________________
[५८] सुगतगदितविरोधनिरोधे रूपादीनां समुदायैकरूपत्वाभाषत्वनिरासः। [तत्वार्थत्रिसूत्री सहोत्पादावस्थानदर्शनादेकद्रव्यवृत्तित्वाच्च, द्रव्यमेव चक्षुरादिग्रहणापदेशविशेषाद् रूपादिव्यपदेश्यमेकपुरुषपितृपुत्रत्वादिवत्, न च रूपादीनां समुदायैकरूपताऽभ्युपगमनीया, रूपग्रहणे रसादिग्रहणप्रसङ्गादिन्द्रियान्तरवैयर्थ्यसङ्करादिदोषप्रसङ्गाच्च । न चाभावता, प्रमाणाभावात् प्रसिद्धिविरोधाच्च । खलक्षणविरोधोऽपि नास्येव, सामान्यविशेषात्मैकलक्षणत्वात् स्याद्वादिपरिगृहीतस्य वस्तुनः, जात्यन्तरत्वाच नरसिंहवदेकान्तवादिपरिकल्पिताद् वस्तुन इति । स्यात् तु क्रमजन्मनां धर्माणामसहावस्थायिनां य एवैकापेक्षया स्थूलः स एवान्यापेक्षया सूक्ष्म इत्येक एव पर्याय एकदैव स्थूलतयाऽप्युत्पन्नः सूक्ष्मतयाऽपि, एवं स्थूलतयाऽप्यवस्थितं सूक्ष्मतयाऽप्यवस्थितम् , य एव पर्यायः स्वोत्तराविच्छिन्नकतिपयपर्यायानुगामितया नित्यः स एव स्वपूर्वावस्थसद्व्यादिसामान्यापेक्षयाऽननुगामितयाऽनित्य इत्येवं नित्यानित्ययोरपि सहोत्पादसहावस्थानादि भावनीयम् । न च नित्यस्योत्पाद एव नास्तीति वाच्यम् , खविशेषस्वरूपतयोत्पादस्य तत्रापि भावात्, सहोत्पादावस्थानात्कालिकाविरोध उक्तः, देशतोऽपि तेषां सहावस्थानमस्तीत्याह-एकद्रव्यवृत्तित्वाञ्चेति । रूपत्वरसत्वादीनां विभिन्नेन्द्रियग्राह्याणां विभिन्नाधिकरणवृत्तीनां नास्त्येकदेशतेति तेषां सहानवस्थानमेवेति परो यदि ब्रूयात्तत्राह-द्रव्यमेवेति । चक्षुरादीति, आदिपदादसनादिपरिग्रहः । ग्रहणापदेशो ग्रहणविषयत्वम् , तथा च एकमेव द्रव्यं चक्षुर्मात्रजन्यग्रहविषयत्वाद्रूपपदवाच्यं त्वग्मात्रजन्यज्ञानविषयत्वात् स्पर्शपदवाच्यं रसनेन्द्रियजन्यप्रत्यक्षविषयत्वाद्रसपदवाच्यं घ्राणेन्द्रियजन्यप्रत्यक्षविषयत्वाद्गन्धपदवाच्यमित्येकत्रैष द्रव्ये तत्तदपेक्षया रूपत्वादिकं वर्तत इति रूपत्वादीनामपि सहावस्थानमेवेति भावः । कथमेकस्मिन्नपेक्षाभेदेन विरुद्धखभावानामपि समावेशोऽदृष्टचरोऽभ्युपेय इत्यतस्तत्र दृष्टान्तमाह-एकपुरुषपितृपुत्रत्वादिवदिति, आदिपदान्मातुलत्वभागिनेयत्वादीनां ग्रहणम् । यथैक एव देवदत्तः स्वपुत्रापेक्षया पितृपदव्यपदेश्यः स्वपित्रपेक्षया पुत्रपदव्यपदेश्यः, स्वभागिनेयाऽपेक्षया मातुलपदव्यपदेश्योऽपि स्वमातुलापेक्षया भागिनेयपदव्यपदेश्यः, एवं पितृव्यभ्रातृव्यादिपदव्यपदेश्यस्तथा प्रकृते. ऽपीति । ननु रूपादीनां रूपरसगन्धस्पर्शसमुदायात्मकत्वं यदेव रूपं तदेव रसादीलेकमेव वा किमिति नाभ्युपेयते विरोधस्य भवतैव खहस्तितत्वादित्यत आह-न चेति । निषेधे हेतुमाह-रूपग्रहण इति । अनानुभविकस्यापि रूपग्रहणे रसादिग्रहणप्रसङ्गस्येष्टत्वे दोषान्तरमाह-इन्द्रियान्तरेति, रूपादीनां समुदायैकरूपत्वे चक्षुषो रूपग्रहणसामर्थे रसग्रहणसाम
