Book Title: Tattvartha Trisutri Prakashika
Author(s): Vijaylavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 96
________________ भाग्यटीकाविवृतियुता ] धर्मकीर्तिकीर्तितविरोधस्वरूपं तन्निरासोपक्रमश्च । [ ५५ ] काभावः, तत्रापिनं कर्मणः सहावस्थानमनिष्टम्, किं तर्हि ? विपाकपर्याययोरसहावस्थिति:; [ अथ ] युर्विपाकपर्याय: सुरायुषो विपाकेन सह नावतिष्ठत इत्यसहावस्थानलक्षण एव, विगमप्रतिपयोश्चैककालत्वाज्जातुचित् सहावस्थानमपीति । उपेत्य वा ब्रूमः - अस्त्वयं विरोधः, प्रस्तुते वस्तुनि न कश्चिद् शेषः, gora एव द्रव्यपर्याययोरन्यतरस्य गुणप्रधानभावः, कदाचिद् द्रव्यं विवक्ष्यते, न पर्यायः, कदाचित् पर्यायो विवक्ष्यते, न द्रव्यम्, उभयं तु सम्भवति, त्वयाऽप्येककालयोरेव प्रतिबन्ध्यप्रतिबन्धकभावोऽभ्युपेयते, अन्यथा स एव न स्यात् प्रतिबन्धः, अतो न कश्चिद् विरोधः । सदसतोर्नित्यानित्ययोर्वा भिक्षुवरधर्मकीर्तिनापि विरोध उक्तः प्रमाणविनिश्चयादौ, स पुनरयं विरोधः कथं गम्यते ?, क्वचिदचिकलकारणस्य भवतोऽन्यभावेऽभावाद विरोधगतिर्भवति, यथा - शीतोष्णस्पर्शयोरसहावस्थानम्, अन्योन्य परिहार स्थितिलक्षणतया वा विरोधो नित्यानित्यवत्-अन्योन्यं परस्परं व्यवच्छेदः परिहारस्तेनान्योन्यपरिहारेण स्थितिलक्षणोऽन्योन्यव्यवच्छेदरूपः, परस्परपरिहारस्थितिलक्षणतया च विरोधिनोनित्य नित्ययो रेक परिग्रहो ऽपरत्याग नान्तरीयक एकत्यागोऽप्यपरपरिग्रहा विनाभावी, तथा भावाभावयोरेकाभावः, एष च प्रतियोगिव्यवच्छेदरूपः सामयिकोऽसहावस्थानभेद एव, पूर्वकस्तु शीतोष्णस्पर्शयोश्छायातपयोः प्रकाशतमसोश्च दृश्यात्मनोः परिनिष्पन्नयोरेकत्राभावादनुपलब्धिलक्षण इत्येतावान् विशेष इति । अत्रोच्यते - तार्किकापशब्देन न किश्चिदत्रातिरिक्तमपदिष्टम् । यदप्यपादेशि तदप्यसमीचीनम्, निष्टमित्याह-उपेत्य वेति । उभयं त्विति, द्रव्यपर्यायोभयं त्वित्यर्थः । अन्यथा प्रतिबध्यप्रतिबन्धकयोस्तुल्यकालत्वाभावे । स एव प्रतिबध्यप्रतिबन्धकभाव निबन्धनप्रयुक्तो य एवंभूत एव । न स्यात् प्रतिबन्धः, प्रतिबन्धः स्थगनम्, कार्यस्यानुत्पादो न स्यादित्यर्थः । अयमभिप्रायः वह्निः प्रतिबध्यः चन्द्रकान्तमणिः प्रतिबन्धकस्तयोस्तुल्यकालत्वे एव दाहरूपकार्यानुत्पादलक्षणो वह्नेः प्रतिबन्धो भवति, अतुल्यकालत्वे तु वह्निना दाहो जन्यत एवेति नास्ति प्रतिबन्ध इति । उक्तविरोधखण्डनमुपसंहरति-अतो न