Book Title: Tattvartha Trisutri Prakashika
Author(s): Vijaylavanyasuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
[६२]
निरुक्तभाध्यस्य प्रकारान्तरेण व्याख्यानं सतश्चतुर्विध्यश्च । [ तत्वार्थत्रिसूत्री
तविषयो व्यवहारोऽर्पितव्यवहारः शब्दपरिप्रापितव्यवहार इत्यर्थः, सोऽस्य सतोऽस्ति नित्यस्य चेत्यपितव्यावहारिकं सन्नित्यं च, एवमनर्पितव्यावहारिकमपि द्रष्टव्यमसदनित्यं च यदा चासदनित्ये शब्देन साक्षात् प्रतिपिपादयिषिते तदाऽर्पिते ते, इतरे तु सन्नित्ये गम्यमाने तत्रानर्पिते भवतः, तस्मादेकत्र वस्तुन्यर्पितधर्मपरिग्रहोऽनर्पितधर्मसत्तानान्तरीयकः, यथा कृतकत्वधर्माभ्युपगमोऽनित्यत्वसत्तानान्तरीयकः, एकत्यागश्चापरपरित्यागाविनाभावी यथा अनित्यत्वपरित्यागे कृतकत्व परित्यागोऽवश्यंभावीति । चन्दः समुचिनोति सर्वान् विकल्पान् । इतिशब्दों हेतौ यस्मादर्पितधर्मविषयः शब्दव्यवहारस्तस्मादर्पितानर्पितसिद्धेः सन्नित्ये असदनित्ये च विवक्षावशात्; अवधारणे वा, एतावानेव शब्दव्यवहारो यदुतार्पितानर्पितधर्मविषयो नान्य इति । अर्थ इत्यभिधेयप्रतिपत्तिमाचष्टे, समासत एषोऽर्थः सूत्रस्येतियावत् । धर्मार्थकाममोक्षलक्षणः सकलः पुरुषार्थस्तद्योग्यव्यवहारार्पणाभ्यां यथावदधिगम्यत इति ।।
[ भाष्यम् - ] तत्र सच्चतुर्विधम्, तद्यथा - द्रव्यास्तिकं, मातृकापदास्तिकं, उत्पनास्तिकं पर्यायास्तिकमिति ।
तत्र सच्चतुर्विधमित्यादि । तत्र तेषु सन्नित्यासदनित्येषु, सतो भेदानाचष्टे - सच्चतुर्विधमेव, न त्रिधा न च पचधा, तदुद्देशार्थमाह- द्रव्यास्तिकमित्यादि । उत्पादादिमूलभेदान्तः पात्येव, सविऽर्पितव्यवहार इति तत्पुरुषसमासमाश्रित्य एवमनर्पितव्यवहारेऽपि बोध्यम् । अर्पितव्यवहारः क इत्यपेक्षायामाह - शब्देति । सः, अर्पितव्यवहारः । तत् किं सन्नित्यमर्पितव्यावहारिकमेव ? असदनित्यमनर्पितव्यावहारिकमेव ?, एवं सत्यचैवैकान्तः पदं निदधातीत्यत आह- यदा चेति । वस्तुनि कस्यचिद्धर्मस्यार्पितव्यवहारिकत्वे कस्यचिद्धर्मस्यानर्पितव्यावहारिकत्वे सिद्धे सति यन्निष्पद्यते तदुपसंहरति-तस्मादिति । भाष्ये चशब्दं समुच्चयार्थकतया व्याख्यानयति-वशब्द इति । सर्वान् विकल्पानिति, स्यादर्पितव्यवहारिकं स्यादनर्पितव्यवहारिकं स्यादवक्तव्यं, स्यादर्पितव्यवहारिकं स्यादवक्तव्यमित्यादिविकल्पानित्यर्थः । ‘चेत्यर्थ’ इति भाष्यघटकेतिशब्दस्य हेत्वर्थकत्वे सति यदुक्तं भवति तदाह