Book Title: Tattvartha Trisutri Prakashika
Author(s): Vijaylavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 104
________________ भाष्यटीकाविवृतियुता] सतश्चातुर्विध्योपन्यासे प्रयोजनं प्रतिभेदं नयविवेको व्युत्पत्तिश्च । [३] पर्ययद्रव्यादिभेदप्रपञ्चौरूप्येप्येकस्य धर्मिणः परिणामसमूहस्वभावस्योत्तरोत्तरभेदप्रदर्शनार्थः, एवंविधोपन्यासे च सर्वतत्पर्यायाकाङ्क्षा, तावत्परिणामानुयायित्वात् तत्संज्ञासम्बन्धादीनाम् , तत्रादिमद्भिः पर्यायैरर्यमाणं सतो भावाद् व्येति व्येष्यतीति चानित्यम् , अनाद्यैः पर्यायैरादिश्यमानं सत्त्वद्रव्यत्वसंज्ञित्वप्रमेयत्वचेतनत्वमूर्तामूर्तत्वभौतिकत्वेतरत्वग्राह्यत्वादिभिरविनाशधर्मकत्वान्नित्यम , तद्धि सूक्ष्मोत्पादभङ्गसन्ततिसम्भवेऽपि सत्त्वादिभिराकारैर्नोत्पद्यते नापि विनश्यति । तत्र द्रव्यास्तिकं मातृकापदास्तिकं च द्रव्यनयः, उत्पन्नास्तिकं पर्यायास्तिकं च पर्यायनयः । अस्ति मतिरस्येत्यास्तिकं, सतः प्रस्तुतत्वात् तदभिसम्बन्धे नपुंसकलिङ्गता, द्रव्ये आस्तिकं द्रव्यास्तिकम् , मयूरव्यंसकादावकृतलक्षणतत्पुरुषप्रक्षेपात् । अथवाऽधिकरणशेषभावविवक्षायां द्रव्यस्यास्तिकं द्रव्यास्तिकम् , अथवा आस्तिकमस्तिमति, किं तत् ? नयरूपं प्रतिपादयित, कस्य प्रतिपादकम् ? द्रव्यस्य, अतः प्रतिपर्यायास्तिकमित्यनेन प्रतिक्षणविनाशपर्याय एवावेद्यत इति । यद्युत्पादादिमूलभेदान्तःपात्येव द्रव्यास्तिकमित्यादि तदा गतार्थत्वान्नास्य पृथगुपन्यासेन कृत्यमित्यत आह-सविपर्ययेति, सतो द्रव्यस्य विपर्ययोऽसन् नित्यस्यानित्य इत्यादि|ध्यः । सविपर्ययद्रव्यादिभेदप्रपञ्च उत्तरोत्तरभेदप्रदर्शनार्थ इत्यन्वयः । एवं सति द्रव्यादिसामान्याभिधानमेव कथं कृतं न तु तदवान्तराभिधानमास्तिकपदसमन्वितमुपन्यस्तमत आह-एवंविधोपन्यासे चेति । सर्वतत्पर्यायाकालेति, अनादिसामान्यपर्यायादारभ्यैवान्त्यपर्यायं यावत् पर्यायप्रवृत्तिर्भवत्यतः सर्वेऽपि पर्याया आकाङ्कितास्सन्तस्तथैव निरूपणीयभावं प्राप्नुवन्ति मूलप्रकृतिखभावत्वादुत्तरप्रकृतीनामिति ग्रन्थलाघवार्थमित्थमुपन्यास इति हृदयम् । कथं सर्वतत्पर्यायाकाङ्क्षणं द्रव्याद्युपन्यास इत्यपेक्षायामाह-तावदिति, द्रवति ताँस्तान् पर्यायान् गच्छतीति द्रव्यमिति अन्वर्थद्रव्यशब्दोपादाने यान्त उत्तरपर्यायास्तावदनुयायित्वेन द्रव्यार्थावबोधः, द्रव्यस्य परमाण्वादिरूपस्योत्तरपर्याया ये मृदादयतेऽपि खोत्तरपर्यायान् मृत्पिण्डादीननुगच्छन्तीत्युक्तव्युत्पत्यनुगृहीतद्रव्यसम्बन्धः, आदिपदग्राह्यानुगतबुद्ध्याधायकत्वादयश्च तदुत्तरयावत्पर्यायानुयायिन एवेति, एवं सामान्यविशेषपर्यायाश्रयो हि मातृकापदवाच्य इति यथा मृत्त्वरूपे पर्याये आपेक्षिकसामान्यविशेषपर्यायस्याविष्वग्भावेनाश्रयत्वं