कश्चिद्विरोध इति । सदसतोर्नित्यानित्ययोर्वेति ग्रन्थः पूर्वान्वय्यपि सम्भवति सदसतोर्नित्यानित्ययोर्वा न कश्चिद्विरोध इत्येवम्, उत्तरग्रन्थेनाप्यन्वेतुमर्हति सदसतोर्नित्यानित्ययोर्वा विरोधो भिक्षुवरधर्मकीर्त्तिनाऽप्युक्त इति । इदानीं बौद्धाभिमतविरोधखण्डनायोपक्रमते - भिक्षुवरेति, बौद्धविशेषेत्यर्थः । प्रमाणविनिश्चयादौ प्रमाणविनिश्चयाभिख्यग्रन्थादौ । स धर्मकीर्तिदर्शितः । कथं गम्यते क्या रीत्या प्रज्ञापनागोचरः क्रियते, एवंविधजिज्ञासया पूर्वपक्षीभूतं धर्मकीर्त्तिमतमुपदर्शयति- क्वचिदित्यादिना । अन्योन्यपरिहारस्थितिलक्षणं विरोधं व्याख्यानपुरस्सरं लक्ष्ये सङ्गमयन्नाह-अन्योन्यमित्यादिना । एकपरिग्रहो ऽपरत्यागनान्तरीयकः, एकस्य नित्यस्य परिग्रहः स्वीकारोsपरस्यानित्यस्य यस्यागो व्यवच्छेदस्तेन नान्तरीयको व्याप्तः, नित्याभ्युपगताववश्यमनित्यपरित्याग इति यावत् । एकत्यागोऽनित्यस्य व्यवच्छेदः । अपरपरिग्रहाविनाभावी अपरस्य नित्यस्य यः परिग्रहः स्वीकारस्तेनाविनाभावी व्याप्तः, अनित्यप्रतिषेधेऽवश्यं नित्यस्वीकार इति यावत् । परस्परपरिहारस्थितिलक्षण एव विरोधी भावाभावयोरपीत्याह - तथेति । एकत्राभावः, भावाधिकरणे तदभावस्याभावः, अभावाधिकरणे तत्प्रतियोगिनो भावस्याभावः । असहावस्थानपरस्परपरिहारस्थितिलक्षणयोर्विरोधयोर्विशेषमुपदर्शयितुमाह-एष चेति, एष परस्पर परिहार स्थितिलक्षणो विरोधः, प्रतियोगिव्यघच्छेदः, प्रतियोगिनो विरोधिनः, एकस्यापरो व्यवच्छेदोऽभावः, परस्पराभावरूप इति यावत् । सामयिकः समयनिबन्धनः, एकक्षणावच्छेदघटित इति यावत्; यदा यत्र प्रतियोगी तदा न तत्र तदभावः यदा यत्राभावस्तदा न तत्र तत्प्रतियोगीत्येवंरूपमसहावस्थानमेव परस्परपरिहारस्थितिलक्षण इति निर्गलितोऽर्थः । पूर्वकस्तु, असहावस्थानलक्षणविरोधस्तु । दृश्यात्मनोः निर्विकल्पकवेद्ययोः, अत एव विभिन्नाधिकरणतया व्यवस्थितयोः स्वलक्षणयोरिति यावत् । ग्रन्थकृत्समाधत्ते - अत्रोच्यत इति । तार्किकापशब्देन तार्किकाभासेन धर्मकीर्तिना । अपदिष्टम् उक्तम्, एतेना सहावस्थानलक्षणविरोधखण्डनप्रकारो मया यः प्रागभिहितः सोऽत्राप्यविस्खलित एवेति ध्वनितम् । विरोधद्वैविध्योपन्यासप्रकारोऽपि धर्मकीर्त्तेर्न शोभन इत्याह-यदप्या देशीति । नामैव च लक्षणम्, यदेवं च विरोधस्या सहावस्थानलक्षणमिति

Loading...

Page Navigation
1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150