपादकभावलक्षणसम्बन्धविवक्षायां षष्ठी समासश्च । एवं मातृकापदास्तिकादिष्वपि योज्यम् । द्रव्यमेवामेदं भिद्यते न पर्यायः, द्रव्यं भवनलक्षणं मयूराण्डकरसवदुपारूढसर्वभेदबीजं देशकालक्रमव्यङ्ग्यभेदसमरसावस्थमेकरूपं भवनं-भूतिः सत्त्वमाश्रितसत्तातिरिक्तं भेदप्रत्यवमर्शनाभिन्नमपि भिन्नवदाभासते, तदेव चास्तीति मन्यते, तच्च द्रव्यास्तिकमसङ्कीर्णस्वभावं शुद्धप्रकृतिरूपमेकं प्रत्याख्याताशेषविशेषकदम्बकं द्रव्यात्मकं द्रव्यमानं सङ्ग्रहप्ररूपणाविषयमभिहितम् , अपरं नैगमव्यवहारविषयमशुद्धप्रकृति, यस्माद् द्रव्यपर्यायावुभाविच्छति नैगमः स्वतत्रौ, सामान्यमर्थान्तरभूतमन्यदेवाश्रितं सदभिप्रतिपादकम् । प्रतिपादकस्य प्रतिपाद्यापेक्षणात् पृच्छति-कस्येति । इयं च समासव्युत्पादनप्रक्रिया मातृकापदास्तिकमित्यादावपि योज्यत्याह-एवमिति । समाससाधुत्वे किमस्यैदम्पर्यमिति बुभुत्सुम्प्रत्याह-द्रव्यमेवेति । अभेदम् अभिन्नखभावम् । द्रव्यं किंलक्षणकमित्यत आह-द्रव्यं भवनलक्षणमिति । एतदपि सम्मुग्धखरूपमुच्यमानं नास्मादृशानां मन्दमतीनां मनीषोन्मेषायालमित्यत आह-मयूराण्डकेति, मयूराण्डकरसो यथोत्तरकालभाविपिच्छार्द्धचन्द्राकृत्यादिविचित्राङ्गोपाङ्गप्रत्यलरसविशेषसमष्टिसमनुगतत्वादुत्तरसर्वपर्यायबीजभूतस्तथेत्यर्थः, उपारूढः शक्तिरूपेण समवस्थितः, सर्वभेदः सर्वप
यस्तस्य बीजं निमित्तमित्यर्थः। यदि सर्वे पर्यायाः प्रथमत एव द्रव्ये शक्तिरूपेण व्यवस्थिताः किमिति ? युगपदेव नोपलभ्यन्त इत्यत आह-देशकालक्रमेति । कथं देशकालक्रमव्यङ्ग्येषु भेदेषु पर्यायेषु भिन्नखभावेषु समरसावस्थतया समस्खभावतया द्रव्यं युज्यत इत्यत आह-एकरूपमिति, अनुगतप्रतीतिनियामकमित्यर्थः, पर्यायाणां भेदेऽपि सर्वत्र सत्सदितिप्रतीतिरविकलाऽनुभूयमाना खनिमित्ततयैकखरूपमाक्षिपतीत्यर्थः । एवंरूपस्य भवनस्य किं पर्यायान्तरमप्यस्ति ? अस्तीत्याहभूतिरिति । भूतिश्चोत्पत्तावपि प्रयुज्यते-“भूतिर्यैषां क्रिया सैव कारणं सैव चोच्यते" इत्यादौ, एवञ्च तस्याद्यक्षणसम्बन्धस्याद्यक्षणवृत्तित्व एव पर्यवसान्न द्वितीयादिक्षणेऽपि सत्त्वं कुतः पर्यायप्रवाहानुयायित्वमनुगतमति निमित्तत्वमित्यत आहसत्त्वमिति, भू सत्तायामित्यनुशासनाद्भूतः सत्त्वरूपताऽध्यवसातव्या । ननु सत्त्वमपि न सर्वभेदानुगामि, द्रव्यगुणकर्मसु त्रिष्वेव सत्तासामान्यस्य वैशेषिकैरभ्युपगमादत आह-आश्रितसत्तातिरिक्तमिति, आश्रिता द्रव्यगुणकर्ममात्रवर्तिनी या सत्ता वैशेषिकाभ्युपगता तद्यतिरिक्तमित्यर्थः, अतिरिक्तसत्ताखण्डनं च स्याद्वादमजरीप्रभृतिग्रन्थतोऽवसेयम् । नन्वेवं सर्वपदार्थानां