Book Title: Tattvartha Trisutri Prakashika
Author(s): Vijaylavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 101
________________ [ ६० ] स्याद्वादस्य स्वतत्त्वपोषणप्रकारोपवर्णनम् । [भाष्यम् - ] अर्पितव्यावहारिकमनर्पितव्यावहारिकं चेत्यर्थः ॥ अर्पितव्यावहारिकमित्यादिना प्रक्रान्तं - त्रिविधं सन्नित्यं च तदपेक्षया नपुंसकलिङ्गनिर्देशः । आदिमदनादियुगपदयुगपद्भावित्रिकालविषयपर्यायार्पण भजनानेकान्तप्ररूपणो हि परिणामार्थः, तैः पर्यायैः प्रतिषेधसमप्रादेश विकला देशैः स्वपरार्थशब्द पर्यायभजनया च स्वं स्वं तत्त्वं पुष्णातीति विस्तरेण चरितार्थमेतत्, तत्र स्थितिलक्षणोऽन्तरङ्गस्तत्परिणामरूपत्वात् तत्सहावस्थायित्वात्, बहिरङ्गावुत्पादव्ययौ विस्रसाप्रयोगेण च कादाचित्कौ द्रव्यादिभेदात् प्रतिपन्नानन्तभेदौ; एवं चार्थोऽर्पिता - नार्पितसिद्धेरिति सूत्रार्थं इत्याह- अर्पितव्यावहारिकमिति, घटादिरपि साक्षात्सत्त्ववाचकेन सच्छब्देन व्यवह्रियमाणोऽर्पितव्यवहारिक इति, एवं गम्यमानासत्त्वादिधर्मेण व्यवहियमाणोऽनर्पितव्यवहारिक इति पुंलिङ्गनिर्देशोऽपि सङ्गतार्थ इति कथं नपुंसकेनैव 'अर्पितव्यावहारिकम्' इत्यादिनोपन्यास इत्यपेक्षायामाह - प्रक्रान्तमित्यादि । त्रिविधम् उत्पादव्ययध्रौव्यरूपं वस्तु । सन्नित्यं चेति चकारेण प्रक्रान्तमित्यस्यानुकर्षः । तदपेक्षया प्रक्रान्तनपुंसकापेक्षया । साद्यनादिपारिणामिकभावयुक्तो हि अर्थः परमार्थो भवति, अर्थे सर्वेऽपि धर्माः परिणामा एव तेन स्याद्वादप्ररूपणस्य परिणाम एव अर्थः परिणामबहिभूतस्य कस्यचिद्धर्मस्याभावात् तत्र यः कश्चित्प्रयोजनवशेन साक्षाच्छब्देन व्यवह्रियते सोऽर्पितः, यश्च गम्यः सोऽनर्पित इत्येतत्प्रपञ्चयन्नाह-आदिमदनादीत्यादि । अर्पणभजनानेकान्तप्ररूपण इति, अर्पणभजना अर्पणमनर्पणञ्च तद्रूपो योऽनेकान्तस्य स्याद्वादस्य प्ररूपणः स इत्यर्थः । परिणामार्थ इति, परिणामा आदिमदनादिमदाद्या अर्था यस्य स तथेत्यर्थः, एवंभूतो हि अनेकान्त प्ररूपणः स्याद्वादवादः स्वं स्वं तत्त्वं पुष्णाति इत्यन्वयः, एकधर्मरूपेण प्ररूपणे तु न सम्पूर्णार्थावबोध इति न तस्य स्वतत्त्वपरिपोषकत्वमित्यभिसन्धिः । अत्रेतिकर्तव्यताकाङ्क्षायां ( कथम्भावाकाङ्क्षायाम् ) आह- तैः पर्यायैरिति, तैरन्तरोदितैरादिमदनादिमदादिभिः यस्य कस्यचित्पर्यायस्यार्पितस्य विवक्षितस्य प्रथमभङ्गविषयस्य विधिरूपत्वं सामर्थ्यप्राप्तमेवेति कृत्वा विध्युपन्यासो न कृतः, प्रथमभङ्गप्रतिपाद्यस्य यो विपक्षभूतः स प्रतिषेधेत्यनेन विवक्षितः, समग्रादेशेत्यनेन स्यादस्ति १ स्यान्नास्ति २ स्यादवक्तव्यम् ३ इत्येवं सप्तभक्त्या आद्यास्त्रयः प्रकारा अभिमताः, तत्प्रतिपाद्याः पर्याया अपि वाच्यवाचकयोरभेदविवक्षतया तथा, विकालादेशेत्यनेन स्यादस्ति स्यान्नास्ति १ स्यादस्ति