________________
भाष्यटीकाविवृतियुता] बौद्धोपदर्शितविरोधनिरसने पर्यायभेदानामुपवर्णनम् । [५७] नत्वात् सामान्यलक्षणस्य, परिकल्पितयोश्च खरतुरगविषाणयोर्विरोध इत्यद्भुतमपश्यद् भिक्षुवरः, तस्मात् स्वलक्षणविषय एव विरोधोऽस्तु, तत्रापि न स्खलक्षणमित्येव विरोधः, किन्तु द्रव्याणां द्विविधाः पर्यायाः--क्रमभुवः सहभुवश्च, युगपदवस्थायिनोऽयुगपदवस्थायिनश्च, सूक्ष्माः स्थूलाश्च, साध्याः साधनानि च, व्यापृताश्चाव्यापृताश्च, यथा घटे सद्रव्यमूर्ताचेतनरूपरसगन्धस्पर्शसङ्ख्यासंस्थानादयः सहभुवो युगपदवस्थायिनः, स्थूलाः सूक्ष्माश्च, साधनानि साध्यानि च, कार्यवशाद् व्यापृताश्चोदकाद्याहरणादिषु; मृत्पिण्ड-शिवक-स्थासक-कोशक-कुशूल-घट-कपाल-शकल-शर्करा-पांशु-त्रुटि-परमाणवः क्रमभुवः, नहि मृदादिसामान्यव्यतिरेकेण पिण्डादिधर्मा भवितुमुत्सहन्ते, न ह्यङ्गुलिभेदेनर्जुकुटिलतयोः सम्भवः, सैव हि साङ्गुलिः स्वाँस्तु धर्मान् पारम्पर्यमात्रप्रतिलब्धवृत्ती क्रमेणोन्नमयति, मयूराण्डकरसवदुपारूढखरूपाख्येति वचनात् , एत एवासहावस्थायिनः सूक्ष्माः स्थूलाश्चापेक्षया नित्यानित्यादयः साध्याः साधनानि चाव्यापृता उदकाद्याहरणादिषुः तेषां को नामायं विरोधः ? । ननु सहानवस्थानम् , तन्न,
स्यात्तदा तदाधारतया कल्पितं नित्यत्वं सामान्यलक्षणं भवेत् , न च बौद्धमते किश्चिन्नित्यमतो नित्यत्वं सामान्यलक्षणमपि न भवत्येवातस्तृतीयप्रकारोऽपि विरोधस्य न तत्र घटामाटीकत इत्याह-वलक्षणोपादानत्वादिति, खलक्षणाश्रितत्वादित्यर्थः। यदि च खलक्षणानाश्रितत्वेन नित्यत्वमनित्यत्वञ्चासामान्यलक्षणमपि परिकल्पितमिति परिकल्पितयोविरोध इति लक्षणाक्रान्तमेवेत्यभ्युपगम्यते तदापि तयोर्विरोधो न घटत एव, परिकल्पिताशेषोपाख्याविकलतया विरोधाविरोधादिधर्मानास्पदत्वाद्, अन्यथा खरतुरगविषाणयोरपि विरोधस्स्यादित्याह-परिकल्पितयोश्चेति । सामान्यस्य खलक्षणोपादानत्वे खलक्षणत्वमेवाऽन्यथा तु परिकल्पितत्वमेवोभयथाऽपि न सामान्यलक्षणत्वमिति सामान्यलक्षणयोर्विरोध इति नास्त्येव भिदा किन्तु स्खलक्षणयोर्विरोध इत्येक एव भेदो विरोधस्येति विषयभेदाभावाद्विरोधद्वैविध्यमसङ्गतमेवेत्याह-तस्मादिति । अस्तु खलक्षणयोर्विरोध इत्येक एव प्रकारस्तमाश्रित्यैव नित्यानित्ययोर्विरोधः सङ्गमनीय इत्यत आह-तत्रापीति, विरोधस्य खलक्षणमात्रविषयत्वेऽपीत्यर्थः । न स्वलक्षणमित्येव