वरूपसत्त्वमेवानया वाचोभझ्या प्रतिपादितम् , तच्च प्रतिव्यक्ति भिन्नमेव सर्वपर्यायस्वरूपाणां भिन्नत्वात् , तत्कथं तदेकरूपमित्यत आह-मेदप्रत्यवमर्शेनेति, सर्व वस्तु सद्रूपमेव, यदेव सत्तदेव सत्त्वं, सत्सत्त्वयोर्द्वयोर्द्धर्मधर्मिणोः कल्पनापेक्षयैकस्य सतः कल्पनस्यैव युक्तत्वात् , तच्चैकमपि भेदप्रत्यवशेन भेदावगाहिविकल्पनेन, भिन्नवद् भिन्नमिवावभासते, यथैक एव चन्द्रस्तैमरिकद्विचन्द्रावभासिप्रत्ययेन द्विधाऽवभासत इति । तदेव चास्तीति मन्यत इति, उक्तलक्षणं सत्त्वमेवास्तीति मन्यते यो नयः स द्रव्यास्तिकः, तद्विषयभावमाभेजानं सदपि द्रव्यास्तिकमिति गीयते । सङ्गहनेगमव्यवहारास्त्रयो नया द्रव्यास्तिकतया प्रसिद्धास्तत्र कं नयमाश्रित्य सद्व्यास्तिकमित्युक्तमिति जिज्ञासायामाह-तच्चेति, सच्चेत्यर्थः । असङ्कीर्णस्वभावं पर्यायाव्यतिमिश्रम् । शुद्धप्रकृतिरूपं सर्वापेक्षया सामान्यखरूपमेव न तु कस्यचिदपेक्षया विशेषस्वरूपं महासामान्यमिति यावत् । अत एव च सर्वानुगतत्वादेकमद्वितीयम् । सजातीयद्वितीयराहित्यलक्षणमेकत्वं तस्य विजातीयविशेषकदम्बकसद्भावेऽपि उपपद्यत एवातः किञ्चिन्निष्ठभेदाप्रतियोगित्वमेवात्रैकत्वं वस्तुप्रतियोगिकभेदानाधारत्वलक्षणमेव वैकत्वं विवक्षितमित्याशयेनाह-प्रत्याख्यातेति, खनिष्ठभेदप्रतियोगितया खभेदाश्रयतया वा निराकृतेत्यर्थः। एतच्चैकस्यैव विशेषस्याभ्युपगमे शुद्धपर्यायनयविषयत्वाच्छुद्धप्रकृतिरूपस्यापि तस्य सम्भवेन नित्यतापर्यवसायितेत्यत आह-द्रव्यात्मकमिति, पूर्वोत्तरकालानुगामिस्वरूपमित्यर्थः । पर्यायसङ्कीर्णस्याप्येवम्भावः सम्भवत्येकस्य नातोऽसङ्कीर्णखभावता लभ्यत इत्यतो द्रव्यात्मकमित्यस्यैव व्याख्यानम्-द्रव्यमात्रमिति । एवम्भूतखरूपं प्रमाणस्य नापि कस्यापि नयस्य विषय इति नास्त्येवात उक्तम्-सङ्ग्रहप्ररूपणाविषयमिति, तथा चैवम्भूतार्थसद्भाव एव सङ्ग्रहोऽन्यनयासङ्कीर्णनयखरूपतयाऽऽत्मलाभं भजते नान्यथेति । अभिहितं "द्रव्यास्तिकम्" इत्यनेनोक्तम् । तत् किं द्रव्यास्तिकमन्यनयप्ररूपणाविषयमप्यस्ति यट्यावृत्तये प्रकृतं द्रव्यास्तिकमित्थं व्याख्यायत इत्यत आह-अपरमिति, सङ्ग्रहप्ररूपणाविषयद्रव्यमात्रखरूपसत्त्वभिन्नमित्यर्थः । कथमेवम्भूतस्य द्रव्यस्याशुद्धप्रकृतित्वमित्यतस्तत्र हेतुमुपन्यस्यति-यस्मादिति । स्वतन्त्री द्रव्यखरूपं सामान्यं विशेषेभ्यो भिन्नमेव विशेषाश्च पर्यायलक्षणाः सामान्यादत्यन्तविविक्ता एवेत्येवं परस्पर विभिन्ना विसर्थः । स्वरूपकायभेदाभ्यामतिरिक्तं सामा

Page Navigation
1 ... 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150