________________
[ ६० ]
स्याद्वादस्य स्वतत्त्वपोषणप्रकारोपवर्णनम् ।
[भाष्यम् - ] अर्पितव्यावहारिकमनर्पितव्यावहारिकं चेत्यर्थः ॥
अर्पितव्यावहारिकमित्यादिना प्रक्रान्तं - त्रिविधं सन्नित्यं च तदपेक्षया नपुंसकलिङ्गनिर्देशः । आदिमदनादियुगपदयुगपद्भावित्रिकालविषयपर्यायार्पण भजनानेकान्तप्ररूपणो हि परिणामार्थः, तैः पर्यायैः प्रतिषेधसमप्रादेश विकला देशैः स्वपरार्थशब्द पर्यायभजनया च स्वं स्वं तत्त्वं पुष्णातीति विस्तरेण चरितार्थमेतत्, तत्र स्थितिलक्षणोऽन्तरङ्गस्तत्परिणामरूपत्वात् तत्सहावस्थायित्वात्, बहिरङ्गावुत्पादव्ययौ विस्रसाप्रयोगेण च कादाचित्कौ द्रव्यादिभेदात् प्रतिपन्नानन्तभेदौ; एवं चार्थोऽर्पिता - नार्पितसिद्धेरिति सूत्रार्थं इत्याह- अर्पितव्यावहारिकमिति, घटादिरपि साक्षात्सत्त्ववाचकेन सच्छब्देन व्यवह्रियमाणोऽर्पितव्यवहारिक इति, एवं गम्यमानासत्त्वादिधर्मेण व्यवहियमाणोऽनर्पितव्यवहारिक इति पुंलिङ्गनिर्देशोऽपि सङ्गतार्थ इति कथं नपुंसकेनैव 'अर्पितव्यावहारिकम्' इत्यादिनोपन्यास इत्यपेक्षायामाह - प्रक्रान्तमित्यादि । त्रिविधम् उत्पादव्ययध्रौव्यरूपं वस्तु । सन्नित्यं चेति चकारेण प्रक्रान्तमित्यस्यानुकर्षः । तदपेक्षया प्रक्रान्तनपुंसकापेक्षया । साद्यनादिपारिणामिकभावयुक्तो हि अर्थः परमार्थो भवति, अर्थे सर्वेऽपि धर्माः परिणामा एव तेन स्याद्वादप्ररूपणस्य परिणाम एव अर्थः परिणामबहिभूतस्य कस्यचिद्धर्मस्याभावात् तत्र यः कश्चित्प्रयोजनवशेन साक्षाच्छब्देन व्यवह्रियते सोऽर्पितः, यश्च गम्यः सोऽनर्पित इत्येतत्प्रपञ्चयन्नाह-आदिमदनादीत्यादि । अर्पणभजनानेकान्तप्ररूपण इति, अर्पणभजना अर्पणमनर्पणञ्च तद्रूपो योऽनेकान्तस्य स्याद्वादस्य प्ररूपणः स इत्यर्थः । परिणामार्थ इति, परिणामा आदिमदनादिमदाद्या अर्था यस्य स तथेत्यर्थः, एवंभूतो हि अनेकान्त प्ररूपणः स्याद्वादवादः स्वं स्वं तत्त्वं पुष्णाति इत्यन्वयः, एकधर्मरूपेण प्ररूपणे तु न सम्पूर्णार्थावबोध इति न तस्य स्वतत्त्वपरिपोषकत्वमित्यभिसन्धिः । अत्रेतिकर्तव्यताकाङ्क्षायां ( कथम्भावाकाङ्क्षायाम् ) आह- तैः पर्यायैरिति, तैरन्तरोदितैरादिमदनादिमदादिभिः यस्य कस्यचित्पर्यायस्यार्पितस्य विवक्षितस्य प्रथमभङ्गविषयस्य विधिरूपत्वं सामर्थ्यप्राप्तमेवेति कृत्वा विध्युपन्यासो न कृतः, प्रथमभङ्गप्रतिपाद्यस्य यो विपक्षभूतः स प्रतिषेधेत्यनेन विवक्षितः, समग्रादेशेत्यनेन स्यादस्ति १ स्यान्नास्ति २ स्यादवक्तव्यम् ३ इत्येवं सप्तभक्त्या आद्यास्त्रयः प्रकारा अभिमताः, तत्प्रतिपाद्याः पर्याया अपि वाच्यवाचकयोरभेदविवक्षतया तथा, विकालादेशेत्यनेन स्यादस्ति स्यान्नास्ति १ स्यादस्ति स्यादवक्तव्यं