________________
[ ५६ ]
धर्मकीर्तिकीर्तितविरोधद्वैविध्यापाकरणम् ।
[ तत्वार्थत्रिसूत्री
यतोऽसहावस्थानलक्षण एव विरोधो द्विधा कल्प्यते, नामैव च लक्षणं, न सहावस्थानं लक्षणं यस्य विरोधस्येत्यनेनैव शीतोष्णस्पर्शयोरिव नित्यानित्यविरोधस्यापि सङ्गृहीतत्वाद् भेदेनाभिधाने प्रयोजनाभावाद् दुर्विदग्धतामात्रमेवावशिष्यते भिक्षुवरस्य । स्यादियमारेका, दृश्यपरिनिष्पन्नयोः प्राच्यः, इतरः परिकल्पितरूपयोः, स्वसामान्यलक्षणविषयत्वेन भेदप्रकाशन मिति, एतदप्यसङ्गतम्, स्वलक्षणभेदानामानन्त्यात् परिकल्पबहुत्वाच्च कुतो द्वैविध्यम् । अपि च नित्यता भवतु परिकल्पः, अनित्यता पुनः संस्कृतलक्षणम्, “उत्पत्तिः स्थितिर्जराऽनित्यते " ति वचनात् । दिग्नागेनाप्युक्तम्, “नित्यसमायां जातौ स एव तु भावोऽभूत्वा भवन् भूत्वा वाऽभवन्ननित्य इत्युच्यते सा चावस्था भावप्रत्ययेनानित्यते" ति, एवं च न नित्यानित्ययोः सामान्यलक्षणयोर्विरोधः, नापि स्वलक्षणसामान्यलक्षणयो:, स्वलक्षणोपादा
नाम तदेव च लक्षणमिति । एतदेव भावयति न सहावस्थानमिति । भवतु नामैव लक्षणं ततः का नो हानिरत आहअनेनैवेति, उक्तलक्षणेनैवेत्यर्थः । भेदेनाभिधान इति, परस्परपरिहारस्थितिलक्षणतयाऽभिधान इत्यर्थः । दुर्वि - दग्धता दुष्पाण्डित्यम् । भिक्षुवरस्य धर्मकीर्तेः । स्वलक्षणयोर्वस्तुभूतयोः प्रथमो विरोधः, सामान्ययोश्च परिकल्पितयोर्द्वितीय इति विषयभेदेन विरोधद्वयोपदर्शनं नायुक्तमिति पराभिप्रायमुत्थापयति- स्यादियमारेकेति । प्राच्यः, असहावस्थानलक्षणो विरोधः । इतरः परस्परपरिहार स्थितिलक्षणो विरोधः । स्वसामान्यलक्षणविषयत्वेनेति, अत्र स्खलक्षणसामान्यविषयत्वेनेति पाठो युक्तः, यतः सामान्योत्तरलक्षणशब्देन खस्य सम्बन्धे खलक्षणलाभेऽपि सामान्यलक्षणस्यापि लाभात् न च विकल्पगोचरस्य सामान्यलक्षणपरिभाषा बौद्धानां किन्तु सामान्य परिभाषैवेति, अथवोत्तर ग्रन्थपर्यालोचनात्सामान्यलक्षणपरिभाषाऽपि परिकल्पितस्यातो यथाश्रुतपाठोऽपि युक्त एवेति बोध्यम् । तथा च खलक्षणविषयत्वेना सहावस्थानलक्षणविरोधस्य कथनं सामान्यलक्षणविषयत्वेन परस्परपरिहारस्थितिलक्षणविरोधस्य कथनमित्येवं प्रयोजनसम्बन्धाद्विरोधद्वैविध्योपवर्णनं प्रेक्षापूर्वका रितैवावेदयति कर्तुर्धर्मकीर्तेरित्याशयः । यदि विषयद्वैविध्याद्विरोधद्वैविध्यं तदा स्खलक्षणानामप्यनेकप्रकारत्वात् परिकल्पितानां सामान्यलक्षणानामप्यनेकविधत्वाद्विरोधानन्त्यमेव स्यान्न द्वैविध्यमिति समाधत्ते - एतदप्यसङ्गतमिति । परिकल्पेति, सामान्येत्यर्थः । यदि च खलक्षणानामवान्तरभेदेऽपि खलक्षणत्वेन सर्वेषामुपग्रहात् सामान्यलक्षणानामवान्तरभेदेऽपि सामान्यलक्षणत्वेन सर्वेषामुपग्रहाच्च विषयद्वैविध्यमास्थाय विरोधद्वैविध्यमुच्यते तदाप्याह - अपि चेति । बौद्धमते क्षणिकैकान्ते नित्यस्य कस्यचिदभावान्नित्यत्वं कल्पितरूपमेवेति कृत्वा परिकल्परूपत्वेन सामान्यलक्षणत्वं भवतु, अनित्यं तु तन्मते खलक्षणमतोऽनित्यत्वं वस्तुभूतं परिकल्पत्वाभावान्न सामान्यलक्षणम्, तयोर्विरोधो न स्वलक्षणैकविषयलक्षणलक्ष्यो नापि सामान्यलक्षणैक विषयलक्षणलक्ष्यः, विरोधस्य तृतीयप्रकारस्तु भवता नोपदर्शित एवेति तयोर्विरोध एव न स्याद, भवन् वा विरोधस्य तृतीयप्रकारमादाय स्यात्, ततो द्वैविध्याभिधानं विरोधस्यासङ्गतमेवेत्याह- नित्यतेति । संस्कृतलक्षणमिति, संस्कारप्राप्तं स्वमेव लक्षणं यस्येति व्युत्पत्त्या स्वलक्षणमित्यर्थः, वस्तुखरूपाख्याने नास्य संस्कारो विहित इत्यत्रैतत्स्वरूपप्रख्यापकवचनं प्रमाणतयोपदर्शयति- उत्पत्तिरिति, परमाण्वादीनां योत्पत्तिः सैव स्थितिस्तेषामन्यदाऽवस्थानाभावेन तद्रूपस्थितेरसम्भवात्, या जरा विनश्यदवस्था सैवानित्यता, अतिरिक्तध्वंसस्यानभ्युपगमेन तत्प्रतियोगित्वलक्षणानित्यत्वस्याभावात्, एवञ्च वस्तुस्वरूपमेवानित्यत्वमतो न परिकल्पः । बौद्धप्रकाण्डेन दिग्नागेनापि संस्कृतलक्षणमनित्यमिति तेनापि वस्तुभूतमेवानित्यत्वमुपगतमिति दर्शयति- दिग्नागेनाप्युक्तमिति । किमुक्तमित्यपेक्षायां तदुक्तिमुपनिबध्नाति - नित्यसमायामिति, असदुत्तररूपाया जातेर्विशेषो नित्यसमाभिधानजातिस्तस्यां प्रसङ्गागतायामित्यर्थः । सा चावस्थेति, अभूत्वा भवनलक्षणा भूत्वाऽभवनलक्षणा चेत्यर्थः, अवस्था चावस्थातुरभिन्नेति खलक्षणरूपताऽनित्यत्वस्य ततः प्राप्तेति भावः । भवत्वनित्यत्वं खलक्षणमेव ततः किमत आह-एवञ्चेति, नित्यत्वस्य परिकल्पत्वेऽनित्यत्वस्य स्वलक्षणत्वे चेत्यर्थः । न नित्येति, सामान्यलक्षणयोर्यो विरोधः परस्परहरिहारस्थितिलक्षणः स न नित्यानित्ययोः, नित्यत्वस्य सामान्यलक्षणत्वेऽपि अनित्यत्वस्य तत्त्वाभावादित्यर्थः, स्वलक्षणयोर्योऽसहावस्थानलक्षणो विरोधः स नित्यानित्ययोर्धर्मकीर्त्तिनाऽपि नाभ्युपगत इति तत्प्रतिक्षेपो न कृतः, अर्थात्प्रतिक्षेपस्तु तस्यागत एव, अनित्यत्वस्य स्वलक्षणत्वेऽपि नित्यत्वस्य तत्त्वाभावादिति । भवतु तत्संप्रहृाय विरोधस्य तृतीयप्रकारोऽप्यत आह-नापि स्वलक्षणसामान्यलक्षणयोरिति । नित्यं यदि किश्चि