स्यादवक्तव्यं च २ स्यान्नास्ति चावक्तव्यं च ३ स्यादस्ति स्यान्नास्ति स्यादवक्तव्यं च ४ इत्येवं चत्वारः प्रकाराः, तत्प्रतिपाद्याः पर्यायाश्च तथा, एवं तैः पर्यायैः प्रतिषेधसमग्रादेशविकला देशैरुक्ताने कान्तप्ररूपणः स्वं स्वं तत्त्वं पुष्णातीति, तथा स्वपरार्थशब्द पर्यायभजनया चेति, प्ररूपणं च शब्दार्थाभ्यां सम्पद्यत इति शब्दस्य ये खपरपर्याया ये चार्थस्य खपरपर्यायास्तेषां प्रत्येकं भजना व्याख्याङ्गमिति एकपदार्थतत्त्वप्ररूपणेsपि जगदेव साक्षात्परम्परया खपरपर्यायवरूपप्रविष्ट तयोपयोगित्वेनाङ्गमिति खपर्यायस्य यस्य कस्यचित्प्रयोजनवशादर्पितत्वे तदविनाभावादनर्पितं स्वपर्यायान्तरं परपर्यायकदम्बकं च सिद्ध्यत्येवेति कृत्वा सर्वैरपि तैरनेकान्तप्ररूपणात्मा स्याद्वादः स्वं स्वं तत्त्वं पुष्णातीति युज्यते । एवं सति ' अर्पितानर्पित सिद्धेः' इति सूत्रं विस्तरेण सर्वतत्त्वव्यापकतया चरितार्थं भवतीत्याह - इति विस्तरेणेति, एवंप्रकार व्याख्यानबहुलभावेनेत्यर्थः । चरितार्थ निष्पन्नप्रयोजनम् । एतद् 'अर्पितानर्पित सिद्धेः' इति सूत्रम् । स्वाभाविको हि स्वपर्यायोऽन्तरङ्गः, अन्याधीनश्च परपर्यायो बहिरङ्ग इति विवक्षयाऽर्थस्य स्थितिः स्वपर्यायोऽन्तरङ्गः, उत्पादव्ययौ च परपर्यायौ बहिरङ्गाविति खपर्यायोऽर्पितः परपर्यायोऽनर्पितस्तदात्मकत्वादर्थोऽर्पितानर्पितस्तत्सिद्धेर्व्यवहारोऽस्खलद्रूप इत्युत्पादव्ययध्रौव्यात्मकोऽर्थोऽर्पितव्यावहारिको ऽनर्पित व्यावहारिकश्च भवतीत्याशयेनाह - तत्रेति । अन्तरङ्गत्वे हेतुः- तत्परिणामत्वादिति । कादाचित्कपरिणामस्याप्येतावताऽन्तरङ्गत्वं स्यादतो हेत्वन्तरमाह - तत्सहावस्थायित्वादिति । एतद्विपरीतस्वभावयोरुत्पादव्यययोर्बहिरङ्गत्वमुपदर्शयति- बहिरङ्गावुत्पादव्ययाविति । तत्र हेतुः - विस्रसेति । स्थितेरेकप्रकारत्वमुत्पादव्यययोश्चानन्तप्रकारत्वमतोऽपि बहिरङ्गत्वमित्याह- द्रव्यादिभेदादिति, आदिपक्षात्क्षेत्रादेरुपग्रहः, यद्यपि द्रव्यरूपेणावस्थितिरेव नोत्पादव्ययौ तथापि कारणमिह द्रव्यपदेन गृह्यते तच्च कारणत्वोपाधिकम्, कारणत्वञ्च निरूपक कार्यभेदेन भिन्नम्, यद्यदा यदाकारपरिणामेन यत्कार्यजननक्षमं भवति तत्तदा तदाकारपरिणामेनोत्पद्यमानं तद्द्रव्यतयोत्पन्नमिति व्यपदिश्यते, तदाकारपरिणामं च त्यजत्तद्रव्यतया विनश्यतीत्युच्यते, एवं यत्क्षेत्रं यदवगाहनायां यदा व्याप्रियते तदा तत्क्षेत्रतयोत्पद्यते, तदवगाहनपरिणामनिवृत्तौ तत्क्षेत्रतया विनश्यतीत्युच्यते, एवं कालादावप्यूह्यम्, एतौ परोपाधिकत्वाहिरङ्गौ । ' अर्पितव्यावहारिकम्' इत्यादिभाष्य सङ्गमनायाह एवं चेति, स्याद्वादप्ररूपणया वस्तुन्यनन्तधर्मात्मकत्वव्यवस्थितौ [ तत्त्वार्थत्रिसूत्री

Loading...

Page Navigation
1 ... 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150