यस्मादिति । अवधारणे वेति, इतिशब्द इति दृश्यम् । इतिशब्दस्यावधारणार्थकत्वे योऽर्थस्सम्पद्यते तमावेदयति- एतावानेवेति । इत्यर्थ इति भाष्यघटकार्थशब्द व्याख्यानयति-अर्थ इतीति । सूत्रस्य 'अर्पितानर्पित सिद्धेः' इति सूत्रस्य । अर्थच लोके धर्मार्थकाममोक्षभेदेन चतुर्विधः ख्यातः, स एव चार्थशब्दस्य मुख्योऽर्थः, तदुपाये तु तत्साधनत्वाद् गौणोऽर्थशब्दः, प्रकृतसूत्रस्य तूपदर्शितोऽर्थः सूत्राभिधेयत्वात्साङ्केतिकोऽर्थः; अथवा धर्मार्थकाममोक्षरूपपुरुषार्थसाधनत्वाद् गोणोऽर्थः तत्र गौणार्थत्वे मुख्यार्थत्वे वा भवत्युक्तसूत्रस्योपादेयत्वं, साङ्केतिकत्वे तु न पुरुषार्थकाङ्क्षिकाणामिदमुपादेयं काकदन्तपरीक्षणवन्निष्फलत्वादित्यत उक्तसूत्रार्थस्य गौणार्थत्वेन मुख्यार्थ प्रतिलम्भकत्वतस्तत्प्रतिपादकस्य लौकिकपरीक्षकोपादेयत्वमाविष्कर्तुमाह-धर्मार्थेति । अधिगम्यत इति, प्राप्यत इत्यर्थः । सदसन्नित्यानित्यात्मकत्वं वस्तुन उपपादितम्, तत्र सदंशस्य द्रव्यनयपर्यायनयाभ्यां चतुर्विधत्वमुपपादयति-तत्रेत्यादि । चतुर्विधमित्यस्य नियमपरतामाह - चतुर्विधमेवेति । एवकारव्यवच्छेद्यमाह-न त्रिधेति, अनेन न्यून सङ्ख्याव्यवच्छेद उक्तः । न च पञ्च वेत्यनेनाधिकसङ्ख्याव्यवच्छेदः । तदुद्देशार्थमाहेति, तच्चतुर्विधमिति सामान्येन कथनरूपो यः सत उद्देशस्तस्यार्थं विविक्तचतुष्टयरूपम् आह प्रतिपादयतीत्यर्थः । उत्पादादिमूल भेदान्तः पात्येवेति द्रव्यास्तिकमित्यादिना सतोऽपूर्वमेव धर्मान्तरन्नाविष्क्रियते, किन्तु " उत्पादव्ययध्रौव्ययुक्तं सद्” इति सूत्राभिमतो य उत्पादव्ययधौ व्यात्मकत्रितयस्वरूपो मूलभेदस्तदन्तः पात्येव द्रव्यास्तिकं मातृकापदास्तिकमित्यादी त्यर्थः यतो द्रव्यास्तिकमित्यनेन शुद्धद्रव्याभ्युपगन्तृसङ्घहैन यविषयमहासामान्यात्मकद्रव्यखरूपत्वमेव प्रतिपाद्यते तच्च तद्रूपेणाविनाशधर्मकत्वलक्षणनित्यत्वापरपर्यायनौव्यमेव भवति, मातृकापदास्तिकमित्यनेन शुद्धद्रव्याभ्युपगन्तृव्यवहारनयविषय सत्त्वावान्तरद्रव्यत्वपृथिवीत्वघटत्वाद्यवान्तरसामान्य विशेषात्मकद्रव्य स्वरूपत्वं प्रतिपाद्यते, तदपि तद्रूपेण बहुकालावस्थानलक्षणावान्तरध्रौव्यमेव भवति, उत्पन्नास्तिकमित्यनेन प्रतिक्षणा पूर्वा पूर्वोत्पादाभ्युपगन्तृपर्याय नय मूर्धाभिषि कर्जु सूत्रनय विषयोत्पादस्वरूपपर्याय एवावेद्यते,

Page Navigation
1 ... 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150