________________
भाज्यटीकाविवृतियुता] क्रमभुवां पर्यायाणां सहानवस्थानविरोऽपि द्रव्यनयादभेदे स न । [५९] देवमनुष्यादीनां मृत्पिण्डशिवकादीनां च विरोधोऽसहावस्थानलक्षणः, सोऽपि द्रव्यास्तिकनयप्राधान्यादभेदे विवक्षिते पर्यायाणां द्रव्यव्यतिरेकेणानभ्युपगमानास्तीति न कश्चिद् विरोधोऽस्ति स्याद्वादिनः, तमःप्रकाशच्छायातपशीतोष्णविरोधोदाहरणनिरास उक्तविधिनाऽवगम्यः, द्रव्यार्थतो नित्याः पुद्गलाः तमस्तया च क्रमजन्मानः परिणमन्ते पर्यायाः, सामान्यस्याभिन्नत्वादेकरूपा एवेति कः केन विरुध्यते । इत्थमर्थस्य सामान्यविशेषात्मैकरूपत्वेऽन्योन्यापेक्षित्वेऽनेकान्तात्मकत्वे एकान्तवादिपरिकल्पिताज्जात्यन्तरत्वे च न कश्चिद् दोषः, तथा स्थित्यंशस्य नित्यत्वादुत्पादव्ययानित्यत्वादुभयस्याभिन्नस्वभाववस्तुतायां कथमिदं घटते ? नित्यानित्ययोरेकपरिग्रहोऽपरत्यागनान्तरीयकः, एकत्यागश्चापरपरिग्रहाविनाभावीति, प्रत्यक्षादिप्रमाणबाधितत्वादुन्मत्तकप्रलापमात्रमेतदवसीयत इति, तस्मान्न परिकल्पितविषयो विरोधो न परिकल्पितापरिकल्पितविषयो न सकलस्वलक्षणविषयो नापि सामयिकः, किं तर्हि ? पर्यायनयाभिप्रायेण क्रमजन्यपर्यायविषयः, स चैक एवासहावस्थानलक्षणः, सोऽपि द्रव्यार्थनयाभिप्रायेण नैवास्तीति भावितम् । एवं चैकवस्तुविषये सदसती नित्यानित्ये च अर्पितानर्पितसिद्धेरिति व्यवस्थितम् ॥ द्वितीयसम्बन्धाभिधानेऽपि सङ्गतार्थमेव भाष्यमुक्तेन विधिना, एतमेवार्थमधुना भाष्येण प्रपञ्चयति
स्याद्वादिपरिकल्पितस्य वस्तुनो जात्यन्तरत्वमित्यपेक्षायामाह-एकान्तवादीति। ननु युगपदवस्थायिनां पर्यायाणां युगपदेकत्रावस्थानादेवोक्तलक्षणो विरोधो मा भवतु क्रमभाविनां तु पर्यायाणां विरोधः स्यादेवेत्यत आह-स्यात्त्विति, स्यादित्यस्य विरोध इत्यनेनान्वयः । क्रमभाविनामपि पर्यायार्थिकनयाश्रयणेन भेदे विभिन्न कालवृत्तित्वादौ च विवक्षिते विरोधः स्यात् , स्याद्वादे तु द्रव्यार्थिकनयाश्रयणेन तेषां खपरिणामिद्रव्यरूपत्वेन तदभिन्नाभिन्नस्य तदभिन्नत्वमिति नियमेनान्योन्यमेकरूपत्वेन सहावस्थानमेवेति नास्ति विरोध इत्याशयेनाह-सोऽपीति, अस्य नास्तीत्युत्तरेण योगः। उक्तन्यायनान्यत्रापि विरोधः परिहरणीय इत्याह-तमःप्रकाशेति । तमःप्रकाशादीनां विरोधाभावमेव स्पष्टमाचष्टे-द्रव्यार्थत इति। निगमयति-इत्थमित्यादिना, मुक्तप्रकारेणेत्यर्थः । अर्थस्य वस्तुनः, अस्य सप्तम्यन्तचतुष्टयेऽन्वयः, एकस्याप्यर्थस्यान्योन्यापेक्षित्वं सामान्यविशेषात्मकत्वान्न दुर्वचम् । नित्यानित्योभयात्मनि वस्तुनि नित्यत्वांशेऽर्पितेऽनर्पितमपि अनित्यत्वांशं तदविनाभावादेव सियति न त्वेकविधानेऽपरत्यागोऽपरत्यागे वा तदन्यस्य विधानम् , तथा च
"परस्परविरोधे हि न प्रकारान्तरस्थितिः । नैकतापि विरुद्धानामुक्तिमात्रविरोधतः ॥ १॥” इति । परवचनमपि नात्र क्रमते स्याद्वाद्यभिमतजात्यन्तररूपप्रकारान्तरस्य सद्भावादित्याशयेनाह-तथा स्थित्यंशस्येति । उभयस्य नित्यानित्योभयस्य । अभिन्नस्वभावेति, जात्यन्तररूपेत्यर्थः। नित्यानित्ययोरेकपरिग्रह इत्यादि, नित्यपरिग्रहोऽनित्यत्यागनान्तरीयकः, अनित्यपरिग्रहो नित्यत्यागान्तरीयकः, एवं नित्यत्यागोऽनित्यपरिग्रहान्तरीयकः, अनित्यत्यागो नित्यपरिग्रहान्तरीयक इत्यर्थः, इदं कथं घटत इत्यस्यात्र सम्बन्धः, न घटत इति तदर्थः । कुतो न घटत इत्यपेक्षायामाह-प्रत्यक्षादीति, प्रत्यक्षादिप्रमाणेन नित्यानित्ये संवलित एवानुभूयेते इति नित्यपरिग्रहस्यानित्यपरिग्रहाविनाभा वित्वमेव न तु तत्त्यागाविनाभावित्वमित्याशयः। तथा च नित्यानित्ययोरित्यादिवचनमुन्मत्तकवचनवदश्रद्धेयमित्याह-उन्मत्तकेति । उपसंहरतितस्मादिति । परिकल्पितविषयः सामान्यद्वय विषयः। परिकल्पितापरिकल्पितविषयः सामान्यस्खलक्षणविषयः । सामयिक एककालवृत्तित्वलक्षणः । प्रत्येकं नोपादानं विरोधप्रकाराणां सर्वेषामत्यन्तासम्यक्त्वप्रदर्शनार्थम् । तत् किं नास्त्येव कोऽपि विरोधप्रकारः, नैवम् , तर्हि कोऽयं विरोधः कथञ्च स सङ्गत इत्यपेक्षायामाह-किन्तीति । सोऽपि क्रमजन्मपर्यायविषयोऽसहावस्थानलक्षणविरोधोऽपि । विरोधखण्डनमुपसंहृत्य प्रकृतमर्थमुपसंहरति-एवं चेति । यत् साक्षाद्वाचकेन शब्देनाभिधीयमानं सद्व्यवहारपथमृच्छति तदर्पितव्यवहारिकं तत्सिद्धिरर्पितसिद्धिः, यच्च साक्षाच्छब्देन वाचकेन नाभिधीयतेऽपि तु शब्दवाच्यार्थेन सहाविनाभावात्प्रतीयन्नेव व्यवहारपथमनुधावति तदनर्पितव्यवहारिक तत्सिद्धिरनर्पितसिद्धिरित्येवार्पिता