विरोध इति, इदमपि खलक्षणमिदश्च स्खलक्षणमित्येतावन्मानं न विरोधः, अविरुद्धोभयस्वभावस्यैकस्य खलक्षणस्य सम्भवात् । तर्हि खलक्षणयोर्विरोध इति कोऽर्थ इति पृच्छति-किन्विति। द्रव्याणां ये पर्यायाः खलक्षणभूतास्तेषां विभिन्नखभावानां विरोधः स्यात् , सोऽपि विरोधः परेण निरुच्य योजयितुमशक्य इत्याशयेनोत्तरयति-द्रव्याणामित्यादिना। के सहभुवः के वा क्रमभुवः पर्याया इत्याद्यपेक्षायां युगपदवस्थायिनः सहभुवः, अयुगपदवस्थायिनः क्रमभुव इति योज्यम् । स्थूलाः सूक्ष्माश्चेत्यादयः सहभुवां क्रमभुवां चान्वेतुमर्हन्ति, एतदुदाहरणेन स्पष्टयति-यथेत्यादिना । कार्यवशाट्याप्रताश्वोदकाद्याहरणादिष्वित्यन्तमेको ग्रन्थः, उदकाहरणादिषु व्यापारश्च सद्रव्यादीनां घटपर्यायाभेदभावेनेति बोध्यम् । मृत्पिण्डेत्यादि अव्यापृता उदकाद्याहरणादिष्वित्यन्तमेको ग्रन्थः, अत्र पर्यायाणां भेदविवक्षयाऽव्यापृतत्वमुक्तम् । द्रव्येण सहावस्थानादभिन्नतयोपलब्धेश्च सहभुवां द्रव्यपर्यायत्वमनुभवारूढत्वाच्छ्रद्धेयं भवतु क्रमभुवां तु तत्त्वं कथं श्रद्धेयमित्यत आह-नहीति । यदि पिण्डशिवकादयो मृदमन्तरेणानुभवपथमवतरेयुस्तर्हि तेषां मृद्भिन्नत्वेन मृत्पर्यायत्वं न स्यात् , न चैवमतो मृत्पर्याया एव ते, मृद एव तेन तेन रूपेण परिणमनादित्याह-नहि मृदादीति, आदिपदात्सद्रव्यमूर्तादिसामान्यानामुपग्रहः । उक्तमर्थमेव दृष्टान्तद्वारा भावयति-नह्यङ्गलिभेदेनेति । सैव हि साङ्गुलिरिति, सैव ह्यङ्गुलिरित्येव पाठो युक्तः । धर्मान् ऋजुत्वकुटिलत्वादीन् । क्रमेणोन्नमयति क्रमेणाविर्भावयति, ताँस्तान् धर्मान् क्रमेण प्रतिपद्यत इति यावत् । न चैतदनागमिकमित्याह-मयूराण्डकेति, मयूराण्डकरसे यथा मयूराकृतिविचित्ररूपसचन्द्रकपक्षादिवरूपनिमग्नमेव क्रमेणाविर्भवति तथेत्यर्थः । उपारूढस्वरूपाख्येति, प्रथमत एव उपारूढमन्तर्विवर्त्तमानं खरूपं सन्निवेशविशेषादिस्तदाख्या नाम चेत्यर्थः। एते एव मृत्पिण्डशिवकस्थासकादय एव, तेषां पर्यायाणां येऽनुवर्त्तन्ते तद्रूपेण नित्याः, ये चान्येऽन्ये च भवन्ति व्यावर्त्तन्त इति यावत् तद्रूपेणानित्या इत्याह-अपेक्षयेति । नित्यानित्यादय इति, आदिपदात्सदसद्भिन्नाभिन्नादीनामुपग्रहः । तेषां च पर्यायाणामेकस्मिन् द्रव्ये सम्भवान्नास्ति विरोध इत्याह-तेषां को नामाऽयं विरोध इति । पर आह-नन्विति । प्रतिक्षिपति-तन्नेति ।
त.नि. ८