तथा स्थासत्वकुशूलत्वकलशत्वकपालत्वादीनामपीति सामान्यविशेषपर्यायाश्रयत्वाद्यावदुत्तरपर्यायेषु मातृकपदरूपसंज्ञासम्बन्धादीनामनुयायित्वम् , एवमुत्पन्नपदपर्यायपदयोरपीति । सर्वतत्पर्यायर्वस्तुनो निरूपणीयत्वे व्यवस्थितत्वं नित्यत्वमनित्यत्वं यया प्रक्रियया सङ्गतिमङ्गति तां प्रक्रियामुपदर्शयति-तत्रेत्यादिना। सत्त्वेत्यादि, सत्त्वद्रव्यत्वसंज्ञित्वप्रमेयत्वानि पञ्चानामप्यस्तिकायानाम् , चेतनत्वं जीवस्य, मूर्त्तत्वं पुद्गलस्य, अमूर्त्तत्वं पुद्गलभिन्नानामस्तिकायानाम् , भौतिकत्वं पुद्गलस्य, तदितरत्वं पुद्गलभिन्नानाम् , ग्राह्यत्वं ग्रहणयोग्यतालक्षणं सर्वज्ञज्ञानापेक्षया सर्वेषामित्येवमनादिपारिणामिकभावविवेको बोध्यः । तद् अनादिपारिणामिकभाववत्तया नित्यं वस्तु । हि यतः। सूक्ष्मेति, सत्त्वद्रव्यत्वादेर्यत्प्रतिक्षणविवर्तिखखरूपपरिणमनं तदात्मकेत्यर्थः, एतच्च नापरिणम्य किञ्चित्क्षणमप्यवतिष्ठत इति न्यायप्राप्तं न तु स्थूलमतिग्राह्यमिति सूक्ष्ममुच्यते, तदात्मना सत्त्वादीनामप्युत्पादव्यययोगिस्वात्मकक्षणपरम्परालक्षणसन्ततिसम्भवेऽपीत्यर्थः, तद्रूपसूक्ष्मोत्पादव्ययसन्ततेर्व्यवहारपथातिक्रान्तत्वान्न नित्यव्यवहारविघातित्वमित्यभिसन्धिः । सतो नित्यत्वमनित्यत्वमुपपाद्य तत्र नित्यत्वमुपादाय द्रव्यास्तिकं मातृकापदास्तिकमिति द्वौ भेदौ, अनित्यत्वमुपादाय उत्पन्नास्तिकं पर्यायास्तिकमिति द्वौ भेदाविलेवं चतुर्विधत्वं सत इत्युषपादयन्नाह-तत्रेति । द्रव्यनय इति, विषयविषयिणोरभेदं विवक्षित्वेत्थमुक्तिः, एवं पर्यायनय इत्यत्रापि । द्रव्यास्तिकमिति व्युत्पादयितुमाह-अस्तीत्यादि । अस्ति मतिरस्येत्यास्तिक इति पुंलिङ्गनिर्देशः कस्मात्परित्यक्त इत्यपेक्षायामाह-सत इति, सच्चतुर्विधमित्यनेन सदेव प्रस्तुतम् , "सामान्ये नपुंसकम्" इत्यभिधानात्तन्नपुंसकमिति तद्विशेषाभिधायकमिदमपि नपुंसकतयाऽभिहितम् । सप्तमीतत्पुरुषविशेषोऽयं न सूत्रतः सम्पद्यत इत्यत आह-मयूरेति । षष्ठीतत्पुरुष एवायम् , स च सूत्रित एवेत्याह-अथवेति । अधिकरणेति, अधिकरणस्य द्रव्यस्य शेषभावविवक्षायां शेषाख्यकर्तृत्वाद्यततिरिक्तसम्बन्धभावविवक्षणे "शेषे” इति षष्ठ्यां “षष्ठ्ययनाच्छेषे” इति समासः । समाससुघटनाकृते प्रकारान्तरमाश्रयति-अथवेति, अस्ति मतिरस्येति व्युत्पत्तिको नायं शब्दः, किन्तु सत्ताविशिष्टार्थक इत्याह-अस्तिमतीति, सत्त्वविशिष्टार्थे वर्तत इत्यर्थः । ननु सर्वाणि वस्तूनि सत्ताविशिष्टान्येव कोऽत्र विशेष इत्याशङ्कामन्तर्भाव्य प्रश्नयति-किं तदिति । नयरूपमिति, पङ्कजादिवद् योग़रूढिभ्यां नयरूपं सत्ताविशिष्टं वस्तु आस्तिकपदेन ग्राह्यम्। कीदृशं नयरूपमित्याह-प्रतिपादथित.

Loading...

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150