र्थ्यमभ्युपेयमेव अन्यथा रसादिघटितसमुदायात्मकरूपग्रहणसामर्थ्यमपि न स्यादित्येकेनैव चक्षुषा रूपादिग्रहणोपपत्तौ रसनेन्द्रियादिकमनर्थकं प्रसज्येत, एवं चक्षुह्यस्य रूपत्वे रसस्यापि रूपत्वं रसनाग्राह्यस्य रसत्वे रूपस्यापि तत्त्वमित्येवं सङ्कीर्णसाऽपि स्यादित्यर्थः, आदिपदाव्यतिकरादिदोषस्योपग्रहः । ननु समुदायरूपत्वे एकरूपत्वे चोभयत्रापि दोषदर्शनादनभ्युपेयमेव रूपादिकं विभिन्नरूपमेव वाऽऽस्थेयमित्यत आह-न चाभावतेति, तुच्छरूपत्वमनेकरूपत्वं वाऽभावत्वमत्र निषेध्यतयाऽभिमतम् , उभयत्र प्रमाणभावादिति हेतुः, विधिमुखेनैव प्रतीयमानानां रूपादीनां निषेधरूपत्वे प्रमाणाभावात् , चक्षु. रादिका रूपं रस इत्यादिरूपेणैव गृह्णाति न तु रूपं रसात्पृथगित्यादिरूपेणेति सर्वथा नानात्वेऽपि प्रमाणाभावादित्यर्थः, नानात्वस्याभावता चैकत्वस्य भावताविवक्षया बोध्या, या च रूपस्य रूपमिति विधिमुखेन प्रतीतिरूपा प्रसिद्धिः, एवं रसादीनामपि, तद्विरोधोऽपि तेषामभावरूपत्वे इत्याह-प्रसिद्धिविरोधाञ्चेति । ननु द्रव्यं खलक्षणं सत् कथं तिर्यक्सामान्याद्यास्मकमिति खलक्षणात्मकविशेषसामान्ययोः सहानवस्थानविरोधो भविष्यतीत्यत आह-खलक्षणविरोधोऽपि नास्त्येवेति । एकस्यैव वस्तुनोऽनुवृत्तिषुद्धिजनकत्वात्सामान्यत्वं व्यावृत्तिबुद्धिजनकत्वाद्विशेषत्वमित्येक एव भावः सामान्यविशेषोभयात्मा, न त्वत्यन्तव्यतिरिक्तसामान्यमुपादायानुगतबुद्धिरतिरिक्तविशेषमुपादायव्यावृत्तबुद्धिः, अन्योऽन्यव्यतिरिक्तयोः सामान्यविशेषयोरभावादित्याशयेनाह-सामान्य विशेषात्मकैकलक्षणत्वादिति, एतत्तत्त्वञ्च"स्वतोऽनुवृत्तिव्यतिवृत्तिभाजो भावा न भावान्तरनेयरूपाः । परात्मतत्त्वादतथात्मतत्त्वाइयं वदन्तोऽकुशलाः स्खलन्ति ॥ १॥" इति हेमचन्द्रसूरिवरपद्यव्याख्याने स्याद्वादमञ्जऱ्या व्यक्तम् । वस्तुनः सामान्यात्मकत्वपक्षे विशेषात्मकत्वपक्षे च यो दोष एकान्तवादिभिरुख़ुष्यते स स्याद्वादपक्षे कथमुद्धरणीय इत्यपेक्षयामाह-स्याद्वादिपरिगृहीतस्येति । प्रत्येकपक्षे यो दोषः स उभयपक्षे तदा भवति यदि सर्वथा तदुभयरूपमेव वस्तु भवति, यदा तु तदुभयात्मकत्वात् प्रत्येकोभयविजातीयमेव तदङ्गीक्रियते तदा सामान्यपक्षभाविनो दोषस्य कथञ्चिद्विशेषात्मकत्वेन विशेषपक्षभाविनो दोषस्य कथञ्चित्सामान्यात्मकत्वेन परिहारस्य सम्भवेन नास्ति दोषकणस्याप्यवकाश इत्याशयेनाह-जात्यन्तरत्वाचेति । न चैतदृष्टचर मित्यावेदयितुमाह-नरसिंहवदिति । कस्मा