________________
भाष्यटीकाविवृतियुता] अर्पितव्यावहारिकमित्यादिभाष्यस्यैकधा व्याख्यानम् । नर्पितधर्मात्मकस्तद्विषयः शब्दो व्यवहाराङ्गमतः शब्दव्यवहार एव प्राधान्येनाङ्गीक्रियते, अत्र प्रत्यर्थ च प्रतिपत्तिः शब्दात् साक्षाद् गम्यमानार्थतया च सर्वत्रैव, यतः सदेकनानानित्यानित्यादिधर्मकलापपरिकरमशेषमस्तिकायजालम् , तत्रान्यतमैकधर्मार्पणे शेषधर्माणां गम्यमानता, यतो न सद् असत्त्वादिभेदविविक्तम् , असद् वा सदादिविकल्पशून्यम् , अन्योन्यापेक्षसत्ताकत्वात् सदादीनाम् , एवं वस्तुनिश्चयः, अर्पितमुपनीतं वस्तु-विवक्षितेन धर्मेण साक्षाद् वाचकेन शब्देनाभिहितम् , व्यवहारः प्रयोजनमस्येति व्यावहारिकम्, अर्पितं च तद् व्यावहारिकं चेत्यर्पितव्यावहारिकम् । एतदुक्तं भवतिकिश्चिद् वस्तु विशिष्टाभिधानार्पितं सद् व्यवहारं साधयति, अपरमनर्पितमेव साक्षाद् वाचकेन शब्देन प्रतीयमानं सद्व्यवहाराय व्याप्रियत इत्यत आह–अनर्पितव्यावहारिकं चेत्यर्थः । अथवाऽर्पिचेत्यर्थः । तद्विषयः, अर्पितानर्पितधर्मात्मकार्यप्रतिपादकः । व्यवहाराङ्गमिति, अनन्तधर्मात्मकतया व्यवस्थितमपि वस्तु न तत्तद्धर्मप्रतिपादकशब्दमन्तरेण व्यवहारवीथीमवतरतीति शब्दस्य व्यवहाराङ्गत्वमवसेयम्, व्यवहारश्च इष्टानिष्टोपेक्षणीयगोचरप्रवृत्तिनिवृत्त्युपेक्षालक्षणः । यद्यपि व्यवहारे व्यवहर्त्तव्यस्य विषयतया तं प्रतितादात्म्येन तज्ज्ञानस्य च समानविषयतया कारणत्वं तथापि प्रयोज्यकवृद्धाभ्यामुपजायमानः स शब्दखरूपतामात्मसात्कुर्वन्नेवोपजायत इति निमित्ततामात्रेणार्थव्यवहारज्ञानव्यवहारभावेऽपि प्राधान्यं शब्दव्यवहारस्यैव, तयोरपि तमुपादायैव लोकयात्रानिर्वाहकत्वादित्यभिसन्धानेनाह-अतः शब्दव्यवहार एवेति । यद्यपि “सर्वे सर्वार्थवाचका” इति सिद्धान्तादेकस्यापि शब्दस्य सर्वार्थवाचकत्वम् , ततः सर्वधर्मवाचकत्वमपि, तथापि एकेनैव शब्देन ग्रन्थसार्थप्रत्यायनसकललोकयात्रानिर्वहणस्यादर्शनेन तत्तद्वाक्यकदम्बकघटितप्रकरणाध्यायसमष्टिरूपमहाग्रन्थसार्थनिर्माणवैयर्थ्यप्रसङ्गभयेन च प्रतिनियतार्थसङ्केतसहकृतस्यैव शब्दस्य तत्तदर्थबोधकत्वमित्यस्यावश्याभ्युपगमेनैकयोक्त्या नैकस्माच्छब्दात् साक्षाद्वाच्यतया सर्वधर्मावगतिरनन्तधर्मात्मकवस्ववगतिर्वा, किन्तु यत्र धर्मे यद्धर्मविशिष्टे वा वस्तुनि गृहीतसङ्केतो यो यश्शब्दस्ततस्तत्तद्धर्मस्य तद्विशिष्टस्यार्थस्य साक्षादवगतिः, धर्मान्तराणाञ्च गम्यमानतया, यत एकस्य धर्मस्य तद्विशिष्टस्य चार्थस्याशेषधर्माविनाभावित्वादिति