च २ स्यान्नास्ति चावक्तव्यं च ३ स्यादस्ति स्यान्नास्ति स्यादवक्तव्यं च ४ इत्येवं चत्वारः प्रकाराः, तत्प्रतिपाद्याः पर्यायाश्च तथा, एवं तैः पर्यायैः प्रतिषेधसमग्रादेशविकला देशैरुक्ताने कान्तप्ररूपणः स्वं स्वं तत्त्वं पुष्णातीति, तथा स्वपरार्थशब्द पर्यायभजनया चेति, प्ररूपणं च शब्दार्थाभ्यां सम्पद्यत इति शब्दस्य ये खपरपर्याया ये चार्थस्य खपरपर्यायास्तेषां प्रत्येकं भजना व्याख्याङ्गमिति एकपदार्थतत्त्वप्ररूपणेsपि जगदेव साक्षात्परम्परया खपरपर्यायवरूपप्रविष्ट तयोपयोगित्वेनाङ्गमिति खपर्यायस्य यस्य कस्यचित्प्रयोजनवशादर्पितत्वे तदविनाभावादनर्पितं स्वपर्यायान्तरं परपर्यायकदम्बकं च सिद्ध्यत्येवेति कृत्वा सर्वैरपि तैरनेकान्तप्ररूपणात्मा स्याद्वादः स्वं स्वं तत्त्वं पुष्णातीति युज्यते । एवं सति ' अर्पितानर्पित सिद्धेः' इति सूत्रं विस्तरेण सर्वतत्त्वव्यापकतया चरितार्थं भवतीत्याह - इति विस्तरेणेति, एवंप्रकार व्याख्यानबहुलभावेनेत्यर्थः । चरितार्थ निष्पन्नप्रयोजनम् । एतद् 'अर्पितानर्पित सिद्धेः' इति सूत्रम् । स्वाभाविको हि स्वपर्यायोऽन्तरङ्गः, अन्याधीनश्च परपर्यायो बहिरङ्ग इति विवक्षयाऽर्थस्य स्थितिः स्वपर्यायोऽन्तरङ्गः, उत्पादव्ययौ च परपर्यायौ बहिरङ्गाविति खपर्यायोऽर्पितः परपर्यायोऽनर्पितस्तदात्मकत्वादर्थोऽर्पितानर्पितस्तत्सिद्धेर्व्यवहारोऽस्खलद्रूप इत्युत्पादव्ययध्रौव्यात्मकोऽर्थोऽर्पितव्यावहारिको ऽनर्पित व्यावहारिकश्च भवतीत्याशयेनाह - तत्रेति । अन्तरङ्गत्वे हेतुः- तत्परिणामत्वादिति । कादाचित्कपरिणामस्याप्येतावताऽन्तरङ्गत्वं स्यादतो हेत्वन्तरमाह - तत्सहावस्थायित्वादिति । एतद्विपरीतस्वभावयोरुत्पादव्यययोर्बहिरङ्गत्वमुपदर्शयति- बहिरङ्गावुत्पादव्ययाविति । तत्र हेतुः - विस्रसेति । स्थितेरेकप्रकारत्वमुत्पादव्यययोश्चानन्तप्रकारत्वमतोऽपि बहिरङ्गत्वमित्याह- द्रव्यादिभेदादिति, आदिपक्षात्क्षेत्रादेरुपग्रहः, यद्यपि द्रव्यरूपेणावस्थितिरेव नोत्पादव्ययौ तथापि कारणमिह द्रव्यपदेन गृह्यते तच्च कारणत्वोपाधिकम्, कारणत्वञ्च निरूपक कार्यभेदेन भिन्नम्, यद्यदा यदाकारपरिणामेन यत्कार्यजननक्षमं भवति तत्तदा तदाकारपरिणामेनोत्पद्यमानं तद्द्रव्यतयोत्पन्नमिति व्यपदिश्यते, तदाकारपरिणामं च त्यजत्तद्रव्यतया विनश्यतीत्युच्यते, एवं यत्क्षेत्रं यदवगाहनायां यदा व्याप्रियते तदा तत्क्षेत्रतयोत्पद्यते, तदवगाहनपरिणामनिवृत्तौ तत्क्षेत्रतया विनश्यतीत्युच्यते, एवं कालादावप्यूह्यम्, एतौ परोपाधिकत्वाहिरङ्गौ । ' अर्पितव्यावहारिकम्' इत्यादिभाष्य सङ्गमनायाह एवं चेति, स्याद्वादप्ररूपणया वस्तुन्यनन्तधर्मात्मकत्वव्यवस्थितौ
[ तत्त्वार्थत्रिसूत्री