वाच्योऽर्थोऽर्पितो गम्योऽनर्पित इति कृत्वाऽर्पितानर्पितसिद्धिरुपपद्येतरामित्याशयेनाह-अत्र प्रत्यर्थ चेति, प्रतिधर्म प्रतिनियतधर्मविशिष्टं चेत्यर्थः । सर्वत्रैवेति, सर्वेषु धर्मेषु तद्विशिष्टेऽर्थे चेत्यर्थः, शब्दात्प्रतिपत्तिरिति सम्बद्ध्यते। सम्मुग्धतया भावितमेवार्थ विशेषतो भावयन्नाह-यत इति । ननु सत्त्वस्य विवक्षणरूपार्पणे कुतोऽसत्त्वादेर्गम्यमानता? तेषामभावादेवानर्पणसम्भवादत आह-यत इति, सत् सामान्यम् असत्त्वादिविशेषविकलं न यत इत्यर्थः । ननु सत्त्वं मा भूद् असत्त्वादिविशेषविकलं, ततः सत्त्वार्पणेऽसत्त्वादीनां गम्यमानता भवतु, असत्त्वादिकं तु प्रत्येकं सत्त्वादिविकलं भविष्यति, ततोऽसत्त्वाद्यर्पणे सत्त्वादीनां गम्यता न प्राप्नोतीत्यत आह-असद्धेति । कथमेतदवधारणीयमित्यत आह-अन्योन्यापेक्षेति । नन्वस्तु सत्त्वादीनामन्योन्याभावः, एतावतैकज्ञानेऽपरज्ञानमपि भवत्येवेति नहीयं राज्ञ आज्ञा, धूमज्ञानेऽपि वढेः कदाचिज्ज्ञानात्कदाचिदज्ञानाच्चेत्यत आह-एवं वस्तुनिश्चय इति, वस्तुनिश्चयार्थमेव हि अर्पणमनर्पणञ्चाश्रीयते, यद्येकग्रहणेऽप्यन्यग्रहणं न स्यात्तदा वस्त्वेकदेशग्रहणमेव भवेद् न त्वनन्तधर्मात्मकस्य वस्तुनो ग्रहणमतस्तदन्यथानुपपत्त्यैकधर्मग्रहणे तदन्यधर्माणामपि तदविनाभाविनां ग्रहणमास्थीयते, एवमेव वस्तुनिश्चय उपपद्यत इत्यर्थः । नन्वेवं वस्तुनिश्चये विवक्षिताविवक्षिताशेषधर्माणां ग्रहणस्यावश्यकत्वे कः प्रतिविशेषो विवक्षाविवक्षयोरित्यत आहअर्पितमिति । अस्यैवार्थकथनम्-उपनीतं वस्त्विति । न ज्ञायते उपनीतं वस्त्वित्यनेन किं कथितं भवत्यतस्तस्यैव स्पष्टतरं व्याख्यानम्-विवक्षितेन धर्मेण साक्षाद्वाचकेन शब्देनाभिहितमिति । व्यावहारिकमित्यस्यार्थं स्पष्टयतिव्यवहारप्रयोजनमस्येति व्यावहारिकमिति । अत्र भाष्ये कर्मधारयसमासोऽभिमतोऽर्पणस्य व्यवहारप्रयोजनकत्वादित्याशयेनाह-अर्पितञ्चेति । अर्पितव्यावहारिकमित्यनेन किमुक्तम्भवतीति शिष्यजिज्ञासायामाह-एतदुक्तं भवतीति । विशिष्टाभिधानार्पितं सत्, तत्तद्विवक्षितधर्मविशिष्टवाचकशब्देन साक्षादामधीयमानं सतू । व्यवहारं प्रवृत्त्यादिरूपम् । अपरमविवक्षितधर्मविशिष्टं वस्तु। अनर्पितमेवेति, अएक साक्षात् पादेयोग तथा च साक्षाद्वाचकेन शब्देनाभिहितमेवेति तदर्थः । प्रतीयमानम् , अविनाभावितकालमयमान। एतदभिप्रोयकमेव अजसितल्यावहारिकमिति भाष्यमित्याह-अत आहेति । प्रकारान्तरेणोक्तभाष्यार्थमाह-लथवेलि-अर्पितविषय इति, एजेच्चाफिीस्यार्पिते